Skip to content

Commit

Permalink
added Tantrayuktivicāra of Nīlamegha
Browse files Browse the repository at this point in the history
  • Loading branch information
chakrabortydeepro committed Jan 14, 2024
1 parent 5c271bc commit c19e485
Showing 1 changed file with 43 additions and 0 deletions.
43 changes: 43 additions & 0 deletions AyurvedaH/tantrayuktivicAra.md
Original file line number Diff line number Diff line change
@@ -0,0 +1,43 @@
This version is based on [*Muthuswami 1976*](https://n2t.net/ark:/13960/s2j1p7k0526).
the text without the autocommentary

# तन्त्रयुक्तिविचारः
तत्राधारोऽधिकरणं तात्पर्यं तत्र तिष्ठति ॥१॥
योगः पदानामेकैकमर्थौचित्येन योजना ॥२॥ []
हेत्वर्थो हेतुनैव स्यात् तत्तदर्थप्रकाशनम् ॥३॥
पदार्थस्तु पदैक्येऽपि भिन्नमर्थं प्रकाशयेत् ॥४॥ []
प्रदेशः क्वचिदुक्तानामन्यत्रोक्तैः समेतता ॥५॥
उद्देशः समवायोक्तिरिति प्राहुर्मनीषिणः ॥६॥ []
निर्देशः स्याद् विवरणं पूर्वोक्तानामनुक्रमात् ॥७॥
वाक्यशेषो विशिष्टार्थदायिनी वाक्यलक्षणा ॥८॥ []
प्रयोजनमनेकार्थसिद्ध्यै पदनिवेशनम् ॥९॥
उपदेश इदन्त्वेवमेवन्त्वादीनकल्पना ॥१०॥ []
अपदेशस्तु कण्ठोक्तं वाक्यमर्थेन दर्शयेत् ॥११॥
अतिदेशस्तु पूर्वोक्तन्यायस्यान्यानुषङ्गिता ॥१२॥ []
अर्थापत्तिः सहोक्तेभ्योऽप्येकस्यार्थोऽन्यथापतेत् ॥१३॥
निर्णयः स्थापयेदर्थमनेकविधमेकधा॥१४॥ []
प्रसङ्गः पूर्वमुक्तानां भूयोऽपि प्रतिपादनम् ॥१५॥
एकान्त एवमेवैष नान्यथेति व्यवस्थितिः ॥१६॥ []
एवं स्यादथवा नैवमिति नैकान्त ईरितः ॥१७॥
अपवर्गस्त्वनौचित्यादितरोक्त्यपवर्जनम् ॥१८॥ []
उक्तार्थवैपरीत्येन लक्षणं स्याद् विपर्ययः ॥१९॥
अपेतविपरीतार्थमविपर्ययमादिशेत् ॥ [१०]
पूर्वपक्षस्तु पूर्वेषां पक्षेष्वप्यात्मपक्षता ॥२०॥
अनन्वितानामर्थानां विधानं संविधानकृत् ॥२१॥ [११]
अपास्यानुमतं पक्षानात्मपक्षव्यवस्थितिः ॥२२॥
व्याख्यानमात्मनोक्तानामात्मनैवार्थभाषणम् ॥२३॥ [१२]
निर्धारितानामर्थानामव्यवस्था तु संशयः॥२४॥
भवेदतीतापेक्षा सा भूयोऽप्युक्तव्यपेक्षिता ॥२५॥ [१३]
भवेदनागतापेक्षा भावितार्थप्रदर्शनम् ॥२६॥
स्वसंज्ञा सा तु या संज्ञा स्वतन्त्रेष्वेव दृश्यते ॥२७॥ [१४]
ऊह्यमुक्तानुसारेण विशिष्टार्थविवेकिता ॥२८॥
समुच्चयस्तु योग्यत्वमुक्तानां तु प्रदर्शयेत् ॥२९॥ [१५]
निदर्शनं त्वसम्भाव्योऽप्यर्थो येन समर्थ्यते ॥३०॥
तत् स्यान्निर्वचनं येन वाक्यस्यार्थः प्रदर्श्यते ॥३१॥ [१६]
नियोगोऽतद्विधानां तु तद्विधत्वनियोजना ॥३२॥
विकल्पनमनिर्धार्यमर्थं प्रति विवेचनम् ॥३३॥ [१७]
प्रत्युत्सारः पदाद्यन्त्यमध्यलोपो यथायथम् ॥३४॥
उद्धारः प्रथमं प्रोक्तमर्थमुद्धृत्य योजना ॥३५॥ [१८]
सम्भवो भावयेद् युक्त्या तन्त्रार्थमनुरूपया ॥३६॥

इति वैद्यनाथापरनामधेयेन नीलमेघभिषजा विरचितस्तन्त्रयुक्तिविचारः समाप्तः॥

0 comments on commit c19e485

Please sign in to comment.