From 1dc7704e768cc99ab19b3ccfad7a7f93732b4163 Mon Sep 17 00:00:00 2001 From: vvasuki Date: Wed, 31 Jan 2024 10:04:31 +0530 Subject: [PATCH] cu --- mImAMsA/yajna-tattva-prakAshaH_ocr.txt | 6008 ------------------------ 1 file changed, 6008 deletions(-) delete mode 100644 mImAMsA/yajna-tattva-prakAshaH_ocr.txt diff --git a/mImAMsA/yajna-tattva-prakAshaH_ocr.txt b/mImAMsA/yajna-tattva-prakAshaH_ocr.txt deleted file mode 100644 index 0a1cf661b1..0000000000 --- a/mImAMsA/yajna-tattva-prakAshaH_ocr.txt +++ /dev/null @@ -1,6008 +0,0 @@ - -=============== -001.jpg.txt" -===============" + -===================================================== -BALNK PAGE -===================================================== - -=============== -002.jpg.txt" -===============" + - -===================================================== - -===================================================== -YAJNA TATTVA PRAKĀŠA -BY -MAHAMAHOPADHYAYA, SASTRARATNAKARA, MIMAMSAKESARI, -PANDITA SARVABHAUMA -PANDIT A. CHINNASWAMI SASTRI -Lecturer in Sanskrit, Calcutta University -EDITED BY -PANDIT A. M. RAMANATHA DIKSHITA, M.A., -SAHITYACHARYA, SAHITYASIROMANI, VEDACHARYA, VEDATIRTHA, -MIMAMSASASTRI, VEDANTASASTRI -Sanskrit Mahavidyalaya, Banaras Hindu University -मूल्म १०) -1953 -All rights reserved by the author] -WIOWYMAMPA -, RANGKRIT SERIES OFFKOT -1.0. Box , WANARARL - -=============== -003.jpg.txt" -===============" + - -===================================================== - -===================================================== -PRINTED AT THE MADRAS LAW JOURNAL PRESS, MADRAS 4. - -=============== -004.jpg.txt" -===============" + - -===================================================== - -===================================================== -॥ श्रीः॥ -॥ ओं नमश्शिवाभ्याम् ॥ -|| ओं नमस्सरस्वत्यै। -यज्ञतत्त्वप्रकाशः -महामहोपाध्याय, शास्त्ररत्नाकर, पण्डितसार्वभौम, मीमांसाकेसरि, -श्रीचिन्नस्वामिशास्त्रिमहोदयैः वेदविशारदैः -श्रीकलिकाताविश्वविद्यालये संस्कृताध्यापकपदमधितिष्ठद्भिः -विरचितः -वेदाचार्यः, साहित्याचार्यः, साहित्यशिरोमणिः, वेदतीर्थः, -वेदान्तशास्त्री, मीमांसाशास्त्री, M.A., इत्याग्रुपाधिधारिणा -काशीहिन्दूविश्वविद्यालयीयसंस्कृतमहाविद्यालये -वेदसाहित्यमीमांसाध्यापकेन -पं. रामनाथदीक्षितेन -सम्पादितः -अस्य सर्वेऽधिकाराः ग्रन्थका स्वहस्ते रक्षिता: -मद्रास् ला जर्नल् प्रेस् -२०१. वैक्रमाब्दः, शकान्दः १८७५ -ई. १९५३ - -=============== -005.jpg.txt" -===============" + - -===================================================== - -===================================================== -TO -Dr. SARVEPALLI RADHAKRISHNAN -WETU -AFFECTIONATE REGARDS -विद्वद्धृन्दसमहणीयनिजवामाधुर्यसन्तर्पित- -क्षोणीमण्डलमण्डिताय विदुषामयं पदं बिभ्रते । -नीत्या दैत्यगुरुं धिया च धिषण न्यक्कुर्वते योगिने -राधाकृष्णमहार्हते कृतिमिमां श्रद्धागरिम्णाऽपये ॥ -अ. चिन्नस्वामिशास्त्री. - -=============== -006.jpg.txt" -===============" + -===================================================== -BALNK PAGE -===================================================== - -=============== -007.jpg.txt" -===============" + - -===================================================== - -===================================================== -॥ श्रीः ॥ -प्राकथनम् -भगवतः परमेशितुः भगवत्या देव्याः सर्वमङ्गलायाश्च असीमया -कृपया यज्ञतत्त्वप्रकाशाख्योऽयं ग्रन्थः पूर्णतामगात् । कलिकाताविश्व- -विद्यालयेऽत्र संस्कृतविभागे तत्तद्विभागानुसारेण अध्येयत्वेन निर्णीतानां -केपाश्चन याज्ञिकपदार्थानां स्वरूपविवेचने इदन्तया अन्थस्य कस्यचिद- -निर्देशात् तन्मूलकम् अध्येतृभिः अनुभूयमानं क्लेशविशेष परिहतुकामस्य -मम प्रन्थस्याम्य विलेखने प्रवृत्तिरुदभूत् । तत्र यज्ञस्वरूपविधिविवरणादौ -यजुर्वेद एव प्राधान्यमावहतीति सुविदिनमेव । विपयेऽत्र सतीष्वपि -यजुर्वेदान्तर्गतास्वेव बह्वीपु शान्यासु तैत्तिरीयशाखैव तत्स्वरूपनिरूपणे सामग्यं -विभर्ति । इयमेव तैत्तिरीयशाखा तद्वेदीयशाखान्तरापेक्षया प्राचीनतमा च । -एतदनन्तरमेव तद्वेदीया अन्याः शाग्याः प्रवृत्ताः । सत्यबसरे साध्विदं -विस्तरशो निरूप्येत । अत: अत्र निरूपितानां सर्वेपां ऋतूनां यथावत् -स्वरूपविवेचनाय प्राधान्येन सैव शाखा आश्रयणीया अभवत् । तदनु- -सारिणी आपस्तम्बीयं श्रौतसूत्रं वौधायनीयं च विशेषतया आश्रयणीये -अभूताम् । अतः प्राधान्येन ग्रन्थाविमाववलम्ब्य अन्यांश्च तत्तद्वेदीयान् -श्रौतसूत्रमन्थान् , पद्धतीश्च तास्ता यथायोगं परिशील्य, ग्रन्थोऽयं लिखितः। -प्राचीनकालपु वेदाः तदनुसर्पिणः श्रौतसूत्रग्रन्थाश्च भारतीयानामस्माकं -निधयः श्रेयोमार्गप्रदर्शकाश्च आसन् । तदुदितान्येव च कर्माणि उच्चावचानि -यथावदनुष्ठाय आस्माकीनाः पूर्वतनाः पुरुषाः पारलौकिकीमैहलौकिकी च -सुखसमृद्धिं लभमाना आसन्निति तैस्तरैतिहासिकैः ग्रन्धरनैः अवगच्छामो -वयम् ॥ -कालेन च वैदिक मार्गेऽस्मिन् दुरवबोधतया बहुच्छसाध्यतया च -शनैः शनैः शिथिलतामुपगते विद्यान्तरेषु गाढतरमवगाहमाना अपि . विषय- -मिममुपेक्षन्ते स्म ज्ञातारोऽपि । तेनैव च हेतुना उपेशाविषयतां प्राप्तोऽयं -श्रौतो विषय इदानी क्रमशः कियती दुरवस्थामनुभवतीति न वर्णनीयं -विवेचनशीलानाम् । अतः आस्माकीनेयं चिरन्तनी रत्नप्रभा यथा न -आत्यन्तिकं लोपमियात् तथा अस्माभिर्यतितव्यम् । अत एव च मयाप्यत्र -किञ्चिदिव यतितम् ॥ -B - -=============== -008.jpg.txt" -===============" + - -===================================================== - -===================================================== -A -एतादृशे समये कलिकाताविश्वविद्यालय:--य: भारतीयप्राचीनसभ्य- -तापरिरक्षणे प्राथम्यमावहति-विषयमिमम् अध्येयकोटौ निवेशयतीति स -सर्वथा श्लाघनीय इत्यत्र नास्ति विशयलेशोऽपि । विषयस्वरूपमात्रनिरूपण- -प्रवणेन मया तत्तच्छ्रौतसूत्रस्वरूपनिर्देशादिकं न कृतम् । साधारण्येन परं -तत्तत्स्थलनिर्देशः कृतः अधष्टिप्पण्यां तत्र तत्र । अध्येतृणाम् उपकारमेव -विशेषतो मनसिकृत्य तदनुसारेणैव अन्थोऽयमारचित इति तु विज्ञा -विजानीयुरेवेति नात्र अधिकं वक्तुमुत्सहे । अतो विद्वद्वराः विशेषेण -च विद्यार्थिनः ग्रन्थमिमं यथावदुपयुज्य प्रयत्नं मदीयं सफलयेयुरिति -सुदृढं विश्वसिमि ॥ -स्थलेषु बहुषु समुत्पन्नान् संशयान् दूरीकृत्य पदार्थयाथाय तदा तदा -विवेचितवतां श्रोतविद्यायां भारतदेशे इदानीं प्रथमगणनीयानां त्रिश्रौत- -भास्करादिविविधोपाधिविभूषितानां नलिञ्चेरि - श्रीरामनाथश्रौतिमहोदयानां -शतश उपकारान् प्रशंसामि कृतज्ञतापूर्वकम् ॥ -अमूल्यमतिगभीरमात्मीयमाशयमेतद्ग्रन्थविषयकमाविष्कृत्य प्रन्थमिमं -पाठकानां पुरः कृतवद्धयः कलिकाताविश्वविद्यालये संस्कृतविभागीय- -प्रधानाध्यापकपदं (Asutosh Professor) अलङ्कुर्वद्भयः विद्वत्कुलमूर्धाभि- -विक्केभ्यः श्रीसातकरीमुख्योपाध्यायमहोदयेभ्यो बहुशो धन्यवादान् -हार्दिकान् वितरामि ॥ -इति -कलिकाता -विदुषां वशंवदः -१५-७-२५१ -अ. चिन्नस्वामिशास्त्री. -mag - -=============== -009.jpg.txt" -===============" + - -===================================================== - -===================================================== -॥ विषयसूची॥ -प्रथमभागे -पृष्ठम् | विषयः -पृष्ठम् -२२ -" -२५ -२९ -३० -३३ -विषयः -मङ्गलाचरणम् -१ | आज्यग्रहणम् -अग्न्याधेयम् -वेदिस्तरणं पात्रसादनं च -गाईपत्याधानम् -५ सामिधेनीकर्म -दक्षिणाग्न्याधानम् -प्रयाजा: -आहवनीयाधानम् ६ प्रधानयागानुष्ठानम् -सभ्यावसथ्ययोरन्योराधानम् स्विष्टकृद्यागः -पवमानेष्टयः -७ इड्राभक्षणादि -आधानपवमानेष्टीनामङ्गाङ्गिभावः ।, -ऋत्विग्दक्षिणा,अनूयाजाश्च -आधानीपयिकानि द्रव्याणि पत्नीसंयाजादिकम् -पात्राणि च -८ याजमानम् -अग्निहोत्रम् -९ दर्शयागे विशेषाः -अग्निहोत्रे उदितानुदितहोमिभेदः १० वत्सापाकरणम् -तदनुष्ठानप्रकार: -शुक्लप्रतिपदिनकृत्यम् -अग्निहोत्रनाम्नि मतभेदः १२ दार्शपौर्णमासिकानि -अग्न्युपस्थानं लेपभक्षश्च -द्रव्याणि पात्राणि च -अग्निहोत्रे का -१३ पिण्डपितृयज्ञः -अमिहोत्रप्रशंसा -पिण्डपितृयज्ञोपयिका नि -अग्निसमारोपणादि -१४ -द्रव्याणि पात्राणि च -विषयविवेचनम् -१५ निरूढपशुबन्धः -दर्शपूर्णमासी -१६ | अग्निप्रणयनम् -यागानुष्ठानकालः -१८ | पात्रसादनादि -पौर्णमासीदिनकृत्यम् -१९ पशुसंज्ञपनवपाहोमादि -कृष्णप्रतिपदिनकृत्यम् -२० हृदयाघगयागः -हविनिर्वापः -अनूयाजाद्यनुष्ठानम् -अवहननपेषणे -२१ पशुयागोपयुक्तानि -हविःश्नपणम् -द्रव्याणि पात्राणि च -वेदिनिर्माणम् , -चातुर्मास्यानि -आज्यग्रहणादिकं च -३४ -३६ -22 -३७ -३८ -" -४२ -४३ -२२ वैश्वदेवपर्व - -=============== -010.jpg.txt" -===============" + - -===================================================== - -===================================================== -xii -a -विषयः -पृष्ठम् विषयः -पृष्ठम् -वरुणप्रपासपर्व -४७ व्यम्बकहवींषि -साकमेधपर्व -४९ | शुनासीरीयपर्व -महाहवींषि साकमेधान्तर्गतानि) , चातुर्मास्यानुष्ठाने विशेषाः -५२ -महापितृयज्ञः -५० | आग्रयणेष्टिः -५३ -द्वितीयभागे -सोमयागनिरूपणम् ५५ आर्भवपवमानाय -सोमयागेऽधिकारी -प्रसर्पणं चमसप्रचारश्च -नाम्नि प्रवृत्तिनिमित्तम् ५७ सौम्यचरुः -सोमयागे प्रथमदिनकृत्यम् ५८ | हारियोजनप्रहप्रचारः -द्वितीयदिनकृत्यम् -६१ अवभृथेष्टिः -सोमक्रयः -उक्थ्यसंस्था द्वितीया ८२ -प्रवर्यः -६२ पांडशिसंस्था तृतीया -प्रवर्गासम्भाराः -६३ अतिरात्रसंस्था चतुर्थी -प्रवानुष्ठानम् -अत्यमिष्टोमसंस्था पञ्चमी -उपसत् -६५ वाजपेयसंस्था षष्ठी -तृतीयदिनकृत्यम् -अप्लोर्यामसंस्था सप्तमी ८६ -चतुर्थदिनकृत्यम् -६६ स्तोत्राणां शस्त्राणांच -पञ्चमदिन सुत्यादिन)कृत्यम् -महाभिषवः -६८ स्तोमविवरणम् ; विष्टुतिप्रकारश्च ९१ -ऐन्द्रवायवादिग्रहाः -चयनम् -प्रसर्पणम् -६९ उखासम्मरणम् -९८ -धाराग्रहप्रचारः -वायव्यपशुयागः -शुक्रामन्थिग्रहप्रचारः ७० उख्यामिनिष्पादनधारणादि -चमसदेवताः -७१ गार्हपत्यचितिमानादि -चमसभक्षणम. -गार्हपत्यचितरुपरि -शस्त्रपाठप्रतिगरादि -७२ उख्याग्निस्थापनम् -नाराशंसहोमः -७३ | चयनस्थलकर्षणादि -उक्थ्यग्रहप्रचारः -७४ प्रथमचितेरुपधानम् १०४ -माध्यन्दिनं सवनम् -शतरुद्रीयहोमः -१०५ -दक्षिणादानम् -७५ चितेरुपर्यनिस्थापनादि -दक्षिणाविभागः -७६ वसोर्धाराहोमः, -मरुत्वतीयग्रहप्रचारः -यजमानाभिषेकच -तृतीयसवनम् -७४ विष्ण्योपधानम् -13 -स्तोमसङ्ख्या -" -" -7 -७७ - -=============== -011.jpg.txt" -===============" + - -===================================================== - -===================================================== -xii -विषयः -दवसुवां हवींषि -सौमिकव्यापारा: -सौत्रामणीयागः -राजसूयः -अश्वमेधः -अश्वमेधस्य सर्वयज्ञश्रेष्ठता -पुरुषमेधः -सर्वमेधः -तृतीयभागे -पृष्ठम् विषयः -पृष्ठम् -१०७ सवनिरूपणम् -१२२ -द्वादशाहक्रतुः -द्वादशाहे संस्थास्तोमपृष्ठसाम- -१०८ -निरूपणी पट्टिका -ग्रहाग्रता -११५ -गवामयनम् -१२८ -१२० -षडहस्वरूपनिरूपणम् १२९ -१२१ | महाव्रतनिरूपणम् -१३१ -१२२ APPENDIX -. -वेदीनां चित्राणि -1. दार्शपौर्णमासिकी वेदिः 5. पशुयागीया वेदिः -2. चातुर्मास्यवेदिः -6. सोमयागार्थी वेदिः -3. एकादशकपालोपधानप्रकार: 7. सुपणेचिते: २,४. प्रस्तारौ -अष्टाकपालोपधानप्रकार: -8. सुपर्णचिते: १,३,५. प्रस्तारा: -4. प्रकारान्तरं तयोरेव - -=============== -012.jpg.txt" -===============" + -===================================================== -BALNK PAGE -===================================================== - -=============== -013.jpg.txt" -===============" + - -===================================================== - -===================================================== -॥ श्रीः ॥ -॥ श्रीगणेशाय नमः ॥ -॥ यज्ञतत्त्वप्रकाशः ॥ -महामहोपाध्यायश्रीचिन्नस्वामिशास्त्रिविरचितः -अग्न्याधेयादिचातुर्मास्यान्तहविर्यज्ञनिरूपणरूपः -॥ प्रथमो भागः ॥ -चश्चञ्चन्द्रकलानिरन्तरवहत्पीयूषधारोक्षितो -गङ्गोत्तुङ्गतरङ्गभङ्गनिवहक्लिद्यत्कपर्दोज्ज्वलः । -कल्याणैकनिधिर्जगत्यसुमतां तापत्रयोन्मूलनं -कुर्वन्छ्रेय इहादधातु जगतां क्षेमङ्करश्शङ्करः ॥ १॥ -जगत्स्थित्युद्भवलया यत्प्रसादादनेकधा । -तं नौमि परमात्मनं यज्ञेशं यज्ञरूपिणम् ॥ २ ॥ -यज्ञानां प्रक्रिया ह्येषा हसिमानमुपागता । -उद्धर्तुमेनां यत्नोऽयं प्रीणन्तु सुधियोऽमुना ॥ ३ ॥ -अग्न्याधेयम् -एवं तावत् सर्वेषां श्रौतकर्मणाम् उत्पत्तिविकासादिनिरूपणद्वारा -सामान्यस्वरूपं निरूपितं किञ्चित् सामान्यकाण्डे । इदमिदानी -विशेषतस्तेषामेव विविच्य अवगमनाय प्रयत्यते । तत्र तावद्वेदोदितानि -सर्वांण्यपि श्रौतकर्माणि कृतदारेण आहिताग्निना अनुष्ठेयानीति -शास्त्र सिद्धान्तः । आहिताग्निस्तु -। आहिताग्निस्तु विधिवत् श्रुतिविहितमाधान -योऽनुतिष्ठति स एव भवति । अतस्तदेव पूर्व निरूप्यते ॥ -आधानं त्रिविधम्-होमपूर्वाधानम् , इष्टिपूर्वाधानम् , सोमपूर्वा- -धानं चेति । तत्र, अग्निहोत्रारम्भं करिष्यन् ततः पूर्व यदाधानं करोति - -=============== -014.jpg.txt" -===============" + - -===================================================== - -===================================================== -२ -यज्ञतत्त्वप्रकाशे -तद्धोमपूर्वाधानम् । दर्शपूर्णमासेटयारम्मात् पूर्व कियमाणमिष्टिपूर्वा- -धानम् । सोमयागारम्भात् पूर्वमनुष्ठीयमानं सोमपूर्वाधानम् । -तदित्थम्- -यियक्षमाणः पुरुषो वसन्तोंक (कस्मिंश्चित् यथोदितनक्षत्रादियुते) -काले यथावदग्नीनाधाय साङ्गस्य आधानस्य परिसमाप्तिदिन एव -सायमग्निहोत्रमारमेत । तदिनप्रभृति प्रतिदिनं सायं प्रातश्च अग्निहोत्रं -जुह्वदासीत । तदिदं होमपूर्वाधानङ्ख ॥ -आधानानुष्ठानानन्तरं श्रौतं किमपि कर्म अकृत्वा शुक्रास्तादिदोषा. -दुषिते पर्वणि (पौर्णमास्यां) पूर्णमासेष्टिं, तदनन्तरदर्शे दर्शेष्टिं -चानुतिष्ठति यदि तदा तत् इष्टिपूर्वाधानमित्युच्यते । अस्मिन् पक्षे कालं -सामग्रीसम्पदं च अवाप्य सोमादीननुतिष्ठेद्यागान् । अथ वा वसन्ते -कस्मिंश्चिदिने शुभे आधानं कृत्वा तत्समनन्तरदिन एव सोमयागाय -यदि सङ्कल्पयेत् तत् सोमपूर्वाधानम् । पक्षेऽस्मिन् सोमयागं -परिसमाप्य तस्मिन्नेव दिने सायमग्निहोत्रमारभेत । अनन्तरपूर्णिमायां -पूर्णमासेष्टिमित्यादि । त्रयाणाममीपां पक्षाणां स्वेच्छया विकल्पः -परिग्रहणे । सङ्कल्पे परमेषां वैलक्षण्यम् , न स्वनुष्ठाने ॥ -तत्र यदहरमीनाधास्यमानः स्यात् तत्पूर्वदिने कृतपापानुगुण- -प्रायश्चित्तो निष्कल्मषीभूय,आभ्युदयिकश्राद्धादिकमनुष्ठाय सपत्नीको -यजमानो गृहीतनियमो वर्तेत । श्वोभूते कृतनित्य क्रियो भार्यया सह -आधानार्थ सङ्कल्पं कुर्यात् । आधानस्य फलमग्नीनां गार्हपत्य-आहवनीय- -दक्षिणानीनां त्रयाणां, सभ्य-आवसथ्यसहितानां पञ्चानां वा सिद्धिरेव । -अतः आधानं न कस्यचित् कर्मणोऽङ्गभूतम् , किं तु स्वतन्त्रमेव कर्म ॥ -आधानस्य ब्राह्मणकर्तृकस्य वसन्तर्तुरेव कालो विहितः श्रुतौ-- -"वसन्ते ब्राह्मणोऽमीनादधीत" इति ॥ -ख. होमः आमिहोत्र होमः । ततः पूर्वमेव क्रियमाणमाधानं होमपूर्वाधानम् । -भतश्च आधानानन्तरमेव अमिहोत्रारम्भे होमपूर्वाधानम् | आधानानन्तरमेव दर्शपूर्ण- -मासेष्टयारम्भे इष्टिपूर्वाधानम् । आधानानन्तरमेव सोमयागसङ्कल्पे सोमपूर्वाधानमिति -सिद्धम् ॥ -मङ्गलकार्येषु क्रियमाणं श्राद्धम् आभ्युदयिकमित्युच्यते । अभ्युदयसम्बन्धि -आभ्युदपिकमिति ॥ -क. - -=============== -015.jpg.txt" -===============" + - -===================================================== - -===================================================== -आधाननिरूपणम् -३ -तत्र आदौ आधानार्थ यजमानेन सङ्कल्पं कृत्वा ऋत्विग्वरणे -कृते, अध्वर्युः शमीवृक्षस्योपरि यः प्ररूढोऽश्वत्थवृक्षः तस्मादेकां -छित्त्वा शाखां, तां द्विधा कृत्वा, अरणिद्वयं ताभ्यामेव सम्पाद्य, अरणी -ते युगपदेव आधानदेशं प्रत्याहरेत् । पूर्वसम्पादिते वा ते तत्र आहरेत् । -ते च चतुरङ्गुलोन्नते द्वादशाङ्गुलविस्तीर्णे षोडशाङ्गुलायते अनातपशुष्क -भवतो बौधायनमतात् । चतुर्विंशत्यङ्गुले इति कात्यायनपक्षः । -तयोरेका अधरारणिः; अपरोत्तरारणिरित्युच्यते ॥ -ततः सप्त पार्थिवाः सम्भारा आहवनीयादिपु कुण्डेषु क्षेपणाय आनीय -स्थापनीयाः । ते यथा- १. सिकताः २. *ऊषाः ३. आखुकरीषम् -४. वल्मीकनपा ५. सूदः ६. वराहविहतम् ७. शर्कराः ८. हिरण्यम् । -एवं वार्धाः (वृक्षसम्बन्धिनः) अपि सम्भाराः सप्त । ते च यथा-~- -१. अश्वत्थकाष्ठम् २. उदुम्बरकाष्ठम् ३. पलाशकाष्ठम् ४. शमीकाष्ठम् -५. विकङ्कतकाष्ठम् ६. अशनिहतवृक्षशकलम् ७. पद्मपत्रम् । एवमेतान् -पार्थिवान् वानस्पत्यांश्च सम्भारान् तस्मात् तस्मात् स्थानात् वृक्षाच -आहृत्य, एकस्मिन् पात्रे प्रज्ञातान् तान्निध्यात् ॥ -तत आहवनीयाद्यग्नीनां गृहनिर्माणम् । तत्र गार्हपत्यस्य वेदेः -पश्चिमतः पृथक् गृहम् । आहवनीयाग्नेः पृथक् । तयोरन्यतरस्मिन् -दक्षिणाग्नेः स्थानम् । आहवनीयाग्नेः पुरतः सम्यानेः । तस्य पुरतः -आवसथ्यस्य ॥ -क. -ततो यजमानो नापितेन क्षुरकर्म कारयित्वा नखकर्तनादि -च, स्नात्वा क्षौमे वस्त्रे (दुकूलद्वयं) परिदध्यात् । एवं यजमानपन्यपि क्षौर -ऊपर भूमिगता मृत् ऊपा । मृषिकोत्कीर्णा मृत् आग्करीपम् । -वल्मीकस्योपरिमागे स्थिता मृत् वल्मीकवपा | अशोष्यस्य जलशयस्य मृत् सूदः । -वराहेण स्वमुखोत्कीर्णा मृत् वराहविहतम् । क्षुद्रपाषाणा: शर्करा: 'शुक्कान्कल्' इति -द्राविडभाषायाम् । एवं एते वस्तुविशेषाः सम्भारा इत्युच्यन्ते ॥ -ख. इदानींतनास्तु याशिकाः स्थानाभावाद्यसौकर्यण एकस्मिन्नेव अपवरके -त्रयाणां पञ्चाना वा अमीना कुण्डान् निर्माय तत्र तान स्थापयन्ति ॥ -१. See. आप. श्री. ५. १. २. -२. See, बौ. श्री. २.६. - -=============== -016.jpg.txt" -===============" + - -===================================================== - -===================================================== -8 -यज्ञतत्त्वप्रकाशे -विना नखनिकृन्तनादिकं परं कारयित्वा स्नात्वा क्षौममेव वस्त्रं परिदधीत । -ततोऽध्वर्युरपराले यजमानस्यौपासनानेर) पृथक्कृत्य, तं गार्हपत्याग्नेः -पश्चान्निधाय, प्रज्वाल्य कब्रह्मौदनपाकाथ - तण्डुलान्निरुप्यख त्रैहेयान् , -तानप्रक्षाल्यैव चतुश्शराव"परिमितान् जलपूर्णे महति पात्रे प्रक्षिप्य -पचेत् । यथा भक्तेषु तण्डुलांशोऽल्पोऽवशिष्येत तथा पक्तव्यम् । -ततः पक्कमन्नमुद्वास्य तत्तो दा गृहीत्वा तस्मिन्नेवानी जुहुयात् । -ततोऽवशिष्टमोदनं चतुर्धा विमज्य पिण्डं कृत्वा चतुभ्यः ऋत्विग्भ्योऽ- -ध्वर्वादिभ्यो (अध्वर्यु-होतृ-ब्रह्म-आग्नीधेभ्यः) दद्यात् । पाने च -किञ्चिदवशेषयेत् ॥ -ततोऽध्वर्युः स्वीयं मागं सव्यहस्ते दक्षिणहस्तेन पावस्थेऽन्ने आज्यं -प्रस्राव्य, तदन्नं तिसभिः फलवतीभिः अश्वत्थसमिद्भिरालोड्य, आलोडनसमये -लग्नेनाऽन्नेन साकमेव ताः समिधः तस्मिन्नेवाऽग्नौ निध्यात् । तत -ऋत्विजो ब्राह्मणाः स्वस्वान्नं भुखीरन् । इदं च समिदाधानं यस्मिन्नहनि -अग्रे आधानं चिकीर्षति तत एकस्मात् वत्सरात् पूर्व, द्वादशाहात् -व्यहात् व्यहात् पूर्व वा, पूर्वस्मिन्नेव वा दिने कर्तव्यम् । ततो -यजमानस्तस्यां रात्रौ व्रतग्रहणं (नियमरवीकारं) कृत्वा वीणावेणु- -वादनादिभिः जागरणं कुर्यात् । तमग्निमिन्धनादिप्रक्षेपेण सर्वां -रात्रि प्रज्वाल्य रक्षेत् । ततः प्रातरुपःकाल एव तस्मिन्ननावरणी -पूर्वसम्भृते प्रतप्य, तमग्निं शमयित्वा, यजमानहस्तेऽरणी प्रयच्छेत् । -यजमानस्ते प्रतिगृह्य, अभिमन्य यावन्मथनारम्भं स्वहस्त एव -धारयन्नासीत । ततः अध्वर्युर्गार्हपत्यायतनस्योद्धननावोक्षणादि कृत्वा, -पूर्वस्थापिताः सिकता 'गृहीत्वा ताः समशो द्वेधा विभज्य, एकम -पुन<धा विमज्य, एकं भाग गार्हपत्यायतने, एकं च. दक्षिणाग्न्यातने -क. ब्राह्मणानामृत्विजां भोजनाय यः पक्क ओदनः स ब्रह्मौदनः ॥ -ख. प्रभूतमानीतेभ्यस्तण्डलेभ्यः प्रकृतापेक्षितांस्तण्डुलान् पृथक् गृहीरवा -तेषां पात्रान्तरे स्थापनम् ॥ -शरावः 'तस्तरी' इति हिन्दीभाषायाम् ॥ -घ. अमेबहिनिस्सार्य स्थापनमुद्वासनम् । -See आप. श्री. ५. ५. ८-११. -See आप. श्री. ५. ८.२-५. -> 3 ५.९.४.५. -३. - -=============== -017.jpg.txt" -===============" + - -===================================================== - -===================================================== -आधाननिरूपणम् -9 -प्रक्षिपेत् । अवशिष्टम त्रेधा -त्रेधा विभज्य, आहवनीय-सभ्य- -आवसथ्यायतनेषु प्रक्षिपेत् । केचित् सभ्य आवसथ्यौ न आदधते । -अस्मिन् पक्षे तस्याधस्य आहवनीय एव निवपनं कार्यम् ॥ -गाईपत्याधानम् -अनेनैव प्रकारेणेतरानपि पार्थिवान् सम्भारान् विभज्य, तेषु -तेष्वायतनेषु निदध्यात् । एवं सप्त पार्थिवान् सम्भारान् आयतनेषु न्युप्य, -तदुपरि तेनैव प्रकारेण सप्त वानस्पत्यानपि सम्भारान् न्युप्य, तदुपरि -हिरण्यं निवपेत् । ततः पूर्व शमितस्याग्नेः भस्म अपोह्य, तदुपरि -अरणी निक्षिप्य, तत्समीपे श्वेतमश्चमेकं बद्ध्वा, अरणी मन्थेत् । -ततोऽग्नावुत्पन्ने सति यजमानो कवरमध्वयंवे दद्यात् । ततोऽध्वर्यु- -मथनजातमग्निं करीपकाष्ठशकलप्रक्षेपादिना वर्धयित्वा वेदेः पश्चिमभागा- -वस्थिते गार्हपत्यार्थे कुण्डे पूर्वनिर्मिते स्थापयेत् । इदमेव बगाईपया- -धानम् । ततो ब्रह्मा सामगानं कुर्यात् , न वा ॥ -दक्षिणाग्न्याधानम्, -ततः सूर्यस्य अर्धोदयसमये गार्हपत्यं प्रज्वाल्य, तत्र अश्वत्थकाष्ठा- -न्याधाय, प्रदीप्तानि तान्यंशतो गृहीत्वा, सिकतामिरुपसगृह्य, उपर्युद्धृत्य -हस्तेन -धारयन्नध्वर्युस्तिष्ठेत् । तदा आग्नीध्रो लौकिकमग्निं यतः -यत्र सामान्यतो वरो देयत्वेन विहितस्तत्र सर्वत्र गोरेव -अभिप्रेता । गामेका दयादिति यावत् । गवागावे तन्मूल्यं निष्कपरिमाणं -सुवर्ण वा देयम् ॥ -ख. गार्हपत्याग्नेरायतनं वृनाकारम् । आहवनीयम्य चतुरश्रम् । -दक्षिणानेरर्धचन्द्राकृति । गार्हपत्यायतनमध्यात् प्राच्या दिशि पण्ण वत्यङ्गुलमिताया -भूमावाहवनीयमध्यं स्यात् । केचित् गार्हपत्याहवनीययोग्न्तरालगताया एव वेदे- -स्तावन्मानमिच्छन्ति । गार्हपत्यायतनस्य आग्नेय्या दिशि तत्संलग्नप्रायमेव दक्षिणाने- -रायतनं भवति ॥ -ग, आहबनीयाधानार्य प्रज्वालिता गार्हपल्यानेः कञ्चित् भागमादाय -पात्रे कस्मिंश्चिन्निधाय साग्नि तत् पात्रं स्वहस्ते गृहीत्वा तत्रैव तिष्ठत्यध्वर्यो आग्नीधी -दक्षिणाभिमादध्यात् इत्यापस्तम्बः || Sre. आप. श्री. ५. १३. ८. -क. -यत्र -श्री. ५. १७, -१८. बौधा. श्री. २. १६. -See, 37199 -कात्या. ४.८,९. - -=============== -018.jpg.txt" -===============" + - -===================================================== - -===================================================== -६ -यज्ञतत्त्वप्रकाशे -कुतश्चिदानीय, गार्हपत्याद्वा गृहीत्वा मथित्वा वा दक्षिणाग्न्यायतने -सम्भाराणां पूर्वनिहितानामुपरि निदध्यात् । इदमेव दक्षिणाग्न्याधानम् । -अत्राहवनीयस्योपयुद्धरणकाले ब्रह्मा वामदेव्यं साम गायेत् , न वा ॥ -आहवनीयाधानम् -ततोऽध्वर्युप्रभृतयः ऋत्विजः कञ्चन अश्वं पूर्व चालयन्तः, -आहवनीयदेशं प्रति प्राञ्चो गच्छेयुः । तेषां दक्षिणभागे ब्रह्मा रथचक्र -त्रिवारं परिवर्तयेत् । अश्व आहवनीयायतनस्य प्राग्भागे तिष्ठेत् । तेन -प्रत्यङ्मुखेन आहवनीयसम्भारान् आक्रमयेत् । ततो ब्रह्मणि साम -गायति सति आहवनीयायतनस्य पुरस्तात् प्रत्यङ्मुखस्तिष्ठन्नेव -अध्वर्युराहवनीयमादध्यात् । एवं विष्वग्निष्वाहितेषु आज्यहोमेन -काष्ठैश्चाग्नीन् वर्धयेयुः ॥ -सभ्यावसथ्ययोरग्न्योराधानम् -ततो लौकिकाग्निनाय अरणिमथिताग्निना वा सभ्याग्निमावसथ्याग्निं -च आदध्यात्तदाधानपक्षे । ततोऽश्वत्थवृक्षीयास्तिस्रस्तिस्रः समिधः -शमीवृक्षीयाश्च तिस्रस्ता एकैकस्मिन्नग्नावादध्यात् । ततो मन्त्रवर्ज- -मग्निहोत्रं जुहुयात् । ततः पूर्णाहुतिहोमः । स चाज्यद्रव्येणैव । ततो -यजमान आहिताननीनुपतिष्ठेत । ततोऽध्वर्यवे यजमानो वरं दद्यात् । ततः -प्रायश्चित्तहोमाः । ततो यजमानः सङ्कल्पकरणपूर्वकमाहिताग्निनियमान् -धारयेत् । एतावदग्न्याधेयस्य प्रधानकर्म । अतः परमनुष्ठेयान्यानेये- -टयादीनि अङ्गान्युच्यन्ते । तत्र प्रथममाग्नेयेष्टिराधानानन्तरमेव कर्तव्या । -तत्र अग्निदेवता । अष्टाकपालः पुरोडाशो द्रव्यम् । सा च पौर्णमास- -गतानेयेष्टिवत् कार्या ॥ -आहवनीयमाधाय तत्समनन्तरमध्वर्युरेव दक्षिणाभिमादध्यादिति कात्या- -यनः ॥ -क. आहवनीयायतनत्य पूर्वस्यां दिशि प्रत्यङ्मुखावस्थितोऽश्वः यथा -तदाहवनीयस्थानमुल्लध्य तत्पश्चिमभागे आगच्छेत् तथा यतेत ॥ -ख. अरणिमथितामिनव सभ्य-आवसथ्यावादध्यादिति कात्यायन: -(.See. का. श्री. ४. ९. १८.) यत्र च्छात्रा अध्याप्यन्ते शास्त्रार्थविचारादिकं -वा क्रियते सा सभा । तत्र सभ्यामेराधानम् ॥ - -=============== -019.jpg.txt" -===============" + - -===================================================== - -===================================================== -आधाननिरूपणम् -पवमानेष्टयः -तदनन्तरं पवमानेष्टयः । तास्तिस्रः । तत्र प्रथमाया अग्निः -पवमानो देवता । द्वितीयस्या अग्निः पावकः । तृतीयस्या अग्निः शुचिः । -सर्वत्र अष्टाकपालः पुरोडाशो द्रव्यम् । ता एता आधानदिन एव -समानतन्त्रेण अनुष्ठेयाः । अथ वा आधानदिनात् यहे, व्यहे चतुरहे, -अर्धमासे, मासे, मासद्वये संवत्सरे वा कर्तुं शक्यन्ते । परममीषां -कालानां विकल्पः । यस्मिन् दिन एताः पवमानेष्टयः क्रियेरन् तस्मिन्नेव दिने -सायमग्निहोत्रमारभेत आधानात् कालान्तरे पवमानेष्टीनामुत्कर्षे -अग्निहोत्रस्याप्युत्कर्षः । (कालान्तरेऽनुष्ठानम् ) ॥ -आधानपवमानेष्टीनामङ्गाङ्गिभावः -पवमानेष्टीनामाधानाङ्गत्वमिति केचन मीमांसकाःख । तन्मते -साङ्गस्यैव कर्मणः फलजनकत्वात् पवमानेष्टीनामनुष्ठानानन्तरमेवाग्नीनां -सिद्धेः तदनन्तरमेव अग्निहोत्रारम्भः । केचित्तु न आधानपवमानेष्टीना- -मङ्गाङ्गिभावः । परमाधानवत् पवमानेष्टीनामपि स्वत एवाहवनीयादि- -सम्पादकत्वम् । अत उभयेषां समुच्चय इति कथयन्ति । अस्मिन्नपि पक्षे -पवमानेष्टीविना आहवनीयाद्यनिष्पत्तेः पवमानेष्टीरनुष्ठायैव तदनन्तर- -मग्निहोत्रारम्भः कर्तव्यः । अस्य सायमेव आरम्भः । सायं. प्रातरतुष्ठी- -यमानं प्रयोगद्वयं मिलित्वक कर्म भवति । सायंहोमस्य अमिदेवता. -कत्वादेव अस्य कर्मणोऽग्निहोत्रमिति नाम सम्पन्नमिति मीमां- -सकाः ॥ -इदानीम् आधानापेक्षितानां द्रव्याणां पात्राणां च नामानि -विलिख्यन्ते- -क. अत्र प्रथमाया एवेष्टेरग्निः पवमानो देवता, नेतरयोः -। तथापि -तिसुणामपि पवमानेष्टित्वेन व्यवहारो याशिकसम्प्रदाये प्रसिद्धः ॥ -आधानप्रकरणे पाठात् फलाश्रवणाच आधानाङ्गं पवमानेष्टय इति -मीमांसाबार्तिककारः । 'यदाहवनीये जुहति' इति स्वतन्त्रविधिना पवमानेष्टीना- -मग्न्यङ्गत्व विधानात् आधानवत् तासामग्यमिसम्पादकत्वमेवेति मीमांसाभाध्यकार: । -See. पू. मी. ३.१.१२. -१. -See. पू. मी. १. ४. - -=============== -020.jpg.txt" -===============" + - -===================================================== - -===================================================== -यज्ञतत्त्वप्रकाश -आधानौपयिकानि द्रव्याणि पात्राणि च -अरणिद्वयम् (अधरारणिः, उतरारणिश्च) अग्निमथनार्थम् ॥ -मन्थिप्रमन्थिनौ । तदर्थमेव । -अष्टौ पार्थिवास्सम्भाराः-(मृत्सम्बद्धाः) -(१) सिकताः। (५) शर्कराः (क्षुद्रपापाणाः) । -(२) ऊपरमृत् । (६) वल्मीकमृत् । -(३) मूषिकोत्खाता मृत् । (७) शूकर(वराह) मुखोत्खाता मृत् । -(४) अशोष्यजलाशयमृत् । (८) हिरण्यम् । -अग्निनिधानात् पूर्वमेते कुण्डेषु क्षेपणीयाः ॥ -सप्त वृक्षसम्बन्धिनः सम्भारा:---- -(१) अश्वत्थकाष्ठशकलानि । (५) पलाशवृक्षकाठशकलानि । -(२) औदुम्बरकाष्ठशकलानि । (६) विकङ्कतवृक्षशकलानि । -(३) शमीवृक्षकाष्ठशकलानि । (७) पद्मात्राणि च । -(४) अशनिहतवृक्षकाष्ठशकलानिक। -शीतजलमुष्णजलं च (पत्नीयजमानयोः स्नानार्थम् ) -दुकूलवस्त्राणि (तयोरेव परिधानार्थम् ) -ग्रामादिचिह्नभूतस्य अश्वत्थवृक्षस्य फलवत्यः तिस्रः समिधः -(ब्राझौदनिकामावाधानार्थम् ) ॥ -अश्वत्थवृक्षीयाः समिधो नव (गार्हपत्यादिषु त्रिध्वप्यग्निपु -शमीमय्यः समिधो द्वादश -तदा तदा निक्षेपणार्थमेव -वैकऋत्यः समिधस्तिनः विध्यनुरोधेन) -पैत्तलं ताम्रमयं वा पात्रम् (ब्रह्मौदनपाकार्थम् ) -शरावा: -(तत्तदग्निप्रणयनार्थम् ) -दर्वी पैत्तली ताम्रमयी वा (ब्रह्मौदनोद्धरणार्थम् ) -घृतं गव्यं माहिषं वा (होमाभिधारणाद्यर्थम्) -क. -अरण्ये स्थितस्य वृक्षस्य यस्योपरि अशनिः पतति, तेन च यो हतः -सोऽशनिहतो वृक्षः॥ -१. See. आप. श्री. ५. १. २. बौधा. २. १२. - -=============== -021.jpg.txt" -===============" + - -===================================================== - -===================================================== -अग्निहोत्रनिरूपणम् -९ -वत्सतर्यः तिस्रः (अध्वर्यवे दानाय) -यज्ञियवृक्षकाष्ठानि (अग्निसमिन्धनार्थम् ) -अश्वः -(अग्न्यायतनेषु पदनिक्षेपणाद्यर्थम् ) -अजः -(आयतनसमीपे बन्धनार्थम् ) दक्षिणार्थ च । -सिकताः -(अग्निभिः सह ग्रहणार्थम् ) (उपयमनार्थम्स) -रथचक्रम् -(आवर्तनार्थम्) -गौः -(विदेवनार्थम् ) -आधानार्थदक्षिणाद्रव्याणि- (१) द्वादश गावः (२) अजः -(३) पूर्णपात्रम् (४) वासः (५) मिथुनौ गावौ (स्त्रीपुंसरूपौ) -नवीनो रथः (७) वहनसमर्थोऽश्वः (८) अनड्वान् । -चत्वार ऋत्विजः--अध्वर्युः, ब्रह्मा, होता, आमीध्रश्च ॥ -एवं पवमानेष्टयादीनामप्यत्र अनुष्ठेयत्वात् ऐष्टिकपात्राणामप्यस्त्या- -वश्यकता । परं दर्शपूर्णमासप्रकरण एव तानि प्रदर्शनमहन्तीति तत्रैव -प्रदश्यन्ते । अतस्तेषां स्वरूपं तत एव अवगन्तव्यम् ॥ -॥ इत्यग्न्याधानं समाप्तम् ॥ -अग्निहोत्रम् -एवं पूर्वोक्तप्रकारेण कृताधानः त्रैवर्णिकः आहिताग्निपदवाच्यो -भवति । तस्यैव सपत्नीकस्य श्रौतकर्मस्वधिकारः । तानि च ौतकर्माणि -वेदेषु परस्सहस्राणि विहितानि । तेषां नामतो निर्देशस्त्वन्ते चिकीयते । -इदानीं तेषामेव केषांचित् स्वरूपं विलिख्यते । तेषु कर्मसु अग्निहोत्रमेव -प्रथमपातीति तस्यैव स्वरूपं विवियते । तच पुरुषेण त्रैवर्णिकेन -वत्सभावमतिक्रान्ताः निवृत्तस्तन्यपानाः वत्सतर्यः । -पात्रे अग्नेरधः पार्श्वेषु च सिकतानां स्थापनमुपयमनम् । -पुनः पुनरश्वस्य दक्षिणभागे रथचक्रस्य भ्रामणम् । -घ. अष्टाविंशत्युत्तरशतसयाकमुष्टिपरिमितं बीहियवादिधान्यं पूर्ण- -पात्रमित्युच्यते । -ङ. अकृतविवाहस्य श्रौतेपु कर्मस्वधिकारो नास्ति । मृतपत्नीकस्य -स्वग्निहोत्रदर्शपूर्णमासयोरधिकारो भवतीति रुद्रदत्तः प्रसाधयति । परमपत्नीकस्य -आमिहोत्राद्यनुष्ठान शिष्टसम्प्रदाये नास्ति । -1 -क. -ख. -2 - -=============== -022.jpg.txt" -===============" + - -===================================================== - -===================================================== -यज्ञतत्वप्रकाशे -अवश्यकर्तव्येषु नित्यकर्मसु परिगणितं स्मृतिकारैः । अत एव तत् -यावजीवमनुष्ठेयम् । दर्शपूर्णमासोक्तः कालविकल्पः-जराजीर्णो वा -विरमेत् , विंशतिं वा वर्षाणि अविच्छेदेन अनुष्ठाय ततः परित्यजेत् -इत्यादिर्नात्र प्रसरति । तस्य च सायमुपक्रमः (आरम्भः), प्रातरपवर्गः -(समाप्तिः) । एवं च साय प्रातरिति कालद्वयानुष्ठानादेकं कर्म निष्पन्नं -भवति । तत्र सायङ्काले यदा सूर्यरश्मयः भूभागं परित्यज्य वृक्षाग्र एव -प्रकाशमाना दृश्यन्ते तदा सायहोमाः; प्रातःकाले च प्राच्यां दिशि -यदा रश्मय आविर्भूता भवन्ति तदा च प्रातोमा अनुष्ठेयाः ॥ -अग्निहोत्रे उदितानुदितहोमिभेदः -तत्र उदितहोमिनः केचित् । केचिदनुदितहोमिनः । तेषु बह्वचाः -कातीयाः छन्दोगाश्च अनुदितहोमिनः । कठास्तैत्तिरीया मैत्रायणीयाश्च -उदितहोमिनःक । अग्निप्रणयन परं सर्वेषामुदयास्तगययोः पूर्वमेव । उदया- -दस्तमयाच्च पूर्वमेव गार्हपत्यादग्निमुद्धृत्य कुण्डेषु स्थापयित्वा प्रज्वलयेत् । -ततोऽनुदय उदये वा स्वसूत्रानुसारमग्निहोत्रमनुतिष्ठेत् ॥ -तदनुष्ठानप्रकारः -तत्र सायमग्निहोत्रार्थ सङ्कल्प्य उपवेषेण गार्हपत्यादग्निं ज्वलन्त- -मुद्धृत्य, तं दक्षिणानेरायतने तूष्णीं स्थापयित्वा, पुनरपि गार्हपत्यादग्नि- -मुद्धृत्य तं मन्त्रेण आहवनीये स्थापयेत् । ततो यजमान इध्मकाष्ठानि -स्वयमाहृतानि त्रिष्वप्यग्निषु क्रमेण निदध्यात् । ततोऽग्नीन् गन्धपुष्पादि- -भिरलङ्कृत्य, उदगग्रैः प्रागग्रैश्च दर्भः (कुशैः) परिस्तीर्य, या यजमानस्य -आग्निहोत्री गौः तां विहारस्य" दक्षिणत आनीय अवस्थाप्य, सूर्यास्ता- -दनन्तरं तां दुग्ध्वा दुग्धं पयः श्रपणार्थायां कुम्म्यां निनीय, आहवनीय- -गाईपत्यदक्षिणाग्नीन् क्रमेण जलेन परिषिच्य, गार्हपत्यादारभ्य आहवनीय- -पर्यन्तम् अविच्छिन्नामुदकधारां वेद्यां प्रस्राव्य, गार्हपत्याग्नेः काश्चन -क. सूर्योदयादनन्तरं यच्छाखिनोऽमिहोत्र कर्तव्यतया विहितं स उदितहोमी। -ततः पूर्व तत् कुर्वाणा अनुदितहोमिनः । -यस्याः पयो दुग्ध्वा अमिहोत्रं क्रियते सा आमिहोत्री गौः। -ग. विहारो यशानुष्ठानस्थानम् । -आप. श्री. ६. ३. ८-१४. बौ. श्री. ३. ४. का. श्री. ४.१५, १. - -=============== -023.jpg.txt" -===============" + - -===================================================== - -===================================================== -अग्निहोत्रनिरूपणम् -११ -अङ्गारान् पृथक्कृत्य तदायतनाबहिः वायव्यकोणे तान्निक्षिप्य, तदुपरि -अग्निहोत्रार्थपयःपूर्णा कुम्भी निक्षिप्य, तत् पयः श्रपयेत् । यस्मिन् पाने -दोहनं कृतं तत् पात्रं प्रक्षाल्य, तजलं पात्रस्थदुग्धमिश्रम् अन्यद्वा शुद्धजलं -स्रुव आनीय, तत् कुम्भ्यां प्रतिषिच्य त्रिः पर्यग्नि कृत्वाख गवर्मकरणेन -प्रागुद्वास्य, त्रिभूमौ तत् प्रतिष्ठाप्य, पूर्व गार्हपत्यादृद्धृतानङ्गारान् -पुनस्तस्मिन्नेव प्रतिक्षिप्य, सवमग्निहोत्रहवीं च गृहीत्वा ते आहवनीये -प्रतितप्य, सम्मृश्य, कुम्भीतः पयो गृहीत्वा, अग्निहोत्रहवण्यां क्षिपेत् । -एवं चतुर्वारं क्षेप्तव्यम् । तत् हविरुन्नयनमित्युच्यते । उन्नीतं तत् पयः -गाईपत्यस्य पश्चिमभागे स्थापयित्वा गार्हपत्ये स्वं हस्तं प्रताप्य, तेन तत् -पयः सम्मृश्य, प्रादेशमात्री पलाशसमिधम् एकां, द्वे, तिस्रो वा अग्निहोत्र- -हवण्या उपरि धारयन् गार्हपत्यस्योपरिभागेन ता आहवनीयसमीपे -नयन् , आहवनीयस्य पश्चिमभागे सादयित्वा, अप उपस्पृश्य, ततस्ताः -समिधः (एकां, द्वे, तिस्रो वा यथापूर्व गृहीताः) आहवनीय आधाय, -अग्निहोत्रहवणीस्थं पय आहवनीये जुहुयात् । सा अग्निहोत्रस्य प्रथमा -आहुतिः । सा अग्निदेवत्या ॥ -ततः स्रगग्रात् पयोलेपं हस्तेन गृहीत्वा भूमौ निमृज्य, अग्निहोत्र- -हवणीं भूमौ निक्षिप्य, गार्हपत्यं समीक्ष्य, पुनस्तां गृहीत्वा द्वितीयामाहुति -जुहुयात् । सा प्रजापतिदेवताका । एवं प्रातरप्याहुतिद्वयं होतव्यम् । तत्र -प्रथमा सूर्यदेवत्या । द्वितीया प्रजापतिदेवताका । इमाश्चतस्त्र आहुतयः -अग्निहोत्रे प्रधानभूताः । अमूषां चतसृणामाहुतीनां मध्ये सायंकालीन- -प्रथमाहुतेरग्निदेवत्यत्वात् तदादायैव सर्वांसामाहुतीनामग्निहोत्रनामत्वं -छत्रिन्यायेन । इदं च आपस्तम्बादियाजुवैदिकमतेन ॥ -क. वर्तुलपुष्करो दाकारः सवः । -ख. कुम्भ्या उपर्यङ्गारैः परितो भ्रामणं पर्यमिकरणम् । -ग. अमिसमीपे उद्वासितां कुम्भी भूमौ निक्षिप्य, तथैव प्राग्देशं प्रति -करेत् । तदाकर्षमार्गः कृष्णवर्णो भवति । स व्यापारी वर्मकरणमित्युच्यते । -घ. नवाङ्गुलिपरिमाणः प्रादेशः । -यया अग्निहोत्रं हूयते सा जुहाकारा अमिहोत्रहवणी । -च. बहूनां मध्ये एकस्यापि नद्विशिष्टत्वे सति तदादाय सर्वेषु तत्सम्बद्धेषु -तच्छब्दप्रयोगः छत्रिन्यायः । (Sce. पू . मी. १. ४. १९.) -१. Sce. आप, श्री. ६. १३. १-९, -. -L - -=============== -024.jpg.txt" -===============" + - -===================================================== - -===================================================== -यज्ञतत्त्वप्रकाशे -अग्निहोत्रनाम्नि मतभेदः -बचानां तु उपरि वक्ष्यमाणाः-गार्हपत्ये चतस्रः, दक्षिणाग्नौ -चतस्र इत्यष्टौ, एवं प्रातरष्टौ इत्येवं षोडश । पूर्वोक्ताश्चतस्र इति मिलित्वा -विंशतेरप्याहुतीनाम् अग्निहोत्रशब्दवाच्यत्वम् । मीमांसकसम्प्रदायोऽपीमं -पक्षं परिपुष्णाति । होमकालेऽग्निहोत्रहवणीस्थं पयो न सर्व होतव्यम् । -किन्तु भक्षार्थ किञ्चित्तत्रैव अवशेषयेत् । ततः पूर्ववल्लेपं गृहीत्वा वेदिभूमौ -निमृजेत् । तत् पितृदेवताकम् । ततोऽग्निहोत्रहवीं भूमौ निक्षिप्य स्रवं -गृहीत्वा तं पयसा प्रपूर्य तेन गार्हपत्ये चतस्र आहुतीः दक्षिणाग्नौ च -तावतीराहुतीर्जुहुयात् । तत्र अग्निः गृहपतिः देवता आदितश्चतसृणामाहु- -तीनाम् । अग्निहपतिः, रविपतिः, पुष्टिपतिः, कामः, अन्नाद्यो वा -विकल्पेन । एवमग्निरदाभ्यः परिषद्यो दाक्षिणाग्निकानां प्रथमातृतीया: -चतुर्थीनामाहुतीनां देवता । अग्निरन्नपतिद्धितीयस्या इति वेदितव्यम् ॥ -अग्न्युपस्थानं लेपभक्षश्च -एवं होमान् हुत्वा, अग्नीन् परिषिच्य, आहवनीयस्य दक्षिण- -भागेऽवस्थाय, अग्नीनुपतिष्ठेत । ततो वेदिमध्येऽग्निहोत्रहवणीं निधाय, -लेप होमावशिष्टं भक्षयित्वा, आचम्य, द्विः स्रचं निर्लिय, हस्तं प्रक्षाल्य -आचम्य, ततो जलेन तां पूरयित्वा तयैव आचम्य, अग्निहोत्रहवणीं -दभैः संशोध्य प्रक्षालयेत् । ततः पुनस्तां पूरयित्वा तजलं चतसृष्वपि दिक्षु -हस्तेन व्युसिञ्चेत् तस्यै तस्यै देवतायै (विभज्यो सेचनं व्युत्सेचनम्)। -तत्र सर्पाः, सर्पाः पिपीलिकाः, सर्पतरजनाः, सर्पदेवजनाश्च क्रमेण -देवताः । पुनश्च तां पूरयित्वा आहवनीयस्य पश्चात् तदेकदेशं खनिनीय, -शेष पत्न्या अखलौ निनयेत् । पुनस्तां जलेन पूरयित्वा सप्तर्षिभ्य उदग्देशे -तजलं निनयेत् । ततः प्रत्यावृत्य अग्नीन् प्रज्वलयेत् । ततोऽग्नीन् -पूर्ववत् परिषिच्य "अनाज्ञातादिमन्त्रत्रयं जपित्वा, अग्निहोत्रस्थाल्यां -क. निलहनं नाम पात्रगतस्य पयसो जिह्वाग्रेण पात्रस्पृष्टेन चूषणम् । तच्च -कलियुगे निषिद्धमिति नेदानीं याशिकैरनुष्ठीयते । -ख. निनयनं क्षारणम् । -ग. अनाशातपदघटितमन्त्रादिकं मन्त्रत्रयं तच्छब्देन व्यवाहियते । -See. आप. श्री. ६. १३. ९. also. आश्व. श्री. २. २. -- - -=============== -025.jpg.txt" -===============" + - -===================================================== - -===================================================== -अग्निहोत्रप्रशंसा -१३ -तृणमङ्क्त्वा, तदाहवनीये प्रहृत्य, अग्निहोत्रस्थाली प्रक्षाल्य, हविरुन- -नयनदेशे तज्जलं निनयेत् । ततो यजमानो वेद्यां हस्तं प्रसार्य, तस्मिन्नप -आसिच्य ताः स्वशिरस्यानयेत् । एतदन्तमग्निहोत्राख्यं कर्मोच्यते ॥ -अग्निहोत्रे कर्ता -इदमग्निहोत्रं सायंप्रातःकालयोः यजमानः स्वयमेव जुहुयात् । यदि -न शक्यते तर्हि पुत्रादिभिः ऋत्विजा वा कारयेत् । पर्वणि तु (पौर्णमास्याम् -अमावास्यायां वा) यजमान एव जुहुयात् , नान्यैवियेत् । तत्र -नित्यद्रव्यं पयः, दधि, यवागूश्च । एतेषामेव फलार्थतयाप्यनुष्ठानम् । तत्र -पशुकामः स्वर्गकामो वा पयसा जुहुयात् । इन्द्रियकामो दना, यवाग्वा -ग्रामकामः, ओदनेन अन्नकामः, तण्डुलैरोजस्कामो बलकामो वा । -तेजस्कामो घृतेन इति काम्यानि द्रव्याणि ॥ -अग्निहोत्रप्रशंसा -इदं च अग्निहोत्रं गृहस्थेनैव सभार्येण सता अवश्यमनुष्ठेयम् । -कस्यामप्यवस्थायामग्निहोत्ररहितेन न स्थातव्यं त्रैवर्णिकेन । दीनो -धनी वा सर्वोऽपीदमनुतिष्ठेत् यावत् जीवति । सत्स्वष्यतिमहत्सु. बहुवर्ष- -बहुव्ययसाध्येषु क्रतुषु अग्निहोत्रस्य वेदेषु पुराणेषु तदनुयायिषु च ग्रन्थेषु -यावती प्रशंसा दृश्यते सा न अन्यस्य कस्यापि क्रतोः । अग्निहोत्र- -मननुष्ठाय नान्यः क्रतुरनुष्ठातुं शक्यते । तत्र विवाहानन्तरं जातपुत्र- -कृष्णकेशत्वोपलक्षिते वयसि वर्तमानेन त्रैवर्णिकेन पुरुषेण सपत्नीकेन -अग्न्याधेयं कर्तव्यमित्युक्तं प्राक् । एवमाहितानां गार्हपत्यदक्षिणाग्न्या- -हवनीयरूपाणां त्रयाणामग्नीनां मध्ये गार्हपत्योऽग्निरविच्छेदेन यावजीवं -क. तत्रामावास्यायां रात्रौ यवाग्वा अमिहोत्रं कर्तव्यम् , नान्यैव्यैः । -तण्डुलैः शिथिलपक्का यवागूः इति कर्कः । विरळद्रवा सेत्यपरे । -See. आप. श्री. ६. १५. १. का. श्री. ४. १५. १२-२५ । -पयो· यवागूरिति धूर्तस्वामी । अत्यन्तद्रवरूपेण पक्कास्तण्डुला एव यवागूरिति -सम्प्रदाय: । सान्नाय्ययाजिन एव अयं यवागूनियमः । तस्य आतञ्चनार्थ -तदपेक्षणात् I See. also, आश्व. श्री. २, ३, १. - -=============== -026.jpg.txt" -===============" + - -===================================================== - -===================================================== -यज्ञतत्त्वप्रकाशे -धार्यः । इतरावग्नी तत्तत्कर्मकाले गार्हपत्यादुधृत्य स्वस्वायतने -स्थाप्यते । यदर्थमुद्धृतौ तौ तत्कर्मसमाप्त्यनन्तरं तथैव परित्यज्यते । तो -तत्रैव शान्तौ भवतः । पुनः कर्मकाले तौ नवीनतया गार्हपत्यात् प्रणीय -स्वस्वकुण्डे स्थापयित्वा कर्मकरणम् । सायं प्रातश्च होमकाले, रात्रौ च -यजमानस्तत्पत्नी वा, अग्न्यगारेऽवश्यं वर्तेत, न अन्यत्र गच्छेत् । -अन्यतरेण गृहेऽवश्यं स्थातव्यम् । द्वयोरपि बहिनामान्तरगमनावश्यकतायां -सहैव अग्निभिः गच्छेताम् ॥ -अमिप्तमारोपणादि. -तत्र यजमानोऽग्नीनरण्योरात्मनि वा समारोप्य पत्न्या -आन्वारब्ध एव गच्छन्मौनेन । गन्तव्यदेशं प्राप्य, पूर्व समारोपितानग्नीन् -मन्त्रेणोपावरोहयेत्” । तत्र आत्मसमारोपणे गन्तव्यदेशप्राप्त्यनन्तरं -लौकिकमग्नि शिष्टवैदिकगृहादाहृत्य तस्मिन्नात्मसमारोपितमग्नि मन्त्रेणोपा- -वरोहयेत् । अरणिसमारोपणे तु गन्तव्यदेशावधि ते अरणी यजमान -एव स्वहस्त आदाय गच्छेत् । गत्वा तत्र अरणी मथित्वा तत उत्पन्नेऽग्नौ -उपावरोहणं कुर्यात् । गृह एव अग्नि परित्यज्य, पत्नीयजमानयोरुभयोरपि -बहिर्गमनेऽग्निविनाशो भवेत् । तदा पुनरग्निमत्त्वसिद्धये पुनराधानमेव -क. अत्र धारणं नाम-गाईपत्यकुण्डेऽन्तः करीषपिण्डं निक्षिप्य तदुपरि -गाईपत्यानि प्रज्वलय्य, पिण्डे तं सङ्क्रमयेत् । तत्र सङ्क्रान्तोऽमियथा सर्वदा तिष्ठेत् -तथा रक्षणमेव । न तु तस्य सर्वदा प्रज्वालनम् । एवमेव (गतश्रियः) लब्धधनस्य, -ग्रामनेतुः, राजन्यस्य च त्रयाणां पञ्चानां वा अनीनामजस्ररक्षणम् । होमकाले तु -कुण्डान्तःस्थान् तान् करीबपिण्डान् सामीन् बहिरुद्धृत्य, पुनस्तत्तत्कुण्डानामन्तः -करीषपिण्डान्तराणि निक्षिप्य, तांस्तुपैः भस्मना वा आच्छाद्य, तदुपरि पूर्वाद्धृतान् -तांस्ताननीनवस्थाप्य प्रज्वलय्य तत्र जुहुयादित्येव याशिकसंप्रदायः। -ख. समारोपणं नाम - गाईपत्यकुण्डगतस्य अमेररण्योगरोहणार्थ मन्त्रेण -प्रार्थना । तथा आरूढत्वेन मनसा चिन्तनं च । -ग. उपावरोहणं नाम - लौकिके, अरणिमथिते वा अग्नी मन्त्रेण अवतारणम् , -तथा चिन्तनं च। -घ. अग्निविनाशो नाम - अमिनिष्ठाहवनीयत्वाद्यदृष्टधर्मविनाशः । न. तु -स्वरूपनाशः । तत्स्वरूपस्य तथैव अवस्थितेः । पुनस्तादृशादृष्टोत्पादनार्थमेव च -पुनराधानानुष्ठानम्। -5 - -=============== -027.jpg.txt" -===============" + - -===================================================== - -===================================================== -१५ -विषयनिवेचनम् -कार्यम् । पुनराधानं तु आधानापेक्षया किश्चित् विलक्षणं कर्म । तत्र -प्रथमाधानोक्तानि कानिचन कर्माणि न अनुष्ठातव्यानि । तावन्मात्रणव -अग्निसिद्धिः ॥ -॥ इत्यग्निहोत्रप्रकरणम् ॥ -विषयविवेचनम् -अत्र केचन विषया विविच्यन्ते सम्भावित संशयविनिवृत्तये । -विधिवदुपनीतत्रैवर्णिको माणवकः, गुरुगृहे ब्रह्मचर्येण वसन् साङ्गं वेदं, -वेदौ, वेदान् वा यथानियमं गुरोरधीत्य, स्वगृहं प्रत्यावृत्तः, कुलशीलादि- -सम्पन्नां काञ्चन कन्यामुद्हेत् । यस्मिन्नग्नौ वैवाहिकहोमाः क्रियन्ते, -सोऽग्निः ततः प्रभृत्येव संरक्षणीयः । स गृह्याग्निरित्युच्यते । तदर्थम् -आधानकर्तव्यता नास्ति तैत्तिरीयच्छन्दोगबचानाम् । वाजसनेयिनां तु -तदर्थमपि स्माताधानाख्यं किञ्चन कर्म विहितं तद्गृह्यसूत्रे । स च -यावजीवं धारणीयः । तस्मिन्नेव अग्नौ गृह्योक्तानि कर्माण्यनुष्ठयानि । -समुचितं कालं प्राप्य, आहिताग्नित्वसिद्धये श्रौताधानं कर्तव्यम् । तेन -च अग्नित्रयस्य, अग्निपञ्चकस्य वा सिद्धिः । स च कालः प्रायेण -पञ्चविंशतिवर्षवयस्कत्वरूपो निर्णीतो याज्ञिकैर्धर्मशास्त्रकारैश्च । विवाहितेनै- -कैकेनापि त्रैवर्णिकेन अग्न्याधानमनुष्ठेयम् । अन्यथा अनाहिताग्नितारूपो -दोष एनमृच्छेत् । तत्र स्वपितुरनाहिताग्नित्वे स्वस्य अधिकारो नास्ति । -अतः पितुराधानं कारयित्वा ततः स्वयं कुर्वीत । एवमेव ज्येष्ठम्रातुरपि । -परं ज्येष्ठधातुरनाहिताग्नेराधानकरणेऽनिच्छायां, ततोऽनुमतिं लब्ध्वा -कनीयान् स्वयमाधानेऽधिकुर्यात् । अतश्च जीवतः पितुराहिताग्नित्वे -सत्येव पुत्रा अग्निमादधीरन् । तन्मरणानन्तरं वा आदधीरन् । जीवतो -भ्रातुरनाहिताग्नेरनुज्ञां लब्ध्वा तन्मरणानन्तरं वा स्वयमाधानं कुर्युः । -एवं सोमयागानुष्ठानेऽप्ययमेव न्यायोऽनुसरणीयः ॥ -Sec. आप. श्री. ५.२६., बोधा. श्री. ३. १., कात्या. श्री.४.११. -२. उपरि लिखितान् विषयानधिकृत्य कश्चित् कचित् अन्यथा अन्यथा -लिखितम् । तदवलोकनेन सुधियां कदाचित् विषयेष्वेषु मा प्रसाङ्क्षीदन्यथाभाव -इत्येतदर्थमिमे विषया उपरितना विवेचिताः । प्रायेणैवंविधान् विषयान् साम्प्रदायिका -एव साधु विवेचयितुं प्रभवन्तीति किमत्र अधिकं वक्तव्यम् । - -=============== -028.jpg.txt" -===============" + - -===================================================== - -===================================================== -१६ -यज्ञतत्त्वग्रकाशे -- -तत्र एकस्मिन् गृहे पिता पूर्वं ततश्च भ्रातरो बहवोऽपि ज्येष्ठक्रमेण -अग्न्याधानं कर्तुं प्रभवन्ति । अत एव एकस्मिन्नेव गृहे वयोऽप्यग्नि- -शालाः पितापुत्रीयाः, भ्रात्रीयाश्चैककाले भवितुमर्हन्ति । परं सर्वेऽपि -स्वाहितेष्वेव अग्निषु जुहुयुः, यजेरंश्च । परकीयेषु तेषु तु तत्तदृत्विक्त्वेन -होतुं यष्टुं वा प्रभवेयुः, न यजमानत्वेन । परकीयेऽग्नौ परेण स्वकर्मानु- -ष्ठाने, न केवलं कर्मजन्यादृष्टासिद्धिः अग्नीनामपि नाशो भवेत् । स्मात -वैश्वदेवं परमेकस्मिन् पाके भुञ्जानानामनेकेषामपि पितृपुत्रादीनामेकमेव -भवेत् । तस्य भोक्ष्यमाणान्नसंस्कारकत्वेन, एकेनैव वैश्वदेवेन भाण्डस्थस्य -समग्रस्याप्यन्नस्य संस्कारजननात् ॥ -दायविभागस्तु पितुरूवं भ्रातृणां परस्परं भवति । यदि तु -जीवन्नेव पिता पुत्राणां स्वस्य च विभागमिच्छति तदा पित्रा सह विभागो -भवितुमर्हत्येव । तदा पृथक्पाकोऽपि भवति । अतश्च जीवति साग्नौ -पितरि, सति वा, असति वा दायविभागे सदाराणां पुत्राणामाधानाग्नि- -होत्रादिषु श्रौतकर्मस्वधिकारोऽस्त्येवेति शास्त्रमर्यादा ॥ -॥ इति साधारणा विषयाः ॥ -दर्शपूर्णमासी -उक्तोऽग्निहोत्रानुष्ठानप्रकारः ॥ -अथेदानी दर्शपूर्णमासयोः स्वरूपं, तदनुष्ठानप्रकारश्च अनवगततत्स्व- -रूपाणां सुखावबोधाय सङ्ग्रह्य विलिख्यते । कृताधानस्य दारवतः -त्रैवर्णिकस्य तत्र अधिकारः, न अकृतदारस्य, न वा मृतपत्नीकस्य । प्रत्येक -दिनद्वयानुष्ठेयमिदं कर्म । पौर्णमास्यां प्रातरारम्य प्रतिपदि पूर्वाहे -समापनीयम् । एवममावास्यायां प्रातरारभ्य तदनन्तरप्रतिपदि पूर्वाह्ने -समापनीयम् । तत्र 'यदहरेवैनं श्रद्धोपनमेत् अथ आदधीत, अथं यजेत' -इति वचनात् उत्पन्न श्रद्धः पुरुषो यस्मिन् कस्मिंश्चिद्वसन्ततौ विधिवदग्नी- -नाधाय, आधानदिन एव पवमानेष्टीरनुष्ठाय तद्दिन एव सायमग्निहोत्र- -मारभेत । आरभ्य च प्रतिदिनं सायं प्रातश्चाग्निहोत्रं *जुत् , समनन्तर- -भाविन्यां पौर्णमास्यां मलमासशुकास्तादिदोषरहितायाम् , अन्वारम्भणीये- -क. अयं च होमपूर्वाधानपक्षः । इष्टिपूर्वाधानपक्षे तु आधानानन्तरं -पौर्णमास्यामदुष्टायामिष्टयारम्भ एव कर्तव्य इति पूर्व निरूपितम् । -, - -=============== -029.jpg.txt" -===============" + - -===================================================== - -===================================================== -दर्शपूर्णमासनिरूपणम -टयनुष्ठानपूर्वकं दर्शपूर्णमासावारभेत । आरभ्य पूर्व तस्मिन् पर्वणि -पौर्णमासं यागमनुतिष्ठेत् , अनन्तररिमन् दशैं दर्शयागम् । उभयत्रापि -चत्वार ऋविजः- अध्वर्युः, ब्रह्मा, होता, आग्नीधश्च । एतेषामात्र -समप्राधान्यनेन । न सोमयागवदुच्चनीचभावः ॥ -पौर्णमास्यां त्रीणि प्रधानानि--अग्निदेवताकः पुगेडाशद्रव्यको -यागः प्रथमः । विष्णुप्रजापत्यग्नीपोमान्यतमदेवताकः उपांशुयाजाख्यो -द्वितीयः । अग्नीपोमदेवताकः पुरोडाशद्रव्यको यागस्तृतीयः । अन्ये ये तत्प्र- -करणपठिता यामहोमादयः ते सर्वे तदङ्गभूताः । प्रवानस्य फलोत्पादन- -योग्यताजननार्थमेव अङ्गानामनुष्ठानम् । एवममावास्यायां प्रधानत्रयम् - -आग्नेयः पुगेडाशयान, ऐन्द्रो दवियागः, ऐन्द्र एव च पयोयाग इति । -अत्रापि प्रयाजादयोऽङ्गभूता अनुष्ठीयन्ते । ते च यद्यपि एकैकरयाङ्गभूता -इति त्रयाणां कृते निरनुष्ठेयाः पूर्णिमायाम् , त्रिश्च दर्श इत्यापतति, तथापि -एककालानुष्ठीयमानानामने केषामपि प्रवानानामङ्गानि सकृदेव अनुष्ठेया- -नीति पूर्वतन्त्र निर्धारित न्यायमनुसृत्य पूर्णिमायां त्रितयोद्देशेन सकृत् -दर्शे च त्रितयोद्देशेन सकृदनुष्टीयन्ते ॥ -तेषु केचन यागपदवाच्याः। केचन होमपदाभिधेयाः। तत्र ये यागास्ते -तिष्ठतैव होतव्याः । ये हामास्त उपविष्टन होतव्याः । अन्यानि चाङ्गानि -यथासम्भवमनुष्ठेयानि । एवं, यागश्चेत् 'वौषट्' इति वषट्कारमुक्त्वा अग्नौ -हविः प्रक्षेप्तव्यम् । होमश्चत् 'स्वाहा'कारमुक्त्वा तदिति विवेकः । तत्र -'यजति'शब्देन विहितो यागः । 'जुहोति' शब्देन विहितो होम इति बोध्यम् ॥ -तौ दर्शपूर्णमासौ द्विविधौ-नित्यौ काम्यौ चेति । प्रतिदर्श -प्रतिपौर्णमासं च यावजीवं पुरुपेण अनुष्ठीयमानत्वात् , अननुष्ठाने प्रत्यवा- -योत्पत्तिकथनाच नित्यत्वम् । तत्तत्फलमुद्दिश्य अनुष्ठानविधानाच्च काम्यत्वम् । -तत्र नित्यौ यावत्पर्यन्नं जीवति पुरुपस्तावत्पर्यन्तमविच्छेदेन पर्वस्वनुष्ठेयौष । -क. पर्वद्वयानुष्ठेयप्रपादमेकं कर्म, यथा सायंकाले प्रात.काले च कृतं -होमसमुदायद्वयं मिलित्वा एकममिहोत्राख्यं कर्म भवति, तद्वत् । -ख. त्रिंशद्वर्षपर्यन्तमविच्छेदेन दर्शपूर्णमासान् अनुष्ठाय ततः परित्यागः । -दाक्षायणयाजिनस्तु पञ्चदशैव वण्यनुष्ठेयानि । वृद्धावस्थायां वा त्यागो नित्ययोरपि -इत्यादयः पक्षा उक्ताः सूत्रग्रन्थेषु । -१. -Sce. कात्या. १.२.६. -3 - -=============== -030.jpg.txt" -===============" + - -===================================================== - -===================================================== -यज्ञतत्त्वप्रकाशे -काम्यौ च यदा फलेच्छा उदेति तदा विहिताविगीतकाले सक्दनुष्ठेयौ । -पुनस्तस्यैव फलस्य तजन्यफलान्तरस्य वा अपेक्षायां सत्यां पुनरनुष्ठानम् । -तत्र पुरोडाशस्य साक्षात्नदेयभूतस्य प्रकृतिभूतं द्रव्यं ब्रीहयो यवा वा । -वीहीणां यवानां च विकल्पः । परं तु दर्शपूर्णमासयोरारम्भकाले व्रीहयो -यवा वा स्वेच्छया ग्राह्याः । अनन्तरं द्वितीयादिप्रयोगे प्रथमप्रयोगगृहीते- -नैव द्रव्येण यात्रजीवमनुष्ठान कार्यम् । तयोः दर्शपूर्णगासयोः न केवलं -स्वर्गमात्रार्थत्वम् , अभिलपितसर्वफलार्थत्वं च शास्त्रेण अवबोध्यते ॥ -यागानुष्ठानकालः -पर्वप्रतिपदोस्सन्धिः प्रधानानुष्ठानस्य मुख्यः कालः । स यदि -कदाचिदपराहे रात्रौ वा आपतेत् तदा तदनुष्ठानस्य निषेधात् द्वितीयदिन -एव प्रातः प्रधानानुष्ठानम् । तदनुरोधेन तत्पूर्वदिन एक कर्मण आरम्भः । -दर्शपूर्णमासावेव तदितरासामिष्टीनां प्रकृतिभूती सामान्यतः । पशुयाग- -प्रकृतिभूताग्नीषोमीयपशुयागस्य च । विशेपास्तु द्रव्यदेवतादिसादृश्या- -दवगन्तव्याः । तत्र अध्वर्युणा यागकाले पठनीया मन्त्राः यजुर्वेदे -आनाताः । ते चोपांशु चातुस्वर्येण पठनीयाः । होत्रा पठनीया मन्त्रा -ऋग्वेदीयाःख । ते च याज्यापुरोनुवाक्याप्रैपादिरूपा ऐकस्वर्येणोच्चैश्च -पठनीयाः। तदतिरिक्ताश्च केचित् जादयो यथासम्भवमुपांशुस्वरादिना । -प्रैषा आध्वर्यवा अत्युच्चेरेव, परसम्बोधनार्थत्वात् इति स्वरूपविवरण -दर्शपूर्णमासयोः॥ -क, यागीयं द्रव्यम् , तदीया देवता, तदीयः काल इत्यादीना यत्र -द्रव्यान्तरादिभिः सह विकल्प उक्तः, तत्र प्रथमानुष्ठाने वैकल्पिकद्रव्येषु यत्किञ्चित् -ग्रहीतव्यम् । तत्र स्वेच्छैव नियामिका । द्वितीयानुष्ठाने तु पूर्वप्रयोगगृहीतमेव ग्राह्यम् , -नान्यत् I See. पू . मी. १२, ३. ६. -ख. याज्यापुगेनुवाक्यारूपा मन्त्रा इष्टिपशुचातुर्मास्योपयोगिनो यजुर्वेदेऽपि -पठिताः; ऋग्वेदेऽपि । एवं सूत्रकारोऽपि भगवानापस्तम्बश्चातुर्मास्यान्तभागस्य -क्षेत्रमागमपि पपाठ । व्याख्यातारोऽपि अनुक्तमन्यतस्तं जगृहुः । एवं चातुर्मास्यान्त- -भागस्य याजुषहौत्रम् , आर्थिकहौत्रमिति द्विधा प्रचलति । तत्र आपस्तम्बीया -बौधायनीयाच, आदित एव आर्चिकमेव होत्रमनुतिष्ठन्ति । कठमैत्रायणीयास्तु -चातुर्मास्यान्तेषु कर्मसु याजुषं तदुपरि आचिकं च होत्रमनुतिष्ठन्ति । -See. -आप. श्री. २४. ३. ३२-४५. - -=============== -031.jpg.txt" -===============" + - -===================================================== - -===================================================== -दर्शपूर्णमासनिरूपणम् -पौर्णमासीदिनकृत्यम् -अथ तयोरनुष्ठानप्रकारः सामान्यतो निरूप्यते । तत्र पौर्णमास्यां -यजमानः प्रातर्विहितनित्यक्रियः प्रातरनिहोत्रं हुत्वा आहवनीयदक्षिणाग्नी -अग्निहोत्रानुष्ठानार्थं प्रज्वालिती कुण्डाभ्यां निष्कास्य, पुनर्गार्हपत्यात् तावग्नी -दर्शपूर्णमासाथ प्रणीय, प्रज्वलय्य त्रिध्वप्यग्निध्वन्वाधानं कुर्यात् । -प्रणयनं नाम गार्हपत्यकुण्डादग्निमुद्धृय *कुण्डान्तरे स्थापनम् । -अन्वाधान नाम अग्निपु काष्ठानां यज्ञियानां समन्त्रकमाधानम् । आधान- -मत्र निक्षेपणमात्रमग्नेः प्रदीपनार्थम् । ततो यजमानो वानं कुर्यात् । ततः -खानाद्यनन्तरं प्राचीमुदीची वा दिशं गत्वा करिष्यमाणयज्ञार्थान् कुशान् -दर्भान् वा समन्त्रकलवनाद्यनुष्टानपूर्वकमाहृत्य गार्हपत्यगृहे आहवनीयगृहे -वा उपरि छदिरादौ निदध्यात् । कुशमुष्टयोऽयुग्मसङ्ख्याकाः (वयः, पञ्च, -सप्त, नव इत्ययुग्मसख्या) परिमिता आनेतव्याः । तत्र प्रथमो मुष्टिः प्रस्तर -इत्युच्यते । तैः सह वेद्यास्तरणार्थी अपि दी आनेतव्याः । तदानीमेव -चेमकाष्ठान्यप्येकविंशतिराद्राणि शुष्काणि वा त्वग्युक्तान्याहर्तव्यानि । -तत्र पञ्चदश सामिधेन्यर्थम् । तिस्रः परिध्यर्थे । वे आधारसमिधौ । एका -अनुयाजार्थी समिदिति विभागः । एतावत्पर्यन्तं पौर्णमासीदिनकृत्यम् । -रात्रौ यजमानः स्वयमेव अग्निहोत्रमनुष्ठाय, "आरण्यकधान्यानि भुक्त्वा -गार्हपत्यगृहे, आहवनीयगृहे वा भूमौ शयीत । जागरणं कुर्याद्वा ॥ -क. कुण्डानां पञ्चभूसस्कारान् कृत्वैव अभिस्थापनमिति देवयाज्ञिकप्रभृतयः -पद्धतिकाराः । ते च संस्काराः-कुण्डस्य परिसमूहनम , गोमयेनोपलेपनम् , -प्रागुदगायताना तिसृणा तिसृणा रेखाणां करणम् , कुण्डात् पासूनामुद्धरणम् , -प्रोक्षणमिति । -ख. वपनमिदं कृताकृतं मन्यन्ते बहवो याशिकाः । -ग्राम्येय उपवसति, आरण्यानभाति, न तस्य सायमनीयात् येन -प्रातयक्ष्यमाणरस्यात् (आप. श्री. ४. ३. १०) इति वचनात् यजातीयेन हविषा -यक्ष्यति तजातीयं हविः पूर्वदिने नाभीयात् । मापमासे च सर्वथा वर्जयेत् । -ग्राम्या ओपधयश्च-तिलाः, मापाः, ब्रीयः, यवाः, प्रियङ्गवः, अणवः, गोधूमा -इति सप्त ग्राम्या ओषधयः । वेणुतण्डुलाः, श्यामाकाः, वारा:, अरण्यतिला:, -अरण्यगोधूमाः, अरण्य मर्कटकाः, कुलुत्था इति सप्तारण्याः । -See. आप. श्री. १६. १९, १३, १४, -घ. खट्वादीनामुपरि शयनं निषिच्यते । न तु भूमेरुपयर्यास्तरणमपि -ग. -in -५ -" -3 - -=============== -032.jpg.txt" -===============" + - -===================================================== - -===================================================== -यज्ञतत्त्वप्रकाशे -कृष्णप्रतिपदिनकृत्यम् -श्वोभूते प्रातरुत्याय नैत्यकं कर्म कृषा कृताग्निहोत्रः कर्म -आरभेत । तत्र पौर्णमास्यां सूर्योदयाद नन्तरं कर्मारम्भः । अमावास्यायां -तूदयात् प्रागिति विशेषः । एवं करिय, अध्वर्युः हातावबनिज्य, -आस्तराणार्थमानीतैरुलपाखीस्तृणविशहिमालीय, आहवनीयन्य दक्षिण- -भागे ब्रह्मयजमान योरामने परिकल्पयेत् । तन आइवनीयम्योत्तरतो निकरदेशे -कुशानास्तीर्य, तदुपरि यज्ञाहणि पानाणि अघोविलानि (अधोमुखानि) -स्थापयेत् । तानि च -स्त्र, जुहूः, उपभृत् , घना, वेदः, पात्री, आज्य- -स्थाली, प्राशिवहरणम् , इडापात्रम् , प्रणीताप्रणयनम् इति दश । एवं -गाहपयाग्नेरुत्तरतो दभीन् प्रसार्य तदुगरि पूर्ववदेव अधोमुखानि पात्राणि -स्थापयेत् । तानि च-रफयः, कपालान्ये कविंशतिः, अग्निहोत्रहवणी, -शूर्पम् , कृष्णाजिनम् , शम्या, उलूखलम् , मुसलम् , दृपत् , उपला इति -दश । एतेषां पात्राणामुत्तरदेश *योत्रम् , मदन्ती, मेक्षणम् , वंदाग्राणि, -अन्वाहायस्थाली, अश्मा, उपवेपः, पिटलेपपात्रम् , फलीकरणपात्रम् -इति एतानि स्थापयेत् ॥ -ततोऽध्वर्युर्वेद्या उत्तरत उपविश्य, ब्रह्माणं वृणुयात् । वृतो ब्रह्मा -वेदेर्दक्षिणदेशं गला आहवनीयस्य दक्षिणत उपविशेत् । ब्रह्मणः -पश्चाद्भागे वेदेर्दक्षिणत एव यजमान उपविशेत् । ततोऽध्वर्युः गार्हपत्या- -ग्नेरुत्तरदेश उपविश्य चमसाख्यं चतुष्कोणं दारवं पात्रं जलेन पूरयित्वा, -तदाहवनीयस्योत्तरदेशं प्रति नीत्वा, तत्रैव दर्भाणामुपरि स्थापयेत् । -तदेतत् अपां प्रणयनमित्युच्यते ॥ -हविर्निर्वापः -ततोऽग्निहोत्रहवीं शू च हस्ते गृहीत्वा ते आहवनीये प्रतितप्य, -वेदेरुत्तरत आनीय पूर्वमेव अवस्थापितस्य व्रीहिभिः यवैर्वा पूर्णस्य -शकटस्य समीपं गत्वा, शकटमारुह्य धान्यस्योपरि प्रसारितमाच्छादन- -यजमानपल्याः कट्या बन्धनाय मुअतृणनिर्मिता रज्जुर्योक्त्रम् । तप्ता -आपो मदन्त्यः । पिष्टाना जलेन सह मिश्रणायोपयोक्तव्यं काष्ठनिर्मित पात्रं मेनणम् । -वेदो दर्भमुष्टिविशेषः । ततः परिवासितानि तदग्राणि वेदाग्राणि । ऋत्विम्भ्यो -दक्षिणारूपेण देय ओदनः अन्याहार्यः । तत्पाकार्थी स्थाली अन्याहार्यस्थाली । -पिष्टसयवनकाले पान्यां संलगः पिष्टांश पिटलेपः । तद्रक्षणार्थ पात्रं पिष्टलेपपात्रम् , -द्वितीयावहननकाले निस्सृताः सूक्ष्मास्तण्डुलत्यच: पलीकरणानि । तदर्थ पात्रम् । -, -क. - -=============== -033.jpg.txt" -===============" + - -===================================================== - -===================================================== -दर्शपूर्णमासनिरूपणम् -मपसार्य, धान्यगतं तृणादिकमपास्य, दक्षिणहस्तेन शकटस्थान् व्रीहीन -यवान् वा मुष्टिना गृहीत्वा, यागीयतत्तद्देवतानामनिर्देशपूर्वकं तानग्निहोत्र. -हवण्यां निक्षिप्य, अग्निहोत्रहवणीतः शूर्पे प्रक्षिपेत् । एवं वारचतुष्टयं -कर्तव्यम् । तदिदं शबाटम्थहविपः मुष्टिना पृथक् पात्रे करणं हविर्निर्वाप -इत्युच्यते । एवमेकस्यै देवतायै हविनिरूप्य पुनर्देवतान्तरार्थं तथैव -निपेत् । तत्र पौर्णमास्यां प्रथमगग्नये निर्वापः, ततोऽग्नीषोमाभ्यामिति -ध्येयम् । निवीपकाले पात्रीतो बहिःपतितान् ब्रीह्यादीनभिमन्य हस्तगतं -शूर्प सहविष्कम् आहवनीयसमीपे स्थापयेत् । ततस्तान संस्कृताभिः -प्रोक्षणीसंज्ञकाभिरद्भिः त्रिः प्रोक्षेत् । प्रोक्षणकालेऽपि निर्वापवत् तत्तद्देवता- -नाम निर्दिशेत् । ततः पूर्व स्थापितानि न्यश्चि पात्राणि पर्यावृत्य, -ऊर्ध्वमुखानि कृत्वा पवित्रयुक्तेन पाणिना तानि निः प्रोक्षेत् ॥ -अवहननपेपणे -ततः कृष्णाजिनं गृहीत्वा, उत्करे निरवधूय, तत्रैव तदास्तीर्य -तदनुराजन् तदुपर्युलूग्वलं प्रतिष्ठाप्य तत्र निरुतं हविरेकीकृत्य आवपेत् । -ततो मुसलमादायावहननं कुर्वन्नध्वर्युः अबहनने सहायार्थम् अन्य कंचन -पुरुषं यजमानपत्नी वा आहूय तेन तया वा साकमवहन्याद्धविः । अवहता- -स्तण्डुलान तुपेभ्यः फलीकुर्यात् । फलीकरणं नाम तुषविमोकार्थ सकृदवहतानां -तण्डुलानामुपरिगतकणापाकरणाय पुनरवहननम् । ततः कृष्णाजिनमास्तीर्य -तदुपरि शम्यां निधाय, तदुपरि च दृपदमत्याधाय, तत्र सुप्रक्षालितान् -तण्डुलान् निक्षिप्य, उपलया तान् पिंष्यात् । पिष्टानि चूर्णानि कृष्णाजिने -प्रस्कन्दयेत् । ततो हविः(पुरोडाश)श्रपणार्थ गार्हपत्यस्य आहवनीयस्य वा -पश्चिमदेशे कपालान्युपदधाति । आग्नेयस्य पुरोडाशस्याष्टौ । अग्नीषोमी- -यस्यैकादश कपालानि । तदुपधानप्रकारश्च अन्ते चित्ररूपेण दर्शितः ॥ -हविःश्रपणम् -एवमुपधाय कपालानि तदुपरि वेदाख्येन दर्भमुष्टिना अङ्गारान- -ध्यूह्य पिष्टसंयवनार्थमपां खसन्तापनं कृत्वा, प्रक्षालितायां पायां -तण्डुलानामुज्ज्वलीकरणायेदं द्वितीयमवहननम् । -अत्र, आमपिष्टानामेवोष्ण जलेन संयोजनम् , ततः पिण्डं कृत्वा कपालो- -परि निधाय श्रपणं च सूत्रकारैरुक्तम् , तथापि सौकर्याय पिष्टानि प्रथमं भर्जयित्वा, -ततस्तानि उष्णजलेन संयोज्य, पिण्डं कुर्वन्ति याज्ञिकाः । -. -क. -ख. -, - -=============== -034.jpg.txt" -===============" + - -===================================================== - -===================================================== -यज्ञतत्त्वप्रकाशे -- -पिष्टान्यारोप्य संयौति । संयुत्य च पिण्डद्वयं कृत्वा, एकमग्नये, एकमग्नी- -पोमाभ्यां च निर्दिश्य, तत्तदर्थं गार्हपत्यरय आहवनीयस्य वा पश्चादुप- -हितानां कपालानागुपरि तं तं पिण्डं निधाय, उल्मुकैः पुरोडाशौ प्रतितप्य, -ज्वलद्भिर्दरभितः प्रज्वलय्य, सुपक्की ती कुर्वन भस्मना आच्छादयेत् । -तावेव पुरोडाशौ । ततस्संयवनोपयुक्तां पात्री प्रक्षाल्य, तजलं वेद्यां कृतासु -तिसृषु रेखासु निनयेत् । तत्र एकतः, द्वितः, त्रित इति क्रमेण देवताः ॥ -वेदिनिर्माणम् , आज्यग्रहणादिकं च -ततः स्फ्यमादाय, तेन वेदिनिर्माणार्थी भूमि खावा, तत्रत्यं -तृणादिकमपास्य, उत्करे क्षिप्त्वा, उत्करतः शुद्धान् पांसूनादाय, -वेद्यामोप्य वेदि निर्मायात् । तस्याः स्वरूपमन्ते दर्शितम् । ततस्तां यज्ञार्थ -परिगृह, प्रोक्षण्याद्यासादनार्थ प्रैपमग्नीधे दत्वा, आहवनीयस्योत्तरत इध्मं -दर्भाश्च सादयित्वा दमै ह्वादिपात्राणि सम्मृज्यात् । तत्र स्रवं, जुहूं, -उपभृतं, ध्रुवां, प्राशिवहरणं च प्रतितप्य कमेण वेदाप्रैस्सम्मृज्य, पुनः -प्रतितप्य, प्रोक्ष्य, वेद्यां दर्भाणामुपरि सादयित्वा, वेदाग्राणि पात्रसम्माज- -नोपयुक्तानि अग्नौ प्रहरेत् । तत आग्नीध्रो योक्त्रण पत्नी सन्नह्यति । -ततस्सा गार्हपत्याग्नि देवपत्नीश्वोपस्थाय तद्देशादपक्रम्य, किञ्चिदिव -दक्षिणत उदङ्मुखी उपविशेत् । ततोऽध्वर्युः सर्पिर्धान्याः तत्र पूर्व -स्थापिताया आज्यं गृहीत्वा, आज्यस्थाली प्रपूर्य तां दक्षिणाग्नौ गार्हपत्ये -च क्रमशोऽधिश्रित्य, पत्न्या हस्ते दद्यात् । सा तदाज्यं निमीलिताक्षी -सत्येव पूर्वमवलोक्य, ततो यथावदीक्षित्वा वेद्यां निक्षिपेत् ॥ -आज्यग्रहणम् -ततोऽध्वर्युर्यजमानश्च तथैव आज्यमवेक्षेयाताम् । तत आज्य- -स्थाल्या आज्य स्रवेण गृहीत्वा जुह्वादीनां पूरणम् । तदेव आज्यग्रहण- -मित्युच्यते । तदित्यम्-प्रथमं जुहूमाज्यस्थाल्या बिलेन समं गृहीत्वा -जुह्वां स्रवेण आज्यस्थालीती वारचतुष्टयमाज्यं क्षिपेत् । एवमुपभृत्यष्ट- -वारम् । ध्रुवायां वारचतुष्टयम् । एवमाज्येन ताः सचः पूरयित्वा अन्तर्वेदि -इविस्समीपे स्थापयेत् । ततः प्रोक्षणार्थ सम्भृता अपः (प्रोक्षणी:) -क. संयवनं जलेन मिश्रीकरणम् । -ख. कन्यां बन्धनम् । - -=============== -035.jpg.txt" -===============" + - -===================================================== - -===================================================== -२३ -। -दर्शपूर्णमासनिरूपणम -अभिमन्य ब्रह्माणमामन्य (पृष्ट्वा) ततो लब्धानुज्ञः इध्मं विस्रस्य ताभिरद्भिः -तं त्रिः प्रोक्ष्य अन्तर्वेद्यासादितान् दर्भानपि त्रिः प्रोक्ष्य वदिं च त्रिः -प्रोक्षेत् । प्रोक्षणीशेपं वेदेर्दक्षिणस्याः श्रोणेः उत्तरश्रोणिपर्यन्तं सन्ततधारया -स्रावयेत् । तत्र पितरो देवता ॥ -वेदिस्तरणम् , पात्रसादनं च -ततो दर्भमुष्टीनां सहबद्धानां ग्रन्धि विस्रस्य ततः प्रस्तराख्यं प्रथम -मुष्टिमादाय तं यजमानाय प्रयच्छेत् । यजमानो ब्रह्मणे प्रयच्छेत् । ब्रह्मा -प्रस्तरं धारयेत् । अथ वा यजमान एव धारयन्नासीत । ततो दमैंः वेदेः -पश्चिमभागमारभ्य आहवनीयस्य पश्चिम भाग यावत् त्रिभिः पञ्चभिवा -धातुभिः वेदिं स्तृणुयात् । यथा वेदे भागो न दृश्येत तथा स्तरितव्यम् । -तत अध्वर्युः ब्रह्मणो हस्तात् प्रस्तरमादाय प्रस्तरपाणिरेव सन परिधीनाह- -वनीयस्य सपश्चिम-दक्षिण-उत्तरभागेपु क्रमशः परिदध्यात् । ततः -आहवनीयमभिमन्व्य प्रज्वलय्य आघारसभिधी गृहीत्वा समिद्धस्तः मध्यम- -परिधिं स्पृष्ट्वा ते राषिधी अग्नेमध्य ऊर्वाग्र स्थापयेत् । ततो वेदेरास्तीर्ण- -बर्हिष उपरि तिरश्चीनावुत्तराग्री द्वौ दमौं (विधृतिसंज्ञकौ) निधाय तदुपरि -प्रागग्रं प्रस्तरं विस्रस्य स्तृणुयात् । तदुपरि च मन्त्रेण जुहूमुपभृतं ध्रुवां -स्रवमाज्यस्थाली च सादयेत् । ततः सादितानि पात्राण्यभिमन्त्र्य पुरोडा- -शयोरुपर्यध्यूढानङ्गारानपोह्य तावभिमन्व्य आज्यस्थालीस्थमाज्यं स्रवेण -गृहीत्वा समन्त्रकमाग्नेयं पुरोडाशं तूष्णीं चाग्नीषोमीयमभिधार्य पात्र्या- -मुपस्तीर्य तत्र पुरोडाशौ स्थापयित्वा अभिधारयेत् । तच्च संस्कार- -स्वात् पुरोडाशयेऽपि पृथक्कार्यम् । ततः व्रीहिमयं समन्त्रकं यवमयश्चेत्तं -तूष्णीं पुरोडाशद्वयं पान्यां स्थापयेत् । स्रवेण आज्यरपृष्टेन कपालानि प्रमृज्य -तेनैव पुरोडाशावजीत । ततस्तावभिमृश्य वेद्यन्तान् परिस्तीर्य होतुरुपवेश- -नार्थ वंदेर्वायव्य कोणे स्थानं परिकल्प्य सामिधेनीभ्यः प्रतिपद्येत ॥ -धातवः शलाकाः । त्रिवारमावृत्ताभिर्दर्भशलाकाभिर्वेदिं स्तृणुयादित्यर्थः । -पश्चिमभागे उदगमः दक्षिणोत्तरभागयोः प्रागग्रौ चेति तिसृषु दिक्षु -परिधयो भवेयुः। -पाच्यां स्रवेण घृतक्षेपणमुपस्तरणम् । पुरोडाशस्योपरि स्त्रवेणैव घृतस्य -क्षारणमभिधारणम् । इमे चोपस्तरणाभिधारणे सर्वेष्वेव चरुपुरोडाशादिषु कठिनद्रव्येषु -हविष्षु कर्तव्ये । -क. - -=============== -036.jpg.txt" -===============" + - -===================================================== - -===================================================== -२४ -यज्ञनत्वप्रकाशे -सामिधेनीकर्म -तत्र प्रथमं होतारं संप्रेष्य रवोपवेशनार्थ कलित आसन उपविष्टेन -होत्रा सामिधेनीसंज्ञकानामृचा पाठे क्रियमाणे अध्वर्युराहवनीयपश्चिमदेशे -प्राङ्मुख आसीन इध्मकाष्ठान्याहवनीये अभ्याध्यात् । होत्रा पठ्यमानाया -ऋचः अन्ते प्रणवोच्चारणकाल एव समिधामाधनं कर्तव्यम् । तत्र ब्राह्मणे -सामिधेनीसंज्ञका ऋच एकादशैव आशाताः । तासां प्रथमाया अन्तिमायाश्च -त्रिनिरावृत्या पञ्चदशसङ्ख्या संपादनीया। तत्र उपान्तिमाम् ऋचमन्तिमा -वा होत्रा पठ्यमानां श्रुत्वा अध्वर्युः स्वहस्तस्थितासु समित्सु अनूयाजार्थमेकां -समिधमवशेष्यावशिष्टानीमकाष्ठान्याहनीये सहैवाभ्याधाय वेदेनाग्नि -त्रिजियित्वा प्रज्वलय्य स्रवेण ध्रुवात आज्यमादाय वेदेनोपयम्य आसीन -एवोत्तरपरिधिसन्धिमारभ्याक्ष्णया अविच्छिन्नामाज्यधारां स्रावयेत् । तत्र -प्रजापतिर्देवता । तं च मनसैव ध्यायेत् । न वाचोचारयेत् । एवं यत्र यत्र -प्रजापतेदेवतात्वं तत्र मनसैव तस्य ध्यानम् । न वाचा तस्योचारणम् । -ततोऽध्वर्युराज्यस्थाल्या आज्यं गृहीत्वा तेन ध्रुवां पूरयित्वा अग्नेः -परिधीनां च संमार्गकरणाय अग्नीधे प्रैपं दत्त्वा तेन तेषां संमागें स्फ्येन -क्रियमाणे दक्षिणेन हस्तेन जुहूं सव्येनोपभृतं चादाय दक्षिणपादं पूर्व -कृत्वा वेदिमतिलध्य दक्षिणदेशमागत्य आहवनीयस्य दक्षिणत -क. -आहवनीयामेर्वायव्यकोणादारभ्य आग्नेयकोणपर्यन्तमग्नेरूर्व संतताम् -(अविच्छिन्नाम् ) आध्यधारां सवेण लावयेत् । अय प्रथमाघार इत्युच्यते । एव -निर्ऋतिकोणादारभ्य ईशानकोणपर्यन्तं तथैव स्रावयेत् । अयं द्वितीयाघार उच्यते । -एवमक्ष्णया करणमेव आपस्तम्बाचार्यमतम् तैत्तिरीयश्रुतिश्च तै. सं. २. ५. ११. ४.1 -See. आप. श्री. सू. १. १४. १. । तौ प्राञ्चावेव कर्तव्याविति केचित् । -ख. कदाचित् वाड्मनसयोः देवेभ्यो हव्यवहनविषये परस्परं कलहः -समजनि। ते उभे अपि निर्णयाय प्रजापतिसमीपमगच्छताम् । प्रजापतिरुभयोर्विवादं श्रात्या -निर्णयमकरोत्-यस्मान्मनसा चिन्तितमेव बाचा वक्तुं शक्यते तस्मान्मन एव श्रेष्ठम् । -वाक् तु मनसो दूतीत्वमेवार्हति-इति । तच्छ्रुत्वा क्रुद्धा वाक् तमशपत्—'हे प्रजापते ! -यस्मात्त्वं मद्विरुद्धं निर्णयमदा: अतो नेतः परं त्वां याचा मन्त्रमुच्चार्य जुहोतु इति । -अत एव प्रजापतिदेवताके कर्मणि वाचा मन्त्रं नोच्चारयन्ति, कि तु मनसैव प्रजापति -ध्यायन्तः तस्मै जुह्वतीति श्रुति: See. I तै. सं. २. ५. ११. ४. एतच्छृतिबलादेव -प्रजापतेर्मन्त्राभाव उक्तः सर्वैरपि सूत्रकारैः । - -=============== -037.jpg.txt" -===============" + - -===================================================== - -===================================================== -दर्शपूर्णमासनिरूपणम् -उदङ्मुखस्तिष्ठन् दक्षिणपरिधिसन्धिमारभ्य ईशानदिक्पर्यन्तं संततामाज्य- -धारां पूर्ववत् स्रावयेत् । अयं द्वितीय आधारः । अत्रेन्द्रो देवता ॥ -प्रयाजाः -एवमाघारद्वयमनुष्ठाय जुहूमुपभृतं च परस्परमसंस्पर्शयन्नेव हस्ते -धृत्वा यथागतं वेदेरुत्तरभागं प्रतिनिवृत्य, जुह्वा ध्रुवां द्विस्त्रिा समज्य, -ध्रुवाया आज्यमादाय जुहूं, जुहा आज्यमादाय ध्रुवां चाभिवार्य ध्रुवां -प्रत्यभिवार्य वेदिमध्ये ते स्थापयित्वोदग्गत्वा ब्रह्माणमामन्य प्रवरकथनाय -आश्रावणं कुर्यात्-'आश्रावय' इति । तत आग्नीध्रेण 'अस्तु श्रौपट्' -इति प्रत्याश्राविते अध्वर्यु)तुरायं ब्रूयात्—'मार्गव वैतहव्य' इत्यादि । -ततो होत्रा यशावदनुष्ठीयमानेषु स्वकर्मसु 'घृतवतीमध्वर्यो स्रचमास्यस्व' -इति यदा मन्त्रैकदेशः पठ्यते तदा अवर्यु हपभृतावादाय वेदैर्दक्षिणदेशं -गत्वा, आश्राव्य आग्नीध्रेण प्रत्याश्रावणे कृते प्रयाजार्थ होतारं प्रति -'समिधो यज' इत्यादिप्रैषं दद्यात् । तत्र पञ्चव प्रयाजाः । प्रतिप्रयाजम् -आश्रावण - प्रत्याश्रावण - प्रैपदान - याज्यापाठा भवन्ति । याज्याया अन्ते -वषट्कार उक्ते आहवनीये होमा भवन्ति । तत्र आश्रावणमध्वर्युकर्तृकम् । -प्रत्याश्रावणमाग्नीध्रकर्तृकम् । याज्यावषट्कारपाठो होतृकर्तृक इति -विवेकः । 'आश्रावय' इत्याश्रावणम्। 'अस्तु श्रौषट्' इति प्रत्याश्रावणम् । -'यज" इति श्रेषः । 'ये यजामहे' इत्यारभ्य निर्दिष्टमन्त्रपाठो याज्यापाठः । -'वौषट्' इति वषट्कारः । आश्रावणप्रत्याश्रावणे अध्वर्युणा आग्नीध्रेण च -तिष्ठद्भशामेव कर्तव्ये । यजतिचोदनाचोदितेपु स्थलेषु होमाश्च । एवं -जुहूस्थेन आज्येन त्रीन् प्रयाजान् हुत्वा चतुर्थप्रयाजार्थमौपभृतस्याज्या -जुह्वां समानीय तेन चतुर्थपञ्चमौ प्रयाजाविष्ट्वा जुह्वां किंचिदाज्यमवशेष्य -तेन वेद्यामासादितौ पुरोडाशौ अभिघारयेत् । एवमेव सर्वत्र -क. होतृप्रवरे ये मन्त्रद्रष्टारः प्रवराध्यायपठिताः त्रयः ऋषयः तेषामत्र -नामग्रहण वत्यन्तशब्देन-'भृगुवद्वीतव्यवत् सवेदोवत्' इति, 'भार्गव वैतहव्यसावेदस' -इत्यादि वा । एतदव आयवरणमित्युच्यते । -ख. समित् , तनूनपात् , इट , बर्हिः, स्वाहाकार इति पञ्चाना प्रयाजानां -नामानि । देवता अपि ता एव चतुर्णाम् । पञ्चमस्य परं तेषु तेषु कर्मसु यक्ष्यमाणाः -प्रधानदेवता: स्विष्टकृदाज्यभागप्रयाजानूयाजदेवता एव । -तत्र 'समिधो यज' इति प्रथमः प्रैषः । 'यज' इत्येवेतरे चत्वारः प्रैषाः। -See. -कात्या. श्री. १. २. ५, ६, ७. -घ. -4 - -=============== -038.jpg.txt" -===============" + - -===================================================== - -===================================================== -२६ -यज्ञतत्त्वप्रकाशे -प्रयाजाज्यशेषेण यागीयप्रधानहवींव्यभिधारयेत् । ततः यथेतं प्रति- -निवृत्यायतने जुहूपभृतावासाद्य ध्रुवातः सुरण आज्यमादाय तेन -प्रस्तरमङ्क्त्वा आज्यभागार्थ हो। प्रैपं दत्त्वा तेन याज्यापुरोनु- -वाक्ययोरुक्तयोः सत्योः आहवनीयाग्नेरुत्तरार्धपूर्वार्धे अग्निदेवतायै -पूर्वमाज्यभागं दक्षिणार्धपूर्वार्धे सोमदेवतायै अपरं च आज्यभागं -जुहुयात् । तत्र सुवेण वाया जाज्यमादायकां दोपनिीतार्थी -बातपतीष्टिस्थानीयाम् आज्याहुतिमाहवनीये हुत्या हस्तौ प्रक्षाल्य -प्रधानयागाननुतिष्ठेत् ॥ -प्रधानयागानुष्ठानम् -तत्र आज्येन जुह्वामुपस्तीर्य आग्नेयस्य पुरोडाशस्य मध्यादङ्गुष्ठ- -पर्वमानं तिर्यक्तया प्रथममवदाय ततः पूर्वार्धात् अनूचीनतया -द्वितीयवारमवदाय जुह्वां क्षिप्त्वोपर्यभिचार्य, वेदिगतं शिष्टं पुरोडाशं -प्रत्यमिधार्य होने औषक दद्यात् । ततस्तेन पुरोनुवाक्यायामनूक्तायाम- -ध्वर्युर्वेदेर्दक्षिणदेशं गत्वा आश्रावणप्रत्याश्रावणे कृत्वा होतुर्वपट्कारान्ते -हविरग्नौ जुहुयात् । -तत्र वषट्कारोच्चारणकाले जुहूगतमाज्यं पूर्व -किञ्चिदग्नौ स्रावयित्वा ततः पुरोडाशखण्डं जुद्वैव अग्नौ प्रक्षिप्य -तदुपरि जुह्वामवशिष्टमाज्यमवश्च्योतयेत् । एवमेव सर्वत्र चरुपुरोडा- -शादिष्वाहुतिकमः । ततः प्रत्याक्रम्य ध्रुवाया वारचतुष्टयं स्रवेण आज्यं -गृहीत्वा जुहूमापूर्य वेदेर्दक्षिणभागे आहवनीयस्य दक्षिणत उदङ्- -मुखस्तिष्ठन् द्वितीयमुपांशुयाजनामकं यागमनुतिष्ठेत् । तत्र आज्यं द्रव्यम् । -विष्ण्वादयोस देवताः । तत्र याज्यापुरोनुवाक्ययोरुपांश्वेव पाठः । -पुनरुत्तरतो गत्वा जुहूमभिधार्य अग्नीषोमीयपुरोडाशादाग्नेयपुरोडाश- -वदवदाय दक्षिणातिक्रम्याग्नीषोमदेवताकं प्रैषादिकं सर्वमनुष्ठाय -पुरोडाशखण्डमग्नीषोमाभ्यां जुहुयात् । अत्र एतावन्तः प्रधानयागाः ॥ -क. 'अग्नयेऽनुब्रूहि' इति पुरोनुवाक्याप्रेपः । 'अग्निं यज' इति -याज्याप्रैपः । -ख. विष्णुः प्रजापतिः अमीषोमौ च देवतात्वे विकल्प्यन्ते । उपाशुयाजोऽ- -यमापस्तम्बीयानां पौर्णमास्यामेव यष्टव्यः । बहुचबौधायनीयकातीयानां तु -सोऽयममावास्यायामपि भवति तत्तत्सूत्रानुसारेण । See कात्या. श्री. सू. -आश्व. श्री. सू. ९. ३.१२. -ट -३.३.२४. - -=============== -039.jpg.txt" -===============" + - -===================================================== - -===================================================== -दर्शपूर्णमासनिरूपणम् -अत्र सर्वत्र यजमानः अग्नौ तत्तद्धविषः प्रक्षेपसमये मनसा -तत्तद्देवतायै तत्तद्रव्यं त्यजन् तदवबोवकं शब्दराशिं च 'अग्नय इदं -न मम' 'इदमग्नये न मम' इत्यादिकं वा वाचोचारयेत् । ततोऽध्वर्युः -प्रत्याक्रम्य वेदेरुत्तरतः उगविश्य लवण पार्वणं होमं जुहुयात् । तत्र -पूर्णमासो देवता । अनन्तरं तत्रैवोपविष्टः सन नारिष्ठसंज्ञकान होमान् -स्रवणैव जुहुयात् ॥ -स्विष्टकृयागः -ततः स्विष्टकृयागः । तदर्थ जुह्वामुपस्तीर्य पूर्व हुतावशिष्टयोद्धयोः -पुरोडाशयोरुत्तरार्धात् सकृत्सवववदाय हात्रे पं" दत्त्वा अध्वर्युदक्षिणाति- -क्रम्य आश्रावणाद्यनन्तरमग्नये स्विष्टकृते जुहुयात् । होमोऽयमना- -वुत्तरार्धपूर्वार्धे कर्तव्यः । ततो यथेतं प्रत्याक्रम्य जुह्वामप आनीयान्तः- -परिधि निनयेत् ॥ -इडाभक्षणादि -ततः प्राशित्र'हरणपात्रमुपस्तीर्य हुताबशिष्टयोः पुरोडाशयोमस्तकं -भक्त्वा तस्माद्यवमात्रं ब्रीहिप्रमाणमात्रं वा भागमवदाय तं सपात्रं -ब्रह्मणे प्रयच्छेत् । स तं हस्तद्वयेन परिगृह्य वेदि गध्ये आस्तरणतृणान्यपोह्य -तत्र सादयित्वा सादितं तमभिवीक्ष्याङ्गुष्ठानामिकाभ्यामङ्गुलिभ्यां तं -भागमादाय दन्तैरसंस्पर्शयन् भक्षयति ॥ तत आचम्येन्द्रियाणि -संमृशति । प्राशित्रपात्रं प्रक्षाल्य पराचीनं निनयति । तत इडापात्रमव- -दायोपस्तीर्य सर्वेश्यो हवियों दक्षिणभागादिडामवदाय तां पात्रे -निक्षिप्य द्विरभिषार्य होने प्रयच्छेत् । ततो होतुर्दक्षिणत आसीनः साज्येन -त्यागो नाम तेपु तेषु द्रव्येषु स्वसम्बन्धनिवृत्तिपूर्वक -देवतासम्बन्धापादक: मानसव्यापारः । तदवोधकः शब्दश्च 'इदमनये न मम' इत्यादिः -कातीयानाम् । 'अग्नय इद न मम' इतीतरेपाम् । -ख. प्रधान यागानन्तरं स्विष्टकृद्यागात्पूर्व क्रियमाणः पार्वणहोमः नारिष्ठ -होमाश्च तैत्तिरीयाणामेव भवन्ति, नान्यशाखिनाम् । शाखान्तरे तद्विध्यदर्शनात् -तन्मन्त्रपाठाभावाच । -'अमये स्विष्टकृतेऽनुब्रूहि अमि विष्टकृतं यज' इति प्रैषस्वरूपम् । -घ. ब्रह्मणे भक्षणार्थ दीयमानस्य हविर्मागस्य कस्यचित् प्राशित्रहरणमिति -क. -अत्र - -=============== -040.jpg.txt" -===============" + - -===================================================== - -===================================================== -यज्ञतत्त्वप्रकाशे -स्रवाग्रेण होतुः तर्जन्यङ्गुलिपर्वणी अभ्यज्य प्रथमम् इडामादाय होतुर्हस्ते -निक्षिपेत् । द्वितीयं होता स्वयमेवापद्य स्वहस्ते निक्षिपेत् । ततो -लेपादिडापात्रस्थात्तदभिधार्य होत्रा इडोपाहाने कृते पात्रस्थाया -इडायाः किञ्चित्किञ्चिदवदाय होत्रे, ब्रह्मणे, अग्नीधे, यजमानाय -च भागशो दत्त्वा तैरसह अध्वर्युरिडां भक्षयेत् । तत आचम्यान्तर्वेदि -मार्जयित्वा आग्नेयं पुरोडाशं गृहीत्वा तं वेद्यां दर्भेष्वासाद्य चतुर्थी -विभज्य इदं ब्रह्मणः, इदं होतुः, इदमध्वर्याः, इदमग्नीध इति यजमानेन -विभक्तव्यादेशे कृतेऽध्वर्युराग्नीध्रस्य भागं द्विरुपस्तरणेन द्विरवदानेन -द्विरभिधारणेन च पडवत्तमाग्नीध्रहस्त एव संपादयेत् । ततः सर्वे ऋविजः -स्वं स्वं भागं भक्षयेयुः ॥ -ऋखिग्दक्षिणा अनूयाजाश्च -तत्र ऋविग्दक्षिणार्थ दक्षिणाग्नौ पुरुषचतुष्टयभोजनपर्याप्त -ब्रीहितण्डुलैरोदनंख पक्त्वोद्वास्य वेद्यामासाद्योत्तरभागे अवस्थितानृविजः -दक्षिणत आगमनाय यजमानेन संप्रेषणे कृते तथा आगतेभ्यस्तेभ्यः -अन्वाहार्याख्यं तमोदनं यथाभागं विभज्य दत्त्वा पुनस्तानुत्तरतः -प्रैषपूर्वकं प्रहिणुयाद्यजमानः । ततो हविश्शेषानुद्वास्थ अग्निपरिधि- -संमागीयाग्नीधे प्रैष दत्त्वा अनूयाजार्थं ब्रह्माणमामन्त्रयेत । तेनानुज्ञातः -अग्नीत् पूर्वमनूयाजार्थमवशेपितामेकां समिधमाहवनीय आधायाग्नीन् -परिधींश्च सकृत् सकृत् संमृज्येध्मसन्नहनोपयुक्तां तृणमयी रज्जुमद्भिः संमृज्य -अग्नौ प्रास्येत् । तत उपभृत्यनूयाजा) पूर्वमवशेषितमाज्यं जुह्वामानीय -जुहूपभृतावादाय दक्षिणातिक्रम्योदङ्मुखः प्रयाजवत् प्रैषादिपु कृतेषु -इद चतुधाकरणमामयपुगडाशस्यव, नाग्नीपोमीयादेः । विकृतिप्वपि -आग्नेययागविकृतिभूतयागसम्बन्धिन एव तस्य तत् ; नान्यविकृतिश्चिा । यज्ञेषु -सर्वत्र इवि.शेपभक्षणं पुंसामेव दरीदृश्यते । न यजमानपन्या अपि स्त्रिया: -कुत्रापि । सत्यपि कर्मसु तस्याः सहाधिकारे हविर्भक्षणेऽधिकाराभावे हेतुं नाभ्यूहितुं -शक्नुमः। -ख. तस्मिन्नेव काले दक्षिणाग्नौ अन्वाहार्यस्य पाकारम्भोऽभिमतः -आपस्तम्बस्य महः । See आप. श्री. ३. ३. १२. -कात्यायनस्तु पूर्वमेव पाकारम्भ कृत्वा पकस्यौदनस्याग्नेकद्वासनं -परमिदानीमभिप्रति । See काल्या. श्री. स . ३. ४. २७-२९ -क. - -=============== -041.jpg.txt" -===============" + - -===================================================== - -===================================================== -दर्शपूर्णमासनिरूपणम् -त्रीननू याजान् वषट्कृते जुहुयात् । तत्र याज्याया आदौ " ये यजामहे" -इति न वक्तव्यम् । केवलं याज्यां पठित्वा तदन्ते वपकुर्यादिति -विशेषः । ततः प्रत्याक्रम्य आयतने जुहूपभृतौ सादयित्वा ते व्यूहेत् । -व्यूहनं विविधं संचालनम् । ततः प्रस्तरमुपाधाय आज्यलिप्तेषु पात्रेषु -तमळ्यात् । तत्र जुबामग्रम् , उपभृति मध्यं, ध्रुवायां मूलं च प्रस्तर- -स्याङ्ग्यात् । एवं त्रिरत्वा ततस्तृणमेकमपादाय पृथनिक्षिप्य -दक्षिणोत्तराभ्यां पाणिभ्यां प्रस्तरं गृहीत्वा प्रस्तरमूलं जुह्वां प्रतिष्ठाप्य -आश्रावणादिषु कृतेषु होतारं प्रति सूक्तवाकपठनाय औषण दत्त्वा तेन -सूक्तत्राकानुवाके पठ्यमाने प्रस्तरमाहवनीये प्रहरेत् । प्रहरणं -प्रक्षेपणम् । ततः पूर्वमपात्तं तृणमग्नौ प्रक्षिप्य तन्निर्दिश्य "शंयुवाकाय -होने औपं दत्त्वा तेन तस्मिन्ननूच्यमाने आहवनीये परिधीन् प्रहृत्य -संस्रावसंज्ञक होमं कुर्यात् । अत्रैव ऋत्विजः पूर्व तेभ्यो -दत्तान् पुरोडाशादि हविश्शेषं भक्षयेयुः ॥ --- -पत्नीसंयाजादिकम् -ततः अध्वर्युर्जुहूरभृत्सवगतानाज्यलेपानुष्णेन वारिणा प्रक्षाल्य -पात्राणि तान्यादाय गार्हपत्याग्नेः समीपं गच्छेत् । वेदं होता, -स्फ्यमाज्यस्थालीमुदकमण्डलुं चाध्वर्युः गृहीत्वा तत्रैव गच्छेताम् । -ततो गार्हपत्यस्य पश्चिमदेशे दक्षिणतोऽध्वर्युरुत्तराभिमुखः उत्तरत -आग्नीध्रो दक्षिणाभिमुखो मध्ये होता पूर्वाभिमुखश्चेत्येवं प्रकारेणोप- -विश्याच्चैरुपांशुस्वरेण वा आज्यद्रव्येण पत्नीसंयाजाख्यान् कांचन -होमान् कुर्युः । तत्र प्रैषाश्रावणप्रत्याश्रावणेषु पूर्ववदेव कृतेषु -अध्वर्युर्गार्हपत्यस्योत्तरार्धे जुहुयात् । तत्र सोमः, त्वष्टा, देवपत्न्यः, -राका, सिनीवाली, कुहू', अग्निहपतिरिति देवताः । तत्र राकादीनां -तिसृणां होमा नित्याः काम्याश्च । इतरेषां नित्या एव । तत्र सर्वत्रोद्देश- -तत्र देवं बर्हिः, देवो नराशस:, देवोऽग्निः स्विष्टकृत् इति क्रमेण -त्रयाणामनूयाजानां देवताः । -ख, "इपिता दैव्या होतारो भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता -ब्रूहि" इति सूक्तवाकप्रैषः। -"स्वगा दैव्या होतृभ्यः स्वस्तिमानुषेभ्यः शंयुवाकाय शंयोब्रूहि -इति शंयुवाकप्रैषः । -क. -. - -=============== -042.jpg.txt" -===============" + - -===================================================== - -===================================================== -यज्ञतत्त्वप्रकाशे -त्यागो यजमानेन पन्या चेत्युभाश्यां कर्तव्यः । एवं *हुतानुमन्त्रणमपि । -ततः पुरोडाशादौ कृतेडाहानभक्षणादिवदाज्येडायामपि मर्वं कुर्यात् । -ततः स्रवेण संपलीयहोमः । ततो दक्षिणाग्नाविष्मणप्रत्रश्चनान्याधाय -जुह्वां चतुर्ग्रहीतमाज्यं गृहीत्वा तत्र फलीकरणानोप्य" तेन जुहुयात् । -ततः पूर्वगृहीत आज्ये रिष्टलपान्य प्रक्षिप्य तेन होमचतुष्टयं कुर्यात् । -ततो होतरि वेदं वित्रस्य तदीयतृणैर्वेदि पश्चिमत आरभ्य प्राचीन -यावदाहवनीयं समयां स्तृण्वाने सति पत्नी स्वकटितः योक्त्रं विमुच्य -स्वाञ्जलौ स्थापयेत् । तदा तस्या अअलौ जुहगतमुदकमध्वर्युरासिश्चेत् । -सा तदुकं भूमौ विसाव्याट्टैण हस्तेन स्वमुखं विमृज्योत्तिष्ठेत् । -एतावत्पर्यन्तं पत्नीकर्म ॥ -होतानि स्तरणावशिष्टानि वेदितृणानि भूमी -भूमौ निधाय -आहवनीये स्रवेण हुत्वा संस्थाजपाख्येन मन्त्रेणोपस्थाय निस्सरेत् । -एतदन्तं होतुः कर्म । ततोऽध्वर्युराहवनीयसमीपं गत्वा जुला -सुवेण वा बह्वीः प्रायश्चित्ताहुतीर्जुहोति । तदन्ते ध्रुवाया आज्यं -गृहीत्वा समिष्टयजुःसंज्ञकं होमत्रयं कुर्यात् । तन्मध्य एव -वेद्यामास्तीर्णानि सर्वाणि बहीष्यादाय आहवनीये प्रक्षिपेत् । ततो वेदिमध्ये -प्रणीता अप आसाद्योत्करे उपवेषं निरस्य कपालानि पुरोडाशश्रपणार्थ- -मुपहितानि पृथक्वात्य सङ्ख्यायोद्वासयेत् । एतावदाध्वर्यवं कर्म ॥ -याजमानम् -यजमानस्तु यज्ञसंकल्पप्रभृति ब्रह्मचर्यादीन् नियमान् धारयेत् । -दक्षिणार्थ द्रव्यं प्रकल्पयेत् । प्रधानकर्मणः फलस् । यद्यङ्गेष्वपि फलेच्छा -अत्र आदित आरभ्य आन्तं प्रधानहोमेम्वङ्गहोमेषु चाध्वर्युणा -तत्तद्धोमानुष्ठानसमनन्तरमेव यजमानेन पठनीयतया केचन मन्त्रा विहिताः । ते -अनुमन्त्रणमन्त्रा इत्युच्यन्ते । यथा---अग्नेरहं देवयज्ययानादो भूयासम्, सोमस्याहं -देवयज्यया पशुमान् भूयासमिति । -ख. येभ्यः पलाशादिकाष्ठेभ्यः इध्मकाष्ठानि च्छिन्नानि अग्रतः तेषामधस्तना -भागा इध्मप्रवश्वनानीत्युच्यन्ते । -ग. तण्डुलानां द्वितीयावहननकाले तेभ्यो निस्सृताः अतिसूक्ष्माः त्वचः -फलीकरणानीत्युच्यन्ते । पिपलपफलीकरणयोश्चतुगृहीते आज्ये विकल्पेन प्रक्षेपमि- -च्छति देवयाशिकः । अत्र विश्वे देवा देवता । -घ. पिष्टानां संयवनकाले योऽश: पात्र लिप्तः स पिष्टलेपः । -क. - -=============== -043.jpg.txt" -===============" + - -===================================================== - -===================================================== -३१ -दर्शपूर्णमासनिरूपणम् -तर्हि यत्र यत्र यादृशं फलं निर्दिष्टं तस्य तस्य कामना, आत्मगामि -फलबोधकमन्त्राणां पठनं, संकल्पात् पूर्वमेव क्षुरकर्म, सर्वेष्वपि कर्मसु -द्रव्यत्यागयुक्तेषु तत्तद्देवताभ्यो गनसा तत्तद् द्रव्यस्य त्यागः, यत्र -यजमानं वाचयति तेषां सर्वषां मन्त्राणां पठनं, यदा यदा अध्वर्या- -दिभिः प्रैषो दीयते तदनुरोधेनानुष्ठानं, कचित् यज्ञियानां हविषां -विध्यनुरोधेनाभिमर्शनम् , अनुमन्त्रणगन्त्राणां सर्वेषां पाठः, तत्तद्धवि. -भक्षणम् इत्यादिकं कृत्वा अन्ते यज्ञविमोकं कुर्यात् । इष्टिपश्चादौ -अन्ते गोमतीजपं यज्ञसंचमे इति मन्त्रं जपित्वा यज्ञं विसृजेत् -इत्येतदन्तं याजमानम् ॥ -॥ इति पौर्णमासयागः ॥ -अथ दर्शयागे विशेषाः -तत्र आग्नेयपुरोडाशयागः ऐन्द्रो दविद्रव्यको यागः ऐन्द्र एव -च पयोद्रव्यको याग इति यागत्रयमित्युक्तम् । तत्र दधि पयश्च -वक्ष्यमाणेन विधिना पृथक् पृथक् संपाद्य यागकाले उभौ संमेल्य -सकृदेव द्वयोर्यागः क्रियते । अत एव दधिपयसोर्मिलितयोः -सान्नाय्यमिति संज्ञा याज्ञिकानाम् । तद्रव्यको यागः सान्नाय्ययागः । -तत्र आग्नेयो यागः पौर्णमास्यां यथा कृतः तथैव सः तदङ्गानि च -अमावास्यायामनुष्ठीयेरन् । आग्नेययागस्वरूपं तु पौर्णमासप्रकरणे सम्यगुक्तं -तत एव अवगन्तव्यम् । सान्नाय्यसम्बन्धिनो ये विषयाः ते तदनुष्ठान- -प्रकारश्च परमत्र निरूप्यन्ते ॥ -वत्सापाकरणम् -अमावास्यायां प्रातः कृतस्नानसन्ध्यादिनित्यक्रियः प्रातरग्निहोत्रं -हुत्वा तानग्नीन् परित्यज्य (कुण्डेभ्यो बहिनिष्कास्य) पुनः गार्हपत्यात् -क. श्रुतौ दधियागस्वरूपं पयोयागस्वरूपं च पृथक् पृथगेव विहितम् । -परं तयोरेकदेवताकत्वात् दधि पयश्च मेलयित्वा सकृदेवानुष्ठानं शास्त्रकारविहितम् । -सूत्रकारैश्च तदेवानुमोदितम् । तस्माद्दधिपयोयागयोः सहानुष्ठानेऽपि गणनायां -द्वित्वमेव । अतो दर्श त्रयो यागा इत्येव शास्त्रकाराः । सोमयाजिन एव च -सान्नाय्ययागानुष्ठानेऽधिकार इत्येकं मतम् । तदा असोमयाजिना (हविर्याजिना) -तयोः स्थाने ऐन्द्राग्नः पुरोडाशद्रव्यको यागः कर्तव्यतया विहितः । हविर्याजिनोऽपि -सानाय्येऽधिकारोऽस्तीत्यपरम् । - -=============== -044.jpg.txt" -===============" + - -===================================================== - -===================================================== -३२ -यज्ञतत्त्वप्रकाशे -तूष्णीमग्नीन् प्रणीय पौर्णमासवत् तेष्वन्वाधानं कृत्वा वत्सापाकरणार्थ -शाखाहरणं कुर्यात् । तत्र विहारात् (यज्ञानुष्ठानस्थानात् ) प्राची गत्वा -शमीवृक्षस्य पलाशवृक्षस्य वा बहुपर्णा बह्ववान्तरशाखामाहृत्य शाखां -तया शाखया स्वगृहस्थितान् पड्गोवत्सान् स्वमातृभ्यः पृथक् कृत्य गाः -चरणाय गोचरं प्रदेश वनं वा प्रेपयेत् । तां च शाखामग्न्यगारे -सुरक्षितामुपरि स्थापयेत् । ततो दर्भाहरणं कुर्यात् । तत्प्रकारः -पौर्णमासयागवत् । ततोऽपराले पिण्डपितृयज्ञोऽनुष्ठेयः । स चाग्रे -वक्ष्यते । सायंकाले यथासुखं चरित्वा गृहमागतासु गोपु यजमानः -स्वयमेव सायमग्निहोत्रं कुर्यात् । तच्च यवाग्वैव कर्तव्यम् ; न -दध्यादिना । अग्निहोत्रावशिष्टां यवागू दध्यातञ्चनार्थमवस्थापयेत् । -ततोऽध्वर्युरनीन् परिस्तीर्य "सान्नाय्यपात्राणि प्रक्षाल्य आहवनीयस्योत्तरतः -आस्तृतेषु दर्भेषु तान्यधोमुखानि प्रयुज्य अग्निहोत्रहवण्यां जलमुत्पूय -पात्राण्युपरिमुखानि कृत्वा, उत्पूतेन जलेन तानि प्रोक्ष्य दोहनकुम्भी -शाखापवित्रं पयःपणकुम्भीमुपवेषं चाहवनीये निष्टप्य आहवनी- -यादगारान् किंचिदिव बहिः कृत्वा तदुपरि अपणकुम्भीमधिश्रित्य -तां परितः प्रताप्य तत्रैव स्थापयित्वा वाग्यतः यथाविधि यजमानस्य -तिम्रो गाः पदुग्ध्वा तत्पयः कुम्भ्यां (श्रपणार्थायां) निनयेत् । ततो -वाग्विसर्जनं कुर्वन् तिस्रः ततोऽप्यधिका वा (यद्यधिका गावो -यजमानगृहे दोहनयोग्याः स्युः) गाः मन्त्रं विना दुग्ध्वा तदपि दुग्ध -प्रतप्तायां तस्यामेव कुम्भ्यां प्रक्षिप्य तत्पयः सुभृतं कुर्याद- -स्वस्वमात्रा सहावस्थितानां गोवत्सानां स्वमातृभ्यो वियोज्य -पृथगवस्थापनं वत्सापाकरणम् । -क. -ख. इदं च शाखाहरणं यज्ञारम्भदिनात् पूर्वदिने द्वित्रेभ्यो दिनेभ्यः पूर्व -वा तूष्णीं कृत्वा शाखां गृहेऽवस्थापयन्ति । कर्मानुष्ठानदिने तत्काले मन्त्रपाठमानं -कुर्वन्ति । तावतैव च कर्मसिद्धिं मन्यन्ते याशिकाः । -ग. एतेषां पात्राणां विवरणमन्ते कृतम् । तदवलोकनीयम् । -घ. दोहनमिदमध्वर्युरेव कुर्यात् । अथ वा अन्यः कश्चिदुह्यात् । -शूद्रस्तु परं सर्वथा न दुयादिति श्रुतिः, सोऽपि दुह्यादिति सूत्रकाराः आपस्तम्बादयः -See आप. श्री. सू. १. १२. १५. शूद्रं पर्युदस्थति कात्यायनः See कात्या. -श्री. सू. ४. २. २२. - -=============== -045.jpg.txt" -===============" + - -===================================================== - -===================================================== -दर्शपूर्णमासनिरूपणम् -विष्यन्दयन् । शृते पयसि कुम्भी प्राग्देशे उदग्देशे वोद्वास्य किञ्चिदि- -वापगतोष्ण्यायां तस्यां लौकिकं खदध्यासिच्यायस्पात्रेण दारुपात्रेण -वा कुम्भ्याः मुखं पिधाय तामुपरि शिक्ये निदध्यात् । तदिदमातञ्चन- -मित्युच्यते । ततो यजमानः कटाद्यास्तृतायां भूमौ शयीत जागृयाद्वा । -एतावदमावास्यादिनकृत्यम् ॥ -शुक्लप्रतिपदिनकृत्यम् -श्वोभूने सूर्योदयालागेवोत्थाय कृतस्नानादिरध्वर्युः कौरभेत । -पूर्वदिनवद्वत्सापाकरणम् । पात्रसंसादनकाले दोहनोपयुक्तानि पात्राणि -प्रयुज्यात् । पुरोडाशश्रपणाय कपालोपधानानन्तरं सायंदोहवत्प्रातर्दोहं -कुर्यात् । हविःपर्यग्निकरणकाले सायं दोहस्य दनोऽपि पर्यनिकरणम् । -हविरभिमर्शनकाले दोहयोरप्यभिमर्शनम् । हविरासादनकाले पुरोडाश- -स्योत्तरतो दोहयोरासादनम् । अभिधारणकाले पुरोडाशाभिघारणानन्तरं -दधिपयसोरभिधारणम् । प्रधानयागकाल आग्नेयेन पुरोडाशयागेनेष्टा -जुह्वामुपस्तीर्य सायं दोहाद्दनः स्रवेण द्विरवदाय ततः प्रातोहात्पयसः -स्रवेणैव जुबामेव दना सहैव द्विरवदाय (एतद्वा विपरीतम् ) उपर्य- -मिघार्य आश्रावणप्रत्याश्रावणादि इन्द्राय महेन्द्राय वा कृत्वा -ख. -.. -क. कुम्भीगनं पयः तापकाले तापाधिक्येन बहिरागत्य यथा न पतेत् -तथाकरणमविष्यन्दनम् । तथा कुर्वन् । -अत्र दना सह (सायमग्निहोत्रावशिष्टा यवागूः दुग्धे प्रक्षेपणीया) बीहयः -पूतीकाः (सोमसदृशा लताः) बदरीफलानि पलाशकाष्ठत्वचश्च विकल्प्यन्ते । -बौधायनः परं दनैव आतञ्चनं विदधाति । नान्यद्रव्येण । अत्रापि दर्भाहरण- -वद्याशिकाः लौकिकमेव दधि पयश्च पूर्वमेव आहृत्य कर्मानुष्ठानकाले तदङ्गभूतमन्त्र- -पाठमानं कुर्वते । एवं ब्रीह्यवहननतण्डुलपेषणादावपि पूर्वसिद्धेष्वेव मन्त्रपाठमानं -कुर्वन्ति । तत्र च प्रमाणतया सांप्रदायिकं श्लोकमुदाहरन्ति । -छिन्ने पिष्टे तथा लूने सान्नाय्ये मार्तिके तथा । -पश्चान्मन्त्राः प्रयोक्तव्या मन्त्रा यज्ञार्थसाधकाः ॥ इति ॥ -१. अभिमर्शनं याजमानम् । एवमेव स्वकाले प्राप्तं तत्तदनुमन्त्रणम्- -त्यागमन्त्रपठनान्वारम्भहुतानुमन्त्रणध्यानेडाभक्षणयजमानभागप्राशनजपविष्णुक्रमणोप - -स्थानादिकं सर्वं तत्तत्काले यजमानो यथावदनुतिष्ठेत् । पल्यास्तु सर्वत्र सहभाष एव । -5 - -=============== -046.jpg.txt" -===============" + - -===================================================== - -===================================================== -यज्ञतत्त्वप्रकाश -(सोमयाजिनः संवत्सरं यावदिन्द्रो देवता, तत ऊर्ध्वं महेन्द्रो देवता) -वषट्कारान्ते जुहुयात् । द्वयोर्द्रव्ययोदधिपयशोः संमिश्रितत्वात -सकृदेव होम उद्देशत्यागश्च ॥ -ततः पार्वणहोमोऽमावास्यादेवताकः । ततः स्विष्टकृयागकाले -तदर्थं दधिपयसोरपि सकृत्सकृदवदानम् । इडावदानकाले पुरोडाशावदा- -नानन्तरं दधिपयसोरप्यवदानम् । सूक्तवाकमन्त्रपठनकाले 'अग्निरिदं -हविरजुषत' इत्यनन्तरम् 'महेन्द्र इदं हविरजुपत' इति 'इन्द्र इदं हविरजुपत' -इति वा होत्रा प्रयोक्तव्यम् । प्रस्तरस्याग्नौ प्रहरणकाले पलाशशाखया -सह प्रहरणम् ॥ -एतावन्त एवामावास्यायां विशेषाः । अन्यत्सर्वं पौर्णमासी- -वदनुष्ठेयमिति वेदितव्यम् ॥ -दर्शश्च पूर्णमासश्च यस्य रूपं परात्मनः । -तं वन्दे यज्ञतपसां भोक्तारमपराजितम् ॥ -॥ इति दर्शपूर्णमासौ॥ -२. -यज्ञियपात्राणां द्रव्याणां च दार्शपौर्णमालिकानां -स्वरूपं लक्षणं चोच्यते सुखावबोधाय-- -१. सुत्रः-खादिर, अङ्गुष्ठपर्ववृत्तगतः, पर्वार्धवातः, अरनि- -परिमाणः । -स्फयः-खादिरः खड्गाकृतिः, अरनिमात्रः । -३. जुः-- मूलदण्डा त्वक्तोबिला, हंसमुखसदृशैकप्रणालिकायुता -प्रादेशार्थपुष्करा तावत्खाता, पलाशकाष्ठनिर्मिता । -उपमृत्-मूलदण्डा त्वतोविला हंसमुखसदृशैकप्रणालिकायुता -प्रादेशार्धपुष्करा तावत्खाता, अश्वत्थकाष्ठनिर्मिता । -५. ध्रुवा-खतोबिला हंसमुखसशैकप्रणालिकायुता प्रादेशार्ध- -पुष्करा विककृतवृक्षनिर्मिता। -६. अग्निहोत्रह्मणी- त्वतोबिला, इंसमुखसदृशैकप्रणालिकायुता -प्रादेशार्धपुष्करा तावत्खाता वैककती। - -=============== -047.jpg.txt" -===============" + - -===================================================== - -===================================================== -यज्ञपात्राणि -३५ -७. अग्निहोत्रभुवः-स्रववत् हंसमुखसदृशैकप्रणालिकायुतो वैकङ्कतः । -उलूग्वलम्-अर्थलक्षणं वरणकाष्ठनिर्मितम् । -मुसलम्-अर्थलक्षणं वरणकाष्ठनिर्मितम् । -खादिरं मुसलं कार्य पालाशः स्यादुलूखलः । -यद्वोभी वारणौ कार्यों तदभावेऽन्यवृक्षजौ ॥ -१०. कूर्चः- --बाहुमात्रः पीठाकारः । -११. इडापात्री--अरनिमात्री चतुरङ्गुलदण्डा मध्यसङ्ग्रहीता, न वा, -चतुरङ्गुलपरिणाहवती। -१२. पुरोडाशपात्री-प्रादेशमात्री समचतुरश्रा षडङ्गुलवृत्तखातवती । -१३. शम्या--बाहुमात्री पद्मकोशवत् पृथुतीक्ष्णाग्रमुखा (गदावत्) । -१४. उपवेषः-प्रादेशमात्रः पलाशशाखातः कृत्तः । -१५. प्राशिवहरणम् -गोकर्णाकृति । -१६. शूर्पम्--वैणवं यथेच्छपरिमाणम् । -चमसः-व्यङ्गुलदण्डः चतुरङ्गुलोच्छ्रायः षडङ्गुलविस्तारः -प्रादेशमात्रो वरणकाष्ठनिर्मितः । (अप्प्रणयनार्थः) । -१८. योक्त्रम्-मुआनिर्मितम् (पन्याः कट्यां बन्धनार्थम्) । -१९. मदन्तीपात्रम्--पितलमयम् , संयवनार्थानामपामुष्णीकरणाय । -२०. मेक्षणम्---वरणवृक्षनिर्मितं पिष्टसंयवनार्थमरनिमात्रम् । -२१. अन्याहार्यस्थाली--पुरुषचतुष्टयभोजनपर्याप्तान्नपचनयोग्य तानं -पैत्तलं वा पाकपात्रम् । -२२. पिटलेपपात्रम् ---वरणवृक्षनिर्मितम् । -२३. फलीकरणपात्रम्-~-वरणवृक्षनिर्मितं प्रादेशमात्रम् । -२४. शकट:-लौकिकशकटाकार एवार्थलक्षणः । -२५. कपालानि-एकोनविंशतिः स्फुटितभाण्डावयवभूतानि वर्तुलानि, -चतुरश्रार्धचतुरश्राणि वा। -२६. इमकाष्ठानि-यज्ञियवृक्षकाष्ठानि चाग्नीन्धनार्थम् । -२७. कुशा:-वेद्यास्तरणपवित्रकरणपरिस्तरणार्थाः । -२८. अध्वर्युब्रह्मयजमानानामासनानि दर्भमयानि दारवाणि वा। -H - -=============== -048.jpg.txt" -===============" + - -===================================================== - -===================================================== -३६ -यज्ञतत्त्वप्रकाशे -२९. व्रीहयो यवा वा--पुरोडशप्रकृतिभृताः । -३०. आज्यम्--गव्यं माहिपम् , आजं वा । -३१. यवागू:-~~-अग्निहोत्रार्थी आतञ्चनार्थी च । -३२. कृष्णाजिनम्-उलूखलस्याधस्तादास्तरणाय । -सान्नाय्यपात्राणि-- -१. कुम्भी--मृन्मयी पयश्श्रपणार्थी अर्थलक्षणा । -२. दोहनपात्रम्-अर्थलक्षणं दारुमयम् । -३. अभिधानी---गोबन्धनी रज्जुः अर्थलक्षणा । -४. निदाने---दोहनकाले गोपादबन्धनार्थी वत्सबन्धनार्था च रज्जू । -५. पिधानपात्रम्-कुम्भीमुखपिधानार्थम् अयसा निर्मितमर्थलक्षणम् । -६. शिक्यम्-मुखतृणनिर्मितमर्थलक्षणम् दधिपात्रनिक्षेपणार्थम् । -७. यजमानभागदधिपयोनिक्षेपणार्थे यज्ञियवृक्षनिर्मिते द्वे पात्रे । -८. पलाशशाखा-वत्सापाकरणार्थी शमीशाखा वा तदर्था । -॥ इति दार्शपौर्णमासिकानि द्रव्याणि पात्राणि च ॥ -पिण्डपितृयज्ञः -पिण्डपितृयज्ञ इदानीं निरूप्यते--स च आहिताग्निना अमा- -वास्यायामपराह्णात् परं सायङ्कालेऽनुष्ठयः । स दर्शाङ्गमिति कात्यायनः । -न दर्शाङ्गं स्वतन्त्रमिदममावास्याकालेऽनुष्ठेयं कर्मेति जैमिनिः -(पू. मी. ४. ४. ८.) । अनङ्गत्वमेव तु युक्तम् । अन्यथा दर्शविकृति- -ध्वतिदेशेन प्राप्तिः केन वार्येत ॥ -तदनुष्ठानप्रकार इत्थम्--अमावास्यायां सायङ्काले सङ्कल्पः । -ततस्समूलं बर्हिराहृत्य परिस्तरणार्थान् कुशान् सकृच्छित्वा दक्षिणार्मि -परिस्तीर्य तदक्षिणतो दर्भानास्तीर्य तदुपरि पिण्डपितृयज्ञोपयुक्तानि -पात्राणि सादयित्वा प्रोक्ष्य दक्षिणतो व्रीहिमच्छकटमवस्थाप्य ततो -१. पिण्डयुक्तः पितृयज्ञ इति विग्रहः । अत्र होमानन्तरं पितॄनुद्दिश्य -पिण्डदानविधानात् तत्त्वम् । - -=============== -049.jpg.txt" -===============" + - -===================================================== - -===================================================== -पिण्डपितृयज्ञः -३७ -व्रीहीन् पितृभ्यो निरूप्य दक्षिणाग्नेः पश्चिमतः कृष्णाजिनमास्तीर्य -तदुपर्युलूखलं प्रतिष्ठाप्य निरुतान् ब्रीहीन् तत्र आवपेत् । ततो -यजमानपत्नी तानवहत्य सकृत्फलीकृत्य सकृत्प्रक्षाल्य दक्षिणामो -पचेत् । भक्तपु यथा तण्डुलांशः किश्चिदिवावशिष्टो भवेत् तथा -पाकः कार्यः । ततो दक्षिणाग्नराग्नेयकोणे स्फयेन रेखामाग्नेयाभिमुखी -कृत्वा तां सकृदान्छिन्नेस्तृणैरास्तीर्य पक्कमन्नमभिघार्य तस्यां वेद्यामासाद्य -ततो मेक्षणेन जुहस्थानीयेन हविरवदाय सशेपं दक्षिणानौ जुहुयात् । -तत्र सोमः पितृपीतो देवता । तं शेषं पात्रान्तरे स्थापयित्वा पूर्ववत्पुन- -मैक्षणेन अवदाय दक्षिणाग्नावेव सशेपं जुहुयात् । अत्र यमोऽङ्गिरस्वान् -पितृमान् देवता । ततश्शेपद्वयमेकीकृत्य मेक्षणेऽवधाय जुहुयात् । -तस्विष्टकृत्स्थानीयं भवति । तत्र अग्निः कव्यवाहनो देवता । -एतदन्तमाध्वयंवम् ॥ -इतः परं याजमानं कर्म । अथ यजमानः प्राचीनावीती -दक्षिणानेरेकमुल्मुकं धूमविशिष्टं सव्यहस्ते गृहीत्वा आग्नेयकोणे -सकृदुल्लिख्य अवोक्ष्य उल्लिखितान्तस्थले तमुल्मुकं निक्षिप्य उल्लेखस्थाने -त्रीनुदकालीन् पितृपितामहप्रपितामहेभ्यो दत्त्वा तदुपरि त्रीन -पिण्डान् तेभ्य एव दत्त्वा मन्त्रेण पित्रादीन् त्रीनुपस्थाय स्थालीस्थं -शेपमवघ्राय पुनः पूर्ववन्मार्जयित्वा, अञ्जनाभ्यञ्जनवासांसि पित्रादीनां -कृते पिण्डस्योपरि दत्वा पितृनुपस्थाय स्वस्थानं गमयित्वा मध्यम पिण्ड -स्वपत्न्य प्रजाकामायै भक्षणाय दत्त्वा स्वयमप्येकं पिण्डं भक्षयित्वा -अवशिष्टान् पात्रे निक्षिप्य कुशानग्नौ प्रक्षिप्य उल्मुकमपि दक्षिणानावेव -पुनः प्रत्यस्य पात्राणि प्रोक्ष्य गृह्णीयात् ॥ -॥ इति पिण्डपितृयज्ञः॥ -पिण्डपितृयज्ञोपयिकानि द्रव्याणि पात्राणि च -१. ब्रीहयश्चर्वीः । -२. उदकं श्रपणाद्यर्थम् । -३. आज्यं होमाद्यर्थम् । -४. तिनः समिधः । -५. सकृदाच्छिन्नाः कुशाः । - -=============== -050.jpg.txt" -===============" + - -===================================================== - -===================================================== -यज्ञतत्त्वप्रकाशे -६. शय्या (कशिपु)। -५. उपबर्हणम् । -८. अञ्जनम् (अक्ष्णाः)। -९. अभ्यजनार्थ तैलग् । -१०. उदकुम्भः। -११. परिहितवारासो दशा, अजलोम वा। -(शय्यादीनि षट् पिण्डोपरि पितृभ्यो देयानि ।) -१२. स्फयः रेखाकरणाद्यर्थम् । -१३. स्थाली हविःपाकार्था । -१४. मेक्षणं होमाद्यर्थ दर्वीस्थानीयम् । -१५. कृष्णाजिनं भूमावास्तरणार्थम् । -१६. उलूखलम् अवहननार्थम् । -१७. मुसलम् -१८. आज्यस्थाली आज्यग्रहणार्था । -१९. मृन्मयं पात्रं हविनिर्वापार्थम् । -२०. शूर्प परापवनार्थम् । -२१. शकटः हविराहरणार्थः । -निरूढपशुबन्धः -अथ निरूढपशुबन्धः । अयं पशुयागः आहिताग्निना प्रतिसंवत्सरं -कार्यः । तत्र सकृत् , द्विर्वा, षड्वारं वा । यदि सकृत् , वर्पतौं ; यदि द्विः, -उत्तरायणदक्षिणायनयोरारम्भे; यदि पट्कृत्वः ऋतावृतौ । तत्राप्यमावा- -स्यायां पूर्णिमायां वा अनुष्ठानम् । पशुयागस्यास्य निरूढपशुबन्ध इति संज्ञा -याज्ञिकानाम् । आहिताग्निस्सन् संवत्सरे सकृदवश्यमिमं यागमनुतिष्ठेत् । -अन्यथा प्रत्यवायी स्यात् । यावजीवं चैवमनुष्ठानम् । अस्य ब्राह्मणग्रन्थेषु -कुत्रापि स्वातन्त्र्येण प्रयोगविधानं न दृश्यते ॥ -सर्वेषां पशुयागानां प्रकृतिभूतोऽग्नीषोमीयः पशुयागः । स -सोमयागाङ्गभूतस्तदङ्गमध्ये पठितः । तत्रैव च सर्वेषां पश्वङ्गानाम् -आम्नानमस्ति । तत एव च धर्मा (अङ्गानि) निरूढपशुबन्धेऽस्मि. -नतिदेष्टव्याः । शास्त्रकाराणामाशयोऽप्येवमेव । परं सर्वेऽपि श्रौत- -१. : अविशेषेणेममेव पशुयागं साङ्गं निरूपयन्ति । एतस्मादेव -v. - -=============== -051.jpg.txt" -===============" + - -===================================================== - -===================================================== -निढगशुबन्धः -३९ -1 -चाग्नीपोमीये धर्मानतिदिशन्ति । तव च कारणम्-हवियज्ञत्वेनास्य -सोमाङ्गभूतात्रीगोमीयपयोः पूर्वगनुष्ठेयतया पूर्वानुष्ठेय एव सर्वाङ्गसाहित्येन -निरूपणीय इति । तदनुसारेणेवास्माभिरपि साङ्गोपाङ्गोऽयमेव निरूप्यते ॥ -अत्र पशुः छागः । सोऽपि न साक्षात् । किं तु वपाहृदयाद्य- -गद्वारैव । देवता इन्द्राग्नी, सूर्यः, प्रजापतिवी । पट् ऋत्विजः-अध्वर्युः, -प्रतिप्रस्थाता, होता, मैलावरुणः, (प्रशास्ता) ब्रह्मा, अग्नीच । तल -प्रतिप्रस्थाता अध्वयोरनन्तरतत्सहायभृतः । मैत्रावरुणो होतुः । -इष्टिषु होमकाले पठनीयाः पुगेनुवाक्या याज्याश्च होत्रा एकनैव -पठ्येरन् । पशुयागे न पुरोनुवाक्या मैत्रावरणेन वक्तव्याः । तदर्थमेव -तत्र तस्य वरणम् । याज्यास्तु होत्रा । श्रेषा अपि मैत्रावरुणेनैव । -अग्रे सोमयागादौ अस्मिन्नेव कार्ये नियुज्यते सः ॥ -पशुयागमारभमाण। आदावानावैष्णवेप्टिमिटितन्त्रेणानुष्ठाय -तत आहवनीये यूपाहुतिसंज्ञकाकामाहुति हुत्वा यत्र यूपा) वृक्षोऽस्ति -तत्र अध्वर्युब्रह्मयजमानाः तक्षा च गच्छेयुः । गत्वा च साक्षादेव -भूसम्बद्धं बहुपणं सुपिरादिदोपरहितं , पलाशखदिरबिल्वरोहित. -कानामन्यतमं वृक्षं तक्ष्णा छेदयित्वा स्वयं वा छित्त्वा छेदनस्थाने -भूमिष्ठवृक्षखण्डे स्थाण्याहुति हुत्वा यावत्परिमाण ऊर्ध्वबाहुर्यजमानो भवति -तावत्परिमाणमवशेष्य, अवशिष्टसुपरिभागं छित्त्वा प्रास्येत् । स वृक्ष- -खण्डो यूपशब्दाभिधेयो भवति । तं यज्ञभूमिदेशमानीय मूलतोऽरनिमात्र- -मुत्सृज्य तदुपर्यग्रपर्यन्तं तक्षकिद्वारा तष्ट्वा अष्टकोणयुतं तं कुर्यात् । -तक्षणे प्रथमपातिनं शकलं स्वर्वथं गृह्णीयात् । छेदनकाले प्रथमपाती -शकल एवं स्वर्वर्थ इति कात्यायनः । यूपस्य अग्रभागे चपालं -परिधापयेत् । तत्र यूपाग्रं तक्षणेन तनूकृत्योपरि ब्यङ्गुलं यथा -अवलोक्यते तथा परिशिष्य चघालः परिधापनीयः । ततो वेदिनिर्माण -कुर्यात् । तस्याः स्वरूपमन्ते प्रदर्शितम् ॥ -तत्र -1 -१. यूपमुद्दिश्य गमिप्यता होतव्येति यूपाहुतिः । -२. बटावान्तरजातीयो वृक्ष: । -३. चतुर्विशत्यलोऽरनिः । -४. पशोरखनार्थः स्वरुः। - -=============== -052.jpg.txt" -===============" + - -===================================================== - -===================================================== -यज्ञतत्त्वप्रकाशे -अग्निप्रणयनम् -वेद्याः पूर्वस्यां दिशि उत्तरवेदिं विमाय तन्मध्ये नाभिं करोति । -तत्रैवाग्निः स्थाप्यते । ततस्सम्भारान् तन्मध्ये न्युष्य वेदिम् उत्तरवेदि -च प्रोक्ष्य आहवनीयादुत्तरवेद्यर्थमग्निं प्रणयेत् । तदित्यम्-आहवनीये -भूयिष्ठं काष्ठं निक्षिप्य प्रज्वलय्य ज्वलन्तमग्निं वालुकापूर्णे कस्मिंश्चित्पात्रे -गृहीत्वा अध्वर्युरुत्तरवेदिदेशं गत्वा (अध्वर्युप्रेषितेन होला प्रणयनार्थास्वृक्षु -पठ्यमानासु) तत्रोत्तरवेदिमध्यगताया नाभेरुपरि सम्भाराणामुपरि अग्निं -निक्षिप्य पात्रगतसिकता अपि अग्नेरुत्तरभागे न्युप्य द्वादशगृहीतेन आज्येन -जुह्वा पूर्णाहुति जुहुयात् । अतः परमुत्तरवेदिगतोऽग्निरेव आहवनीयपदवाच्यो -भवति । अत आहवनीये कर्तव्यानि कर्माण्यस्मिन्नेवाग्नौ क्रियेरन् । -यतोऽस्य प्रणयनं कृतं स गार्हपत्यो भवति । अर्थात्पूर्वीहवनीयो -गार्हपत्यशब्दवाच्य इतः परं भवति । अतो गार्हपत्ये विहितानि कर्माण्यत्रैव -कर्तव्यानि ॥ -पात्रासादनादि -ततः कुशसमिदाद्याहरणमरण्यादेः । इध्मकाष्ठानि त्रयोविंशति- -सङ्ख्याकानि । काशाः प्रस्तरार्थाः । विधृत्यर्थे द्वे इक्षुशलाके । तत -अग्न्योरुत्तरतः पाशुकपात्राणि अधोबिलानि प्रयोक्तव्यानि । तानि च- -१. स्फ्यः -९. छुरिका -२. अग्निहोत्रहवणी १०. कुम्भी -३. वसाहोमहवनी ११. प्लक्षशाखा -४. जुहूद्वयम् -१२. वपाश्रपणीद्वयम् -५. उपमृदयम् -१३. औदुम्बरो दण्डः -६. पृषदाज्यधानी १४. रशनाद्वयम् -७. आज्यस्थालीद्वयम् -१५. खुवश्च । -८. हृदयशूलाख्यं कण्टकम् -पात्राणाममीषां दर्शपूर्णमासवत्प्रोक्षणादिकं कृत्वा प्रयाजानूया- -जाद्यर्थ जुह्वादिषु पात्रेषु आज्यं पृषदाऽयं च गृहीत्वा -आज्यपूर्णानि पात्राणि वेद्यामासाद्य यूपनिखननार्थमवटं कुर्यात् । -१. दांना संमिश्रितमाज्यं पृषदाज्यम् । - -=============== -053.jpg.txt" -===============" + - -===================================================== - -===================================================== -पाशुकपात्रासादनादि -अवटखातस्तथा भवेत् यथा यूपस्याधोभागोऽरनिपरिमाण आच्छा- -घेत । तस्मिन्नवटे यूपं पूर्वनिर्मितं निखाय आज्येनाङ्क्त्वा चपालमप्याज्या- -क्तमेव परिधाप्य कुशनिर्मितया त्रिसरया रज्ज्वा आवेष्टय यागीयं -काणत्वादिदोषरहितम् उत्पन्नदन्तं पुमांसं पशु (अज) स्नापयित्वा तं -यूपसमीपमानीय यागीयदेवताया उद्दिष्टायै उपाकुर्यात् । उपाकरणं नाम -देवतामुद्दिश्य पशोरुास्पर्शनपूर्वकं निर्देशः 'अग्नये त्वा (इन्द्राग्निभ्यां -वा) जुष्टमुपाकरोमि' इत्यादिः । तच हस्ते कुशद्वयं प्लक्षशाखां च -निक्षिप्य कर्तव्यम् । अत्र यूपाजनोच्छ्यणपरिव्याणेषु क्रियमाणेषु पूर्व हो। -प्रैषं दत्त्वा तेन तत्तत्संबन्धिनीऽवृक्षु अनूच्यमानास्वेव अध्वर्युस्तानि तानि -कर्माणि कुर्यात् । कर्मस्वेषु क्रियमाणेषु यजमानो यूपं स्पृशन्नेव तत्समीपे -तिष्ठेत् । ततोऽध्वयोंः औषं श्रुत्वा होतरि अग्निमन्थनीया ऋचोऽनुब्रुवति -सति अध्वर्युररणीतः अग्निं मथित्वा तमग्निमाहवनीये प्रक्षिप्य रशनया -पशुं यूपे बनीयात् । अत्र अग्निमन्थनं मथितस्याग्नेराहवनीये प्रक्षेपश्च -केवलादृष्टार्थः । होमाद्यर्थाग्नेः पूर्वमेव सत्त्वात् प्रयोजनान्तरादर्शनाच्च । -ततस्तं पशुमद्भिः प्रोक्षणीमिः प्रोक्ष्य आज्यलिसेन स्रवेण समज्य तत्रैव पशौ -बद्धे तिष्ठति प्रयाजान् यजेत् । इष्टिषु प्रयाजानूयाजानां पुरोऽनुवाक्याः प्रैषा -वा न सन्ति । केवलं याज्या एव । ताश्च होत्रैव पठनीयाः । पशुषु तु -प्रैषास्सन्ति । ते सर्वाश्च पुरोऽनुवाक्या मैवावरुणाख्येनविजा पठनीयाः । -स तिष्ठन् औदुम्बरं दण्डं ललाटसम्मितं यजमानदत्तं धारयन्नेव प्रैषादीन् -पठेत् । पशुयागे चैकादश प्रयाजाः। तत्रास्मिन् समये दश प्रयाजाः, -वपोद्धरणानन्तरमेकश्व प्रयाजा अनुष्ठेयाः । तेषु देवताः- -1 -(१) समिधः -(२) तनूनपात् नराशंसो वा . -(७) दैव्यौ होतारौ -(८) तिस्रो देव्यः -(९) त्वष्टा -(१०) वनस्पतिः -(११) स्वाहाकृत्यश्च क्रमेण । -द्रव्यमाज्यम् ॥ -(४) बर्हिः -(५) द्वारो देव्यः -(६) दैव्यौ उषासानक्ता -6 - -=============== -054.jpg.txt" -===============" + - -===================================================== - -===================================================== -४२ -यज्ञतत्त्वप्रकाशे -पशुसंज्ञपनवपाहोमादि -ततः पर्यग्नि कृत्वा आग्नीध्रः होत्रा अध्रिगुप्रैषाख्येषु मन्त्रेषूच्य- -मानेषु. आहवनीयादुल्मुकमादाय पूर्व गच्छेत् । तस्य पश्चाच्छमिना पशुं. -नयेत् । एवमुभयोरपि शामित्रदेशं गतयोः आग्नीध्रस्तत्रोल्मुकं निधाय -प्रत्यावर्तेत । शमिता वावृते देशे पशुं प्रत्यशिरसमुदीचीनपादं निपात्य -संज्ञपयेत् । ततस्संज्ञप्तहोमं प्रायश्चित्तहोमांश्च हुत्वा वपाश्रपण्यावदाय, -अध्वर्युर्यजमानानुगतः पशुसमीपं गत्वा पश्चङ्गानि जलेन आप्याय्य पशोरुदरं -दक्षिणपार्थे विशस्य (विदार्य) अन्तरामाशयमाच्छाद्य स्थितां श्वेतरक्तामति- -मृदुलां तनीयसी त्वक्सदृशीं वपामुत्कृत्य तां वपाश्रपण्यामेकस्यां प्रसार्य, -अन्यया आच्छाद्य यजमानेन अन्वारब्धोऽध्वर्युराहवनीयसमीपमागत्य -प्रतिप्रस्थात्रे वपायुते वपाश्रपण्यौ दद्यात् । ततस्स वपामलोहिनी सुभृतां -श्रपयित्वा वेद्यां पूर्वोपस्थापितप्लक्षशाखाया उपरि तामासाद्य अवशिष्टमे- -कादशं प्रयाजमनुष्ठाय, आज्यभागौ चेष्ट्वा वपामादाय उपस्तृतायां -जुह्वामखण्डितां तां निक्षिप्य, अभिघार्य, हिरण्यशकलानि प्रास्य, आश्रा- -वणादिषु कृतेषु वपां समग्रामेवाध्वर्युराहवनीये जुहुयात् । इन्द्राग्नी, -सूर्यः, प्रजापतिर्वा विकल्पेन देवता इत्युक्तम् । ततो वपापण्योरा- -हवनीये प्रक्षेपः कार्यः । ततस्सर्वेषामृत्विजां पत्नीयजमानयोश्च चावाले -हस्तप्रक्षालनम् ॥ -ततस्तद्देवताकमेवैकं पशुपुरोडाशयागं कुर्यात् । तदनुष्ठानं -पौर्णमासीगताग्नीषोमीयपुराडाशवदेव । पुरोडाशसंबन्धिहविनिर्वापकाल एव -पशो«दयादीन्यङ्गान्युत्कृत्य शामित्रेऽग्नौ पूर्वसन्जिते मुद्भाण्डे पचेत् । -पाककाले हविषामसाकर्याय चिह्नं कृत्वैव पाकः कर्तव्यः । तानि -चाङ्गानि- -अयमपि प्रयाज आज्येनेव कार्यः । वपयेति कथनं भ्रममूलकमेव । -१. आहवनीयाज्ज्वलन्तमङ्गारमादाय तस्य पशोस्समन्तात् भ्रामणम् । -२. घातमन्तरा प्राणसरोधनादिना प्राणवियोजनं संज्ञपनम् । -३. हृदयं परं शूलपोतं कृत्वा साक्षादेवाग्नौ तापयित्वा . पचेत् ; -इतराणि भाण्डे । - -=============== -055.jpg.txt" -===============" + - -===================================================== - -===================================================== -हृदयाघङ्गयागः -(१) हृदयम् -(२) जिह्वा -(३) वक्षः -(४) यकृत् -(कालखण्डाख्य -मृदुतरं मांसम्) -(५-६) वृक्यौ -(पार्थस्थौ पिण्डौ) -(७) सव्यं बाहुमूलम् -(८-९) पार्थद्वयम् -(१०) दक्षिणा श्रोणिः -(११) गुदस्य तृतीयोंऽशः॥ -इति । तेषां पाको यदा प्रचलति तदा ऋत्विजः पशुपुरोडाशयाग- -मनुतिष्ठेयुः । तदीयामिडां पुरोडाशरूपां प्रतिप्रस्थातृवर्ज सर्व ऋत्विजो -यजमानसहिता भक्षयेयुश्च ॥ -हृदयाघगयागः -तदनन्तरं पाकभाण्डा पक्कान्यङ्गान्युद्धृत्य स्वधितिना (छुरिकया) -च्छित्त्वा, अवंदाय, जुह्वां निक्षिप्य, आश्रावणादिषु कृतेषु आहवनीये -जुहुयात् । अत्र हविषां जुहामवदानकाल एव पशुरसे यूाख्ये मेदो -निधाय तेन जुहाभृतोः हवि पूर्णयोः मुखमाच्छादयेत् । तदैव प्रतिप्रस्थाता -प्रधानयागीययाज्याया अर्धर्चपाठकाले वसाहोमहवन्यां गृहीतां वैसामाह. -वनीये जुहुयात् । तदनन्तरमेव हृदयाघाहुतिरिति बोध्यम् । हृदायादी- -न्येकादशाङ्गानि जुहूस्थानि सकृदेव होतव्यानि ॥ -ततो दर्शवत् नारिष्ठहोमान् हुत्वा पृषदाज्यस्थाल्यां पृषदाज्यं -हीत्वा वनस्पतये (देवताविशेषाय) हुत्वा स्विष्टकृदयं पूर्वमेवोपभृत्यवदाय -स्थापितान्यङ्गानि जुह्वां कृत्वा प्रैषाश्रावणाधनन्तरं स्विष्टकृतेऽनये हुत्वा -इडां यथावदवदाय सर्व ऋविजस्सयजमाना भक्षयेयुः ॥ -तस्मिन्नेव काले स्विष्टकृदर्थमवदायोपभृति निक्षिपेत् । -२. जीर्णपटसदृशं हृदयवेष्टनं भेदः । -३. पाकमाण्डे स्थितस्नेहात्मको रसो वसा । - -=============== -056.jpg.txt" -===============" + - -===================================================== - -===================================================== -यज्ञतत्त्वप्रकाशे -अनूयाजायनुष्ठानम् -ततोऽनूयाजा एकादश अनुष्ठेयाः । तेषाम्- -१. देवं बर्हिः ७. तिस्रो देव्यः -२. देव्यो द्वारः -८. देवो नराशंसः -३. देव्यौ उषासानक्ता ९. देवो वनस्पतिः -४. देव्यौ जोष्ट्यौ १०. देवं बर्हिः -५. देव्यौ ऊर्जाहुत्यौ ११. देवो अग्निः स्विष्टकृत् -६. दैव्यौ होतारौ -इति क्रमेण देवताः। -पृषदाज्यं द्रव्यम् । अनूयाजानुष्ठानकाले प्रतिप्रस्थाता गुदकाण्डस्य -तृतीयमंशं पूर्वमवशेषितमेकादशधा च्छित्वा शामित्रादग्निमादाय उत्तरस्यां -वेदिश्रोण्यां स्थापयित्वा तस्मिन्नेकैकं गुदकाण्डखण्डं हस्तेन जुहुयात् । -ततो यागार्थ पूर्वविशस्तस्य पशोः पुच्छमसिना च्छित्त्वा आदाय तेन -पत्नी संयाजाननुतिष्ठेत् । तत्र प्राकृत्य एव देवताः । ततः प्रकृतितोऽति- -दिष्टानामैष्टिकानां यथासम्भवमनुष्ठानमङ्गानाम् । ततो यजमानो यूपमुपस्थाय -संस्थाजपं कृत्वा कर्म समापयेत् । पशुयागोऽयं दार्शिकपयोयागविकृति- -भूतः । अतो धर्मान् तदीयानेव गृह्णीयात् ॥ -॥ इति पशुयागो निरूढपशुबन्धाख्यः ॥ -पशुयागोपयुक्तानि द्रव्याणि पात्राणि च- -१. एकादश कपालानि आमावैष्णवेष्टयर्थम् । -२. प्रोक्षणार्थाश्च ब्रीहयो यवा वा आग्नावैष्णवेष्टयर्थम् । -३. स्वधितिः (क्षुरः) यूपच्छेदनार्थः । -४. यूपः पशुबन्धनार्थः। -५. चषालः यूपाग्रपरिधापनार्थः । -६. स्वरुः पश्वानार्थः। -७. रशनाद्वयं पशुबन्धनाथ यूपपरिव्याणार्थं च । -८. ऐष्टिकानि सर्वाणि पात्राणि । तत्र द्वे द्वे जुहूपभृतौ । -९. कुम्भी पश्चनपचनार्थी। - -=============== -057.jpg.txt" -===============" + - -===================================================== - -===================================================== -वैश्वदेवपर्व -१०. वपाश्रपण्यौ द्वे वपापाकार्थे । -११. पृषदाज्यधानी अनूयाजार्थपृषदाज्यधारणार्थम् । -१२. वसाहवनी वसाहोमार्थम् । -१३. हृदयशूलं (कण्टक:) हृदयपाकार्थम् । -१४. सिकताः उपयमनाः । -१५. अरणी अग्निमन्थनार्थे । -१६, प्लमशाखा वेदेराच्छादनार्थी पशूकरणार्थी च । -१७. मैत्रावरुणदण्डः औदुम्बरः मैत्रावरुणस्य धारणार्थः । -१८. अभ्रिः यूपावटखननार्था । -१९. मन्थिप्रमन्थिरजवः अग्निमन्थनार्थाः । -२०. पशुः तत्र तत्र विहितश्छागादिः, आज्यं च यागार्थम् । -चातुर्मास्यानि -अथ चातुर्मास्यानि निरूप्यन्ते । तानि द्विविधानि-स्वतन्त्राणि -राजसूयान्तर्गतानि च । राजसूयमनुतिष्ठता क्षत्रियणैव राज्ञा राजसूय- -प्रयोगमध्य एवानुष्ठेयानि राजसूयान्तर्गतानि । न ब्राह्मणवैश्ययोस्तत्राधि- -कारः । स्वतन्त्रेषु तेषु त्रैवर्णिकानामधिकारः । तानि चामिहोत्रदर्शपूर्णमास- -वन्नित्यानि प्रतिसंवत्सरमनुष्ठेयानि ॥ -तत्र चत्वारि पर्वाणि-वैश्वदेवः, वरुणप्रघासाः, साकमेधाः, -शुनशीरीयश्चेति । अत्र पर्वसु पौर्णमासीष्वनुष्ठेयत्वात् पर्वशब्देन ते यागा -उच्यन्ते । इष्टिरूपेष्वत्र चत्वार एव ऋत्विजः । वरुणप्रघासेषु परं प्रति- -प्रस्थाता एकोऽधिकः ॥ -वैश्वदेवपर्व -तत्र फाल्गुन्यां चैत्र्यां वा पूर्णिमायां वैश्वदेवपर्वणोऽनुष्ठानम् । -फाल्गुन्यामेवेति कात्यायनः । तदनुष्ठास्यन् ततः पूर्वस्यां चतुर्दश्या- -मन्वारम्भणीयेष्टिं तत्स्थानापन्नां वैश्वानरपार्जन्येष्टिं वा अनुतिष्ठेत् ॥ -इष्टिरियं कर्तुः कर्मारम्भयोग्यतासंपादिका । द्वादशकपालः पुरोडाशः -चरुश्च द्रव्यम् । वैश्वानरः पर्जन्यश्च देवते । तामिष्टिकल्पेन -अनुष्ठाय श्वोभूते वैश्वदेवपर्वानुष्ठानम् । तत्राष्टौ यागाः--आग्नेयः, सौम्यः, -सावित्रः, सारस्वतः, पौष्णः, मारुतः, वैश्वदेवः, द्यावापृथिव्य इति । - -=============== -058.jpg.txt" -===============" + - -===================================================== - -===================================================== -४६ -३ -यशतत्त्वप्रकाशे -तत्र अष्टाकपालः पुरोडाशः, चरुः, द्वादशकपालः पुरोडाशः, चरुः, -पिष्टकचरु , सप्तकपालः पुरोडाशः, आमिक्षा, एककपालः पुराडाश इति -क्रमेण द्रव्याणि । अग्निः, सोमः, सविता, सरस्वती, पूषा, मरुतः, विश्वे -देवाः, द्यावापृथिव्यौ इति च क्रमेण देवताः ॥ -तत्र आमिक्षोत्पादनार्थ पर्वणः पूर्वस्मिन् दिनेऽन्वारम्भेष्टयनन्तरं -सान्नाय्यवत् प्रातर्वत्सापाकरणादिकं सायंदोहनादिकमनुष्ठाय लौकिकेन -दध्ना तत्पय आतञ्च्य निदध्यात् । चतुर्दश्यामेव, कुशसमिदाहरणादिकं -कुर्यात् । ततः पूर्णिमायां प्रातरग्निहोत्रं हुवा दार्शिकेन प्रातर्दोहधर्मेण -गा दुध्वा, दुग्धं पय आहवनीये श्रायित्वा अतितप्यमाने पयसि तस्मिन् -पूर्वदिनसम्भृतं प्रभूतं दध्यासिञ्चेत् । तद्विधा संवर्तते-घनीभूतं द्रवीभूतं -च । तत्र यद्धनीभूतं कठिनद्रव्यं सा आमिक्षा । यत् द्रवीभूतं तत् -वाजिनम् । ततः पुरोडाशार्थ चर्वर्थं च ब्रीहीन तत्तद्देवतायै निरुप्य सहैव -अवहत्य पुरोडाशीयांश्चर्वांश्च तण्डुलान् पृथक्कृत्य पुरोडाशीयान् पिष्टवा -पिष्टैः दर्शपूर्णमासवत् पुरोडाशान्निष्पादयेत् । भिन्नभिन्नपात्रेषु चरूंश्च -अपयेत् । ततः प्रयाजार्थं जुह्वादिषु पात्रेष्वाज्यं गृहीत्वा अनूयाजाथ -पात्रान्तरे आज्यं दधि च सहैव गृह्णीयात् । तत्पृपदाज्यमित्युच्यते । -अत्र नव प्रयाजाः। नव अनूयाजाः । एवम् , एककपाल पुरोडाशमपि तदर्थ -सम्भृते आशयस्थाल्याख्ये पात्रे निक्षिप्य तत्पात्रं घृतेनापूरयेत् । यथा -पुरोडाशस्य मस्तकः परं दृश्येत अन्योंऽशो घृतमनो भवेत्तथा पूरणीयम् । -ततः प्रयाजाघाराज्यभागाधनन्तरम् आश्रावणादिषु कृतेषु आग्नेयादियागान् -कुर्यात् । अत्र यागेभ्यः पूर्व तदर्थं पक्केषु वेद्यामासादितेषु पशुयाग इव अग्निं -मथित्वा आहवनीये निक्षिपेत् । अनन्तरं प्रयाजाः । ततः प्रधानयागा इति -बोध्यम् । प्रधानेषु देवताः पूर्वमुक्ताः । तत्र आग्नेयादीनां हविषामवदान- -क्रमेण होमः । एककपालस्य पुरोडाशस्य तु न अवदानादिकम् । किंतु -यथा पात्रे स्थितस्तथैवापर्यावर्तयन् तदर्थनिर्मितशिक्येन सहैव तं -गृहीत्वाग्नौ प्रक्षिोत् । पात्रस्थमाज्यं च अवश्च्योतयेत् । ततः चतुर्भिः -मधुः, माधवः, शुकः, शुचिः इत्येवंरूपैः मासनामभिः एककपालपुरोडाश- -मभित आज्येन जुहुयात् । ततः स्विष्टकृदिडाभक्षणानूयाजादिषु परिधि- -प्रहरणान्तेषु प्रकृतिवदनुष्ठिनेषु कर्मसु वाजिनपात्रं गृहीत्वा ततो वाजिन- -मुपरितः जुह्वां तथा स्रावयेत् यथा वाजिनं जुहूतो बहिबर्हिष उपरि - -=============== -059.jpg.txt" -===============" + - -===================================================== - -===================================================== -वरुणप्रघासपर्व -विष्यन्देत् । ततस्तत् वाजिसंज्ञिकाभ्यो देवताभ्यो हुत्वा शेषमक्षणं -ऋविजः सोमवत् उपाहानादिकं कृत्वा कुर्युः । अन्ये चेष्टिधर्मा यथावदत्र -अनुष्ठेयाः । इष्टयन्ते वपनं यजमानस्य ॥ -॥ इति वैश्वदेवपर्यसमाप्तिः ॥ -वरुणप्रघासपर्व -२. सौम्यः -५. पौष्णः -अथ द्वितीयं वरुणप्रघासपर्व । वैश्वदेवानुष्ठानानन्तरं मासचतुष्टय- -मतिवाय, आषाढ्यां श्रावण्यां वा पूर्णिमायां वरुणप्रघासानुष्ठानं कुर्यात् । -आषाढ्यामेवेति कात्यायनः । तत्र- -१. आग्नेयः -६. ऐन्द्राग्नः -७. मारुतः -३. सावित्रः -८. वारुणः -४. सारस्वतः -९. कायः -इति नव यागाः। -उत्तरतो दक्षिणतश्चेति वेदिद्वयम् । गार्हपत्यो दक्षिणाग्निश्चैक एव । -आहवनीयौ परं द्वौ तत्तद्वेद्यग्रभागयोः । दक्षिणस्यां वेदो सप्तमो यागः प्रति- -प्रस्थात्र अनुष्ठीयते । अन्ये सर्वे यागा उत्तरस्यां वेद्यामध्वर्युणा कर्तव्याः । -अङ्गानि तूभयत्र अनुष्ठातव्यानि प्रयाजादीनि । उत्तरस्यां समन्त्रकाणि, -दक्षिणस्याममन्यकाणीति विशेषः । अतोऽत्र वरुणप्रघासेषु दक्षिणविहारार्थ -प्रतिप्रस्थाता एकोऽधिक ऋत्विक् । तदर्थ पात्राण्यपि जुह्वादीनि पृथक् -निर्मातव्यानि । तानि सुवर्णनिर्मितानि शमीकाष्ठनिर्मितानि वा भवेयुः । -आमिक्षार्थ वैश्वदेवपर्ववत् पूर्वस्मिन् दिन एव सायंदोहधर्मानुष्ठानपूर्वक -दध्न आतञ्चनं कर्तव्यम् । यदि सबस्काला वरुणप्रघासा भवेयुः तदा -पूर्णिमायाः प्रातरेव सर्वोऽपि व्यापारो भवेत् । लौकिकेन दना आमिक्षो- -त्पादनम् । तत्र वेदिनिर्माणकाले दक्षिणत उत्तरतश्चेति गार्हपत्यस्याग्रे -वेदिद्वयं निर्मायोत्तरस्यां वेद्याम् अन्तरे वोत्तरवेदिं तन्मध्ये नाभिं च निर्माय -गार्हपत्यादग्नि प्रणीयोभयत्र वेद्योरग्निद्वयं निदध्यात् । तत्रोत्तरत्राध्वर्युः -दक्षिणतः प्रतिप्रस्थाता च सर्व कुर्याताम् । ततश्चरुपुरोडाशार्थ ब्रीहीन् -निरुप्य अवघातादिकं कृत्वा चर्वर्थान् पुरोडाशाांश्च तान् पृथक्कृत्य -पेषणश्रपणादिकं यर्थावदध्वर्युः कुर्यात् ॥ - -=============== -060.jpg.txt" -===============" + - -===================================================== - -===================================================== -४८ -यज्ञतत्त्वप्रकाशे -तस्मिन्नेव समये प्रतिप्रस्थाता करम्भपात्रार्थ यवान् निरुप्य -अतप्तानेव तानवहत्य पिष्वा पिष्टानि पत्नीहस्ते दद्यात् । सा तानि जलेन -संयुत्स गृहकर्मोपयुक्तपात्रसदृशानि अल्पकायानि पात्राणि कुर्यात् । तानि -च सङ्ख्यया यजमानगृहगतजनसङ्ख्याया एकाधिकानि भवेयुः । तेषु -च शमीपत्रमिश्राणि खजूरफलानि निक्षिप्य रूपै तानि स्थापयेत् । तदानीमेव -तैरेव पिष्टैः मेषमध्वर्युः, मेषी प्रतिप्रस्थाता च कुर्याताम् । मेषौ -स्थाल्यां पचेयुः । ततः पूर्वोत्पादितायाम् उत्तरामिक्षायां मेषं दक्षिणा- -मिक्षायां मेषीं चावधाय शमीपत्रकरीराणि प्रास्य तौ वेद्योर्निक्षिपेत् ॥ -तत उभावपि अध्वर्युप्रतिप्रस्थातारौ पृथक् पृथगग्नि मथित्वा -आहवनीययोः प्रक्षिपतः । ततोऽध्वर्युः यजमानपत्नी पृच्छति-पत्नि! कति -ते जाराः १' इति । यदि जाराः स्युः तदा सा तान्नामा निर्दिशेत् । यदि -निर्दिशेत् तदा सा व्यभिचारदोषान्मुक्ता मवेत् । यदि सतो न निर्दिशेत् तदा -आत्मबन्धुभिः पतिपुत्रादिभिर्वियुक्ता भवेत् । ततः शूर्प करम्भपात्रपूर्णमादय -यजमानः पत्नी च दक्षिणविहारगतस्याग्नेः पूर्वदेशं गत्वा पश्चिमाभिमुखौ -तिष्ठन्तौ शू शिरसि निधाय तथैव जुहुतः शूर्पण जुहूस्थानीयेन । ततः -शूर्पमन्यत्र त्यजेताम् । ततोऽध्वर्युराग्नेयादीनन्द्राग्नपर्यन्तान् यागानव- -दानप्रेषणाश्रावणाधनुष्ठानपूर्वकं यथावदनुष्ठाय विरमेत् । ततः प्रतिप्रस्थाता -मेषीसहितामिक्षायागम् अवदानाद्यनुष्ठाय देक्षिणेऽग्नौ कुर्यात् । अथैव. -मेवाध्वर्युरुत्तरस्मिन्नग्नौ मेषयुतामिक्षयागं कुर्यात् । ततोऽन्तिमं कदेवताकं -यागमेककपालधर्मेणानुतिष्ठेत् । तत्र-अग्निः, सोमः, सविता, सरस्वती, -पूषा, इन्द्राग्नी, मरुतः, वरुणः, क इति क्रमेण देवताः । ततः कायपुरोडा- -शममितो मासनामभिश्चतुर्भिः नभ; नभस्यः, इषः, ऊन इत्येवंरूपैः हुत्वा -स्विष्टकृदिडाभक्षणानूयाजादिकं यथावदनुष्ठाय वाजिनेज्यामपि विधाय, -अन्तेऽवभृथेष्टिं कचिजले कृत्वा तत्रैवावभृथस्नानं कुर्यात् । अत्रावभृथस्य -सङ्कुचितं रूपम्, विस्तृतं सोमयाग एवेति तत्रैव स विशेषतो -निरूप्यते । ततोऽवभृथादेत्य यजमानः प्रकृतीष्टिं कृत्वा वैश्वदेववत् वपनं -कारयेत् । नियमांश्च धारयेत् ॥ -॥ इति वरुणप्रघासाः ॥ -१. दक्षिणभागस्थिताया वेद्या अग्रभागस्थ आहवनीयोऽग्निरत्राभिप्रेतः । - -=============== -061.jpg.txt" -===============" + - -===================================================== - -===================================================== -चातुर्मास्यनिरूपणम् -साकमेधपर्व -अथ तृतीयं साकमेधपर्व । दिनद्वयानुष्ठेयमिदम् । चत्वारि -कर्माण्यत्र-अनीकवत्यादय इष्टयः, महाहवींपि, पितृयज्ञः, त्र्यम्बकहवीं- -पीति । तत्र कार्तिक्यां मार्गशीष्या वा चतुर्दश्यां शुक्लायां प्रातरग्निहोत्रं -हुत्वा सङ्कल्प्य तदैव अनीकवतीष्टिः । अष्टाकपालः पुरोडाशो द्रव्यम् । -अग्निरनीकवान् देवता । तत्र सूर्योदयात् पूर्व कर्मारभ्य सूर्योदयकाल एव -यथा हविर्निवीपस्सम्भवेत् तथानुष्ठेयम् । ततो मध्यन्दिने सान्तपनीष्टिः । तत्र -चरुर्द्रव्यम् । मरुतस्सान्तपना देवताः। तस्मिन्नेव दिने सायं गृहमेधीयेष्टिः । -तत्र दुग्धपक्कश्चरुव्यम् । स यजमानस्य यावत्यो गावः सन्ति सर्वास्ता -दुग्ध्वा सर्वस्मिंस्तस्मिन् पयसि पक्को गृहजनपर्याप्तौदनरूपो भवेत् । मरुतो -गृहमेधिनो देवताः। न अत्र आधारप्रयाजानूयाजसामिधेनीप्रभृतीनामङ्गाना- -मनुष्ठानम् । केवलमाज्यभागौ हविस्संपादननान्तरीयकाण्यवघातादीनि -कर्माणि स्विष्टकृयागं चानुतिष्ठेत् । हुतावशिष्टमोदनं यजमानस्य गृहिणः -सर्वे समेत्य भक्षयेयुः । भोजनमिदं चतुर्दश्यां रात्रौ भवति । ततो -द्वितीयदिन उषसः प्रादुर्भावसमये उत्थाय स्नात्वा यजमानगृहस्थमृषभं -तन्नाम सङ्कीर्त्य आह्वयेत् । तच्छ्रुत्वा तस्मिन् प्रतिशब्दायमाने -सति पौर्णदाख्यं होममग्निहोत्रहोमात्पूर्वमनुष्ठाय क्रीडिनेष्टिं कुर्यात् । सा -द्वितीयदिनसूर्योदयकालेऽनुष्ठेया । तत्र सप्तकपालः पुरोडाशो द्रव्यम् । -मरुतः क्रीडिनो देवताः । मरुतः स्वतवत्यो वा । अन्यत्सर्व यथावत् ॥ -महाहवींषि (साकमेधान्तर्गतानि) -ततो महाहवींषि । तत्राष्टौ यागाः । आग्नेयादिपञ्चकं वैश्वदेववत् । -तत ऐन्द्राग्नः, ऐन्द्रः, वैश्वकर्मणश्चेति त्रयः । देवता आग्नेयादिषु पञ्चसु -वैश्वदेववत् । तत इन्द्राग्नी, इन्द्रः, विश्वकर्मा च । द्रव्याणि स्पष्टानि । -अत्रापि वरुणप्रघासवत् वेदिमध्ये प्राग्देशे उत्तरवेदिं कृत्वा गाईपत्यादग्नि -प्रणीय आहवनीयकरणम् , अग्नि मथित्वा आहवनीये प्रक्षेपश्च भवति । -तत आघाराज्यभागप्रयाजानिष्ट्वा, अष्टानां प्रधानानामनुष्ठानं स्विष्टकृदि- -आपस्तम्बिनी बोधायनीयानामेव च गार्हपत्यात् प्रणयनमत्र विहितम् । -अन्यशाखीयानां पशुबन्धवदाहवनीयादेव प्रणयनं विहितम् । एवमेव वरुणप्रधास- -पर्वण्यपि उत्तरस्यां वेद्यामग्निप्रणयनं बोध्यम् । -१. -7 - -=============== -062.jpg.txt" -===============" + - -===================================================== - -===================================================== -यज्ञतत्त्वप्रकाशे -डाभक्षणानूयाजादिकरणं च वैश्वदेववदेव । वैश्वकर्मणस्यैककपालस्यानुष्ठान- -काले मार्गशीर्षादिफाल्गुनान्तानि सहः, सहस्यः, तपः, तपस्य इत्येवं- -रूपाणि मासनामानि तमभिजुहुयात् । एतावता महाहविस्समाप्तिः । -महापितृयज्ञः -तदानीमेव महापितृयज्ञ आरब्धव्यः । अयं च पूर्वनिरूपितात -दर्शकालानुष्ठेयपिण्डपितृयज्ञात भिन्नः । अयं साकमेधपर्वान्तर्गतः । अस्य -वेदिरन्यप्रकारैव । साप्युपरिष्टान्निकृष्टा । तां निर्माय दक्षिणाग्नेरग्निं गृहीत्वा -तं वेदिमध्ये स्थापयित्वा तत्रैव आहवनीयकर्तव्यानि सर्वकर्माणि कुर्यात् -पितृयज्ञसंबन्धीनि । पितृयज्ञे च हविस्त्रयम्-पटकपालः पुरोडाशः, धानाः -(भ्रष्टयवाः), मृतवत्साया गोः पयसा मिश्रितानि भर्जितयवचूर्णानि चेति । -सोमः पितृमान् , पितरो बर्हिषदः, पितरोऽग्निध्वात्ता इति क्रमेण देवताः। -एतेषां हविषां निष्पादनार्थ यवान्निरुप्य, अवहत्य, फलीकृत्य, धानार्थान् -मन्थार्थांश्च यवान् पृथग्विभज्य अवशिष्टान् पिष्ट्वा दक्षिणाग्निसमीपे षण्णा -कपालानामुपरि पुरोडाशं श्रपयेत् ॥ -पृथक्कृतान् यवान् मर्जयित्वा, अर्ध धानार्थम् -अवशिष्य अर्ध पिष्ट्वा मन्धं कुर्यात् । मृतवत्साया गोः पयसि -यवचूर्णानि प्रक्षिप्य इक्षुकाण्डेन मथित्वा मन्थं सम्पादयेत् । ततो वेद्यां -सर्वाणि हवींष्यासाद्य तद्दक्षिणतः कशिपूपबहणाञ्जनाभ्यअनोदकुम्भान् -पिण्डपितृयज्ञवदासाद्य चतुर्थप्रयाजवर्ज चतुरः प्रयाजानिष्ट्वा प्राचीना- -वीतिनः परिश्रितां वेदिं परिक्रम्य प्रधानहविर्यः सकृत्सकृदवदाय -तत्तद्देवतायै आश्रावणादिकमनुष्ठाय हविः त्यजेयुः । अत्र “आ स्वधा" -इत्याश्रावणम् । “अस्तु स्वधा" इति प्रत्याश्रावणम् । “सोमं पितृमन्तं यज" -इति श्रेषः। "ये यजामहे" इति स्थाने "ये स्वधामहे" इति “वौ३ षट्" -इति स्थाने "स्व३धा नमः" इति च पठेत् । अत्र द्वे द्वे पुरोऽनुवाक्ये, एकैका -च याज्या भवन्ति । अग्निः कव्यवाहनः स्विष्टकृदेवता । प्रधानयागेऽपि -द्रव्याणां सकृत्सकदेव अवदानम् । शेषमक्षणं केवलमवघ्राणरूपमेव । -ततो यजमानः वेदि त्रिः अप्रदक्षिणं परिषिच्य हविश्शेषेण पिण्डवयं कृत्वा, -वेद्याः पूर्वपश्चिमदक्षिणकोणेषु पितृपितामहप्रपितामहेभ्यः तान् पिण्डान् -ततः -१. काशप्वादयः पिण्डपितृयज्ञे व्याख्याताः । See Page २६, under -पात्राणि । - -=============== -063.jpg.txt" -===============" + - -===================================================== - -===================================================== -शुनासीरीयपर्व -५१ -निधाय, उत्तरस्मिन् वेदिकोणे हस्तलिप्तं निमृज्य, पितॄन् , गार्हपत्यं -चोपस्थाय शय्योपबहणवस्त्राञ्जनादीनि पूर्वोपकल्पितानि पितृभ्यो यथावत् -दत्त्वा प्राचीनावीतानि विस्रस्य यज्ञोपवीतानि कृत्वा पूर्ववैपरीत्येन -वेदि परिक्रम्य परिश्रयणप्रपास्य प्रथमवर्जितावनूयाजौ द्वाविष्ट्वा निवीतं -कृत्वा सूक्तवाकादि सर्व समापयेयुः समिष्टयजु.पत्नीसंयाजवर्जम् । एतावता -पितृयज्ञसमाप्तिः ॥ -त्र्यम्बकहवींषि -अथ त्र्यम्बकहवींषि । तत्र यजमानगृहावस्थितस्त्रीपुरुषसङ्ख्यापेक्षया -एकाधिकसङ्ख्याकान् एककपालान् पुरोडाशान तूष्णीमेव अपयित्वा तान् -मूते कृत्वा दक्षिणाग्नरेकमङ्गारमादाय मूतगतैः पुरोडाशैः उल्मुकेन -(अङ्गारेण) सह ईशानदिशं गत्वा तत्रैकं पुरोडाशं मूषिकोत्खातपांसुषु -प्रक्षिप्य ततः चतुष्पथं गत्वा तत्र तमगार निधाय संवर्ध्य सर्वेभ्यः -पुरोडाशेभ्यः सकृत्सकृदवदाय रुद्राय हुत्वा तमग्निं त्रिः परिक्रम्य -हुतावशिष्टान् पुरोडाशानू_माकाशे उत्क्षिप्य पततस्तान् गृहीत्वा यजमान- -हस्ते दत्तांस्तान् पुनर्मूते निक्षिप्य बद्ध्वा शुष्के कस्यचिवृक्षस्य स्थाणा- -वाबध्नीयात् । क्वचिद्वल्मीकच्छिद्रे वा निधानम् । ततः परितो मूतमवस्राव्य -प्रत्यावृत्त्यानवेक्षमाणा गृहमागच्छेयुः । आगत्य च अदितिदेवताकं यागं -घृतश्रपितचरुणा कुर्यात् ॥ -॥ समाप्तं साकमेधपर्घ ॥ -शुनासीरीयपर्व -ततः शुनासीरीयं पर्व । साकमेधसमाप्यनन्तरं द्वयोः त्रिषु चतुर्यु -वा दिनेषु मासे वाप्यतोते शुनासीरीयानुष्ठानं कर्तव्यम् । चतुर्पु वा -मासेष्वतीतेषु फाल्गुन्यामेव कुर्यात् । तत्र आग्नेयादयः पञ्च वैश्वदेव- -वद्यागाः । तत ऐन्द्रामः, वैश्वदेवः, शुनासीरीयः, वायव्यः, सौर्यश्चेत्यधिकाः -पञ्च । तेषु इन्द्राग्नी, विश्वे देवाः, इन्द्रः शुनासीरः, वायुः, सूर्यश्च देवताः । -द्रव्याणि पुरोडाश', चरु, पयश्च । चर्वाद्यर्थं पूर्ववदेव निर्वापरोक्षणा. -वघातपेषणश्रपणादयः । पयसः कृते वत्सापाकरणदोहनादिकं प्रातर्दोह- -वदेव । नव प्रयाजाः नव चानूयाजाः । अन्यत्सर्व पन्तिरवदेव । पर -. - -=============== -064.jpg.txt" -===============" + - -===================================================== - -===================================================== -। -यज्ञतत्वप्रकाशे -नात्र मासनामभिर्होमः चैत्रान्तर्गतैः । किं तु संसख्येन अधिकमासनाना -एककपालमभिजुहुयात् । इन्द्र एव शुनासीरपदवाच्य इत्यापस्तम्बादयः । -कात्यायनस्तु, शुन इन्द्रः, सीरः वायुः, इति व्याख्याय शुनासीरीयं -द्विदेवताकमिति कथयति । वरुणप्रघासपर्वण्येव अवभृथः ; न पर्वान्तरेषु । -अग्निप्रणयनमुत्तरवेदिश्च मध्यमयोर्वरुणप्रघाससाकमेधयोरेव; न आद्यन्तयोः। -केचित् चतुर्वपि पर्वस्वग्निप्रणयनं कुर्वन्ति । अरणिमन्थनम् , मथितस्य -च आहवनीये प्रक्षेपः पर्वचतुष्टयेऽप्यस्ति ॥ -चातुर्मास्यानुष्ठाने विशेषाः -नित्यानामपि चातुर्मास्यानां पक्षद्वयमस्ति---उत्सर्गपक्षः, अनुत्सर्ग- -पक्षश्चेति । सकृत्कृत्वोपरम उत्सर्गपक्षः । प्रथमप्रयोग परिसमाप्य -पुनस्तान्यारभ्य पूर्ववदनुष्ठानं पञ्च संवत्सरं यावत् ततोऽप्यधिकं वेति -सोऽयमनुत्सर्गपक्षः । सोमेन यक्ष्यमाण उत्सर्गपक्षमेव आश्रयेत् ॥ -इमानि चातुर्मास्यानि त्रिप्रकाराणि मवन्ति-ऐष्टिकानि, पाशुकानि, -सौमिकानि चेति । इदानीं निरूपितान्यैष्टिकानि । पाशुकानि पशुद्रव्य- -काणि । देवतास्तु ता एव । तेषामनुष्ठानं परं पशुयागविधानेन । एवं -सौमिकेषु सोमरस एव द्रव्यम् । देवतास्तु ता एव । सोमयागविधिना च -दीक्षोपसत्प्रवर्गाद्यनुष्ठानपूर्वकमनुष्ठेयानि ॥ -तत्र ऐष्टिकेषु संवत्सरानुष्ठानपक्षेण सह पञ्चाहानुष्ठानपक्ष एक- -दिनानुष्ठानपक्षश्च बौधायनादिभिरुक्तः। स यथा-प्रथमदिने वैश्वदेवपर्व । -द्वितीयदिने वरुणप्रघासपर्व । तृतीय चतुर्थदिनयोः द्वयोः साकमेधपर्व । -पञ्चमदिने शुनासीरीयमिति । अयं पञ्चाहःपक्षः । चत्वार्यप्येतानि -पर्वाण्येकस्मिन्नेव दिने यदा अनुष्ठीयन्ते स एकाहपक्षः । तत्राति तान्येव -हवींषि । ता एव च देवताः । परं तु सर्वेषां प्रधानानां पौर्णमासी- -कालानुष्ठेयत्वात् तत्तदङ्गानां सम्भवतां तन्त्रेण अनुष्ठानम् । असम्भवतां -त्वावृत्तिः । अङ्गानां परस्परविरोधे वारुगाघासिकान्येव तान्यनुष्ठेयानि ॥ -पाशुकचातुर्मास्येषु नैकैकस्य प्रधानहविषः स्थाने एकैकं पशुद्रव्यम् , -किं वेकैकस्मिन् पर्वण्येकैकः । तत्र वैश्वदेवपर्वणि विश्वदेवदेवताक एकः -पशुः । वरुणप्रघासे वरुणदेवताक एकः । साकमेधे महेन्द्रदेवताक एकः पशुः । -शुनासीरीये शुनासीरदेवताक एकः । इतराणि हवींषि तेषु तेषु पर्वसु -- - -=============== -065.jpg.txt" -===============" + - -===================================================== - -===================================================== -आग्रयणेष्टिः -५३ -तानि तान्येव । तत्र पशुयागं पर्वणोऽन्ते आदौ वा पृथक् साङ्गमनुष्ठाय -ततस्समानतन्त्रणेष्टीनाम् अनुष्ठानमित्येकः पक्षः । पशुतन्त्रमध्य एवेष्टीना- -मप्येकतन्त्रेण अनुष्ठानमित्यपरः पक्षः । अस्मिन् पक्षे पश्चङ्गानामेवैकादश- -प्रयाजादीनामनुष्ठानम् , नैष्टिकाङ्गानां नवप्रयाजादीनाम् ॥ -सौमिकचातुर्मास्येषु वैश्वदेवपर्वस्थाने अग्निष्टोमसंस्थाकस्सोमयागः । -वरुणप्रघासपर्व दिनद्वयानुष्ठेयम् । तत्र प्रथमदिनेऽग्निष्टोमसंस्थाक उक्थ्य- -संस्थाको वा सोमयागः । द्वितीयदिने उक्थ्यसंस्थाकः । साकमेधपर्व -दिनत्रयानुष्ठेयम् । तत्र प्रथममहरग्निष्टोमसंस्थाकम् । द्वितीयदिने उक्थ्य- -संस्थस्सोमयागः । तृतीयदिनेऽतिरात्रसंस्थाकः । शुनासीरीये पर्वणि -ज्योतिष्टोम इति विवेकः । सप्तसु दिनेषु सवनीयपशुयागा अप्यङ्गतया -अनुष्ठेयाः । तेषु-विश्वे देवाः, वरुणः, मरुतः, अग्नि, इन्द्राग्नी, ऐकाद- -शिनदेवताः, वायुरिति क्रमेण देवताः । एकैकस्य पर्वणस्समाप्ताववभृथेष्टिः -प्रथक् पृथगिति ॥ -॥ इति चातुर्मास्यानि ॥ -आग्रयणेष्टिः -अथाग्रयणेष्टिरुच्यते-सा च कालद्वये शरहतौ वसन्ततौं चानुष्ठेया । -तावेव नवान्नोत्पत्तिकालाविति कृत्वा कालद्वयेऽपि नवान्नोत्पत्तावेवेय- -मनुष्ठेया । अत एव "नवान्नेष्टिः" इत्यस्याः संज्ञा । एवं च -शरदि व्रीहिकाले व्रीहिमिनवैः वसन्ते यवैर्नवैश्च अनुष्ठेया । नवैः -श्यामाकैरपि यष्टव्यत्वेनेयं विहिता । ते च वर्षासूत्पद्यन्ते । अतश्च वर्षासु -श्यामाकैनवैः शरदि च नवैीहिभिः, वसन्ते नवैर्यवैश्च कर्तव्या । ब्रीह्या- -ग्रयणश्यामाकाग्रयणयोस्समानतन्त्रेणाप्यनुष्ठानं सूत्रकारैरुक्तम् । तथानुष्ठाने -बीह्यत्पत्यनन्तरं शरद्येव सा अनुष्ठेयेति बोध्यम् । तत्राप्यमायां पूर्णिमायां -वा । पुण्यनक्षत्रादयोऽपि सूत्रान्तरेषूक्ताः । तत्र शरधनुष्ठेये ब्रीह्याग्रयणे -चत्वारि हवींषि-पुरोडाशोऽष्टाकपालः पुराणै/हिभिः कृतः, पुरोडाशो -द्वादशकपालो नववीहीणाम् , चरुनववीहीणामेव, द्यावापृथिव्य एक- -कपालो नववीहीणामेव । अत्र-अग्नि, इन्द्राग्नी, विश्वे देवाः, द्यावा- -पृथिव्यौ इति क्रमेण देवताः । श्यामाकाग्रयणस्य सहानुष्ठानपक्षे -श्यामाकाः नवाः द्व्यम् । तैश्वरुनिष्पाद्यः । सोमो देवता । पृथगनुष्ठानपक्षे - -=============== -066.jpg.txt" -===============" + - -===================================================== - -===================================================== -५४ -यज्ञतत्त्वप्रकाशे -वर्षता केवलेन नवश्यामाकनिष्पादितचरुणा यजेत । सोम एव देवता । -एवं वसन्ते यवाग्रयणं कर्तव्यम् । तत्र पुराणानां यवानामुपयोगो नास्ति । -ऐन्द्रामवैश्वदेवद्यावापृथिवीयरूपाणि त्रीण्येव नवयवनिष्पादितानि हवींषि । -इयन्तो विशेषाः । अन्यत्सर्व प्रकृतिवत् । साक्षात्प्रतिनिधिरूपेण वा -आग्रयणं कृत्वैव नवान्नमश्नीयादाहिताग्निः ॥ -॥ इत्याग्रयणेष्टिः ॥ -इति महामहोपाध्याय-शाबरनाकर-पण्डितसार्वभौम-श्रीचिन्नास्वामिशाखि- -विरचिते यज्ञतत्त्वप्रकाशे हविर्यक्षनिरूपणाख्यः -प्रथमो भागः ॥ - -=============== -067.jpg.txt" -===============" + - -===================================================== - -===================================================== -॥ श्रीः ॥ -॥ श्रीगणेशाय नमः ॥ -, -. -॥ यज्ञतत्त्वप्रकाशः ॥ -महामहोपाध्यायश्रीचिन्नस्वामिशास्त्रिविरचितः -सोमयज्ञनिरूपणरूपो -॥ द्वितीयो भागः ॥ -सोमयागनिरूपणम् -इदमिदानीं सोमयागस्वरूपं निरूपयितुमारभ्यते । सोमयागः -चतुष्प्रकारः-एकाहः, अहीनः, सायस्कः, सत्रं चेति । एका, तित्रः, -चतस्रः, द्वादश, अपरिमिता वा दीक्षाः सोमयागे भवन्ति । एकस्मिन् दिने -कर्तव्यतया विहिता नियमा यथावदनुष्ठिना एका दीक्षा । ततो यावद्वार -दिनान्तरेष्वभ्यस्तास्तावत्सङ्ख्याका दीक्षा भवन्ति । ततो दिनत्रये, षट्सु, -द्वादशसु वा दिनेषु उपसदोऽनुष्ठेयाः । तत्र एकाहज्योतिष्टोमादौ तिस्रः, -चयने षट् , अहीनादौ द्वादशोपसद इति विवेकः । तत्र दीक्षोपसदा- -मनेकदिनानुष्ठेयत्वेऽपि एकस्मिन्नेव दिने सोमयागानुष्ठानं यत्र स एकाहः। -सोमयागस्य द्विवादिषु दिनेषु पुनः पुनरावृत्य अनुष्ठानं यत्र सोऽहीनः । -तत्र द्विरात्रप्रभृति दशरात्रपर्यन्ता अहीनाः । एकादशद्वादशरात्रावुभावहीन- -सत्रोभयात्मको । द्वादशरात्रस्यैव उभयात्मकतां केचिदभिप्रयन्ति । -त्रयोदशरात्रप्रभृतयः सहस्रसंवत्सरपर्यन्ताः सोमयागाः सताण्युच्यन्ते । -एकस्मिन्नेव दिने सङ्कल्पप्रभृयवभृथान्तमनुष्ठानं यस्य स सायस्क -इत्युच्यते ॥ -सत्राण्यवि द्विविधानि-रात्रिसत्राणि अयनसत्राणि चेति । तत्र -द्वादशरात्रप्रभृति शतरानपर्यन्तानि रात्रिसत्राणि। ततः प्रभृत्ययनसत्राणि इति -सामान्यस्वरूपम् । इदानीं सर्वसोमयागप्रकृतिभूतस्य अग्निष्टोमाख्यस्यैका- -हस्य सर्वसोमयागेभ्यः पूर्वमनुष्ठेयस्य अनुष्ठानप्रकारः संक्षेपतो निरूप्यते । -तस्य आरम्मे पक्षद्वयम्-यस्य अनाहितामेः सोमयागानुष्ठाने तीवेच्छोदिता - -=============== -068.jpg.txt" -===============" + - -===================================================== - -===================================================== -५६ -यज्ञतत्त्वप्रकाश -. -स वसन्ततौं सोमयागोचितं कालं निर्धार्य ततः पूर्वस्यां सप्तम्यामष्टम्यां -दशम्यां वा दीक्षापक्षानुसारेण सङ्कल्प्य अग्न्याधानार्थम् , अग्न्याधान- -विधिना अग्नीनाधाय समनन्तरमेव सोमयागार्थ सङ्कल्प्य तं यथावदनुतिष्ठेत् -इत्येकः पक्षः । न अत्र पक्षे आधानोक्तकालापेक्षा । अथ वा आधानार्थ -विहिते काले यथावदग्नीनाधाय, ततोऽग्निहोत्रदर्शपूर्णमासपशुचातुर्मास्या- -दीन् यागान् यथाकालमनुतिष्ठन् , लब्धायां सामग्रीसम्पत्ती वसन्तौं -सोमयागमनुतिष्ठेत् इत्यपरः पक्षः । द्वावपि सूत्राद्यक्तौ याज्ञिकैरङ्गीकृतौ -च । अतो यथेष्टं तौ परिग्राह्यौ । तत्र पक्षयेऽपि सोमयागानुष्ठाने न -कोऽपि विशेषः ॥ -सोमयागेऽधिकारी -तत्र यो नाम कूश्माण्डैः पवित्रेष्टयादिभिः जपैः पुण्यतीर्थस्नाना- -दिभिर्वा पावनैः कर्मभिरात्मानं शोधयतिस्म, निर्वैरश्च भवति भूतेषु स एव -सोमयागानुष्ठानेऽधिकारी भवति । तत्रापि यस्य पिता पितामहो वा -सोमयागं नान्वतिष्ठताम् , सोऽनहस्सोमयागानुष्ठाने त्रिपुरुषसोमपान- -विच्छेदीति कृत्वा । एवं यस्य पिता पितामहो वा न वेदाध्यायी, न वा -हविर्यज्ञान् श्रौतानन्वतिष्ठत् स दुर्ब्राह्मण इति सोऽपि न सोमयागेऽधि- -करोति । अतस्तादृशदोषद्वयापनुत्तये ऐन्द्राग्नपशुयागम् , आश्विनपशुयागं च -अनुष्ठाय ततस्सोमयागमनुतिष्ठेत् । तत्र आत्मना सह त्रिपुरुषसोमपानाभावे -ऐन्द्राग्नपशुयागोऽनुष्ठेय इति कात्यायनमतम् । आत्मानं मुक्त्वा पूर्वेषां -त्रयाणाम् आनुपूर्येण तथात्वे स इत्यापस्तम्बीयाः । एवं वेद्याः वेदस्य च -त्रिपुरुषविच्छेद एव आश्विनः पशुः । तत्रोभयमप्यनुष्ठेयमित्यापस्तम्बीयाः। -अन्यतरस्यैव अनुष्ठानमिति कातीयाः ॥ -पशुयागद्वयमिदं सोमयागात् पूर्वमेव अनुष्ठाय, तेन च आत्मानं -परिशोध्य, ततस्सोमार्थ सङ्कल्पेत इत्येकः पक्षः । अथ वा सोममध्य एव -चतुर्थदिनेऽनुष्ठीयमानेन अग्नीषोमीयेण पशुयागेन सह तन्त्रण अनुष्ठानमि- -त्यपरः । पृथगनुष्ठानपक्षे सोमयागारम्भात् पूर्वतनपर्वण्येव पशुयागानु- -ष्ठानमिति वेदितव्यम् ॥ -१. तैत्तिरीयारण्यके पठिताः “यद्देवा देवहेडनम्” (ते. आ. २. २. -इत्यादयो मन्त्राः कुश्माण्डाः । तैः क्रियमाणा होमा अपि कुश्माण्डा इत्युच्यन्ते ॥ - -=============== -069.jpg.txt" -===============" + - -===================================================== - -===================================================== -सोमयागनिरूपणम् -. -1 -नाग्नि प्रवृत्तिनिमित्तम् -अत्र बहूनामिष्टिपशूनां सत्यप्यनुष्टाने तेषामङ्गत्वात् सोमद्रव्यक- -यागस्यैव प्राधान्यात् “सोमयागः" इति व्यवहारः। अग्निष्टोमाख्येन साना -समाप्यमानत्वाच "अग्निष्टोमः" इति प्रकृतयागो व्यवहियते । सोमयागो -हि ऋग्यजुस्सामवेदोक्तैः त्रिप्रकारैः अङ्गकलापैः संवलितोऽनुष्ठीयते । तत्र -यजुर्वेदनैव समधिकतमान्यङ्गानि प्रायो यज्ञशरीराभिनिर्वर्तकाणि विधीयन्ते । -ऋग्वेदेन विविधयाज्यापुरोनुवाक्याशस्त्र पुरोरुगादीनि । सामवेदेन च -गानविशिष्टमन्त्रैः क्रियमाणानि यागसम्बन्धिदेवतास्तोत्राणि । तानि च -प्रतिसोमयागं बहून्यनुष्ठयतया विधीयन्ते । अग्निष्टोमाख्ये सर्वयागप्रकृति- -भूतेऽस्मिन् सोमयागे द्वादश स्तोत्राणि । तान्युपरिष्टाद्वक्ष्यन्ते । तत्र -अग्निष्टोमाख्यमन्तिमं स्तोत्रम् । न ततः परं स्तोत्रमस्ति स्तवनीयमस्मिन् -यज्ञे । अतोऽग्निष्टोमाख्येन स्तोत्रेण समाप्यमानत्वादयं क्रतुः “अग्निष्टोम- -संस्थाकः” इति “अग्निष्टोमः" इति च व्यवहियते । एवमग्रेऽपि -सोमयागानां नामानि तत्तत्समाप्तिगतस्तोत्रवशेनैव भवन्ति । यथा- -उक्थ्यः, अतिरान इत्यादीनि । अनुष्ठातृनामभिः, द्रष्टनामभिश्च केचित् -कचित् व्यवहारं भजन्त उपरितनेषु क्रतुषु । यथा--अङ्गिरसां -द्विरात्रम् , जनकसप्तरात्रम् , कुण्डपायिनामयनम् इत्यादि । -सोऽयं सोमयागो नित्यः प्रतिवसन्तं त्रैवर्णिकेन आहिताग्निना -पूर्वोक्ताधिकारिविशेषणयुक्तेन सपत्नीकेन अवश्यानुष्ठेयः । अकरणे प्रत्यवायो -भवति । नित्यस्य सतोऽस्य काम्यत्वमपि तत्तत्फलसाधनत्वेन श्रूयते -वेदेषु सर्वत्र, श्रौतसूत्रेषु च । अत्र द्रव्यं काचिल्ला । तां विक्रेतुस्स काशात् -गवादिद्रव्येण मूल्यभूतेन क्रीत्वा अश्मनः उपरि निक्षिप्य अश्मभिरेव -कुट्टयित्वा, रस निष्कास्य तं तत्तद्देवताभ्यो हुवा हुतशेषं यजमानसहिता -ऋत्विजो भक्षयेयुः । नेयं सर्वत्र सुलभा । कचिदेव तु पवित्रतमे पर्वतादौ । -हिमवति, महेन्द्रे, सह्यपर्वते, श्रीपर्वते, देवगिरी, विन्ध्ये, पारियात्रे, सिन्धु- -.. सोमो लताविशेष:--- -श्यामलाम्ला च निष्पर्णा क्षीरिणी स्वचि मांसला ॥ -श्लेष्मला वमनी वल्ली सोमाख्या छागभोजनम् ॥ (इति वैद्यके) -२. See. आप. श्री. १०.२. १: -8 - -=============== -070.jpg.txt" -===============" + - -===================================================== - -===================================================== -यज्ञतत्त्वप्रकाशे -नदस्य कूलेषु, वितस्ताया नद्या उत्तरभागे स्थितेषु महापर्व तेषु, अन्येषु चैवं- -विधेषु पुण्यस्थलेष्वेवास्या उत्पत्तिः श्रूयते ; विशेषतो मूजवदाख्ये गिरौ -च । परमिदानी नेयं भारतदेशे उपलभ्यते सर्वथा। प्रायेण जानन्त्यपि न -तस्याः स्वरूपम् । तस्याः स्थाने पूतीकाख्यां काञ्चित् तत्साशी (क्रियता- -चन अंशेन) लतामादाय तयैव सोमयागमनुतिष्ठन्त्यनुष्ठातारः । -निरतिशयोऽस्य सोमस्य महिमोपवर्ण्यने वेदेषु, पुराणेषु च । पीतो -मनुष्याणामपूर्वमायुर्घलं पुष्टिं मेधां सर्वातिशायिनीमात्मशक्तिं च विवर्धय- -तीति, नवीनमेव किमपि जन्म समुत्पादयतीति चायुर्वेदादावुधुष्यते । -नास्ति देवानामिन्द्रस्य चेतोऽपि प्रियतम वस्तु त्रिले क्यामिति श्रौतो -वादः । दैवेन अमृतेनापि साकममुमुपमिमते महाभारतादयो ग्रन्थाः । -अस्तु । प्रकृतमनुसरामः ॥ -सोमयागे प्रथमदिनकृत्यम् -सोमयागमिममनुष्ठास्यन् सपत्नीको यजमानो वासन्त्याः पूर्णिमायाः -पूर्वस्याम् अष्टभ्यां (दीक्षाचतुष्टयपक्षे) नवम्याम् (दीक्षात्रयपक्षे) एकादश्यां -(एकदक्षिापक्षे) वा सोमयागसङ्कल्पं करिष्यमाणः ततः पूर्व पर्याप्त समये -सोमप्रवाकं वृत्वा तं तत्तविग्भ्यः प्रेषयेत् । स तानवाप्य 'यज्ञेश्वरशर्मणः -सोमो भविष्यति, तत्रभवता आर्विज्यं कर्तव्यम्', 'हौत्रं कर्तव्यम्' -इत्यादि कथयेत् । स च ऋत्विक् तत्र आविज्यं चिकीर्षन् आधानादिषु -पूर्वानुष्ठितेषु कर्मसु “अस्य के ऋत्विजः ? के वा याजकाः१ कच्चित्कल्याण्यो -दक्षिणाः १" इति पृच्छेत् । समुचितमुत्तरं तस्मादवाप्य, स्वीकृत्य आविज्य- -करणं यजमानगृहमागेतषु तेषु तान् यजमानो मधुपर्कदानेन यथावदर्च- -यित्वा ये यत्र कुशलाः तस्मिन् तस्मिन् कर्मणि तान् वृणुयात् । 'अध्वर्यु -त्वां वृणे', 'होतारं त्वां वृणे' इत्यादिः वरणप्रकारः । मधुपर्ककाले -वनालङ्कारामरणादिभिः ते समर्चनीयाः । ते च चत्वारो गणाः । -एकैकस्मिन् गणे चत्वारः, इत्याहत्य ते षोडश भवन्ति ॥ -क. सोमयागं करिष्यता यजमानेन ऋस्विजां वरणाथै तत्तत्समीपं य: -प्रेष्यते स सोमप्रवाकः । सोमं प्रकर्षेण वक्ति ऋत्विग्भ्य इति । -१. See. आप. श्री. १०.१.२, ३. ॥ - -=============== -071.jpg.txt" -===============" + - -===================================================== - -===================================================== -सोमयागनिरूपणम् -यथा- -१. अवयुगुणः -२.ब्रह्मगणः -३. होतृगणः -४. उद्गातृगणः -१ अध्वर्युः । १ ब्रह्मा। १ होता। १ उद्गाता। -२ प्रतिप्रस्थाता। २ ब्राह्मणाच्छंसी। २ मैत्रावरुणः। २ प्रस्तोता । -३ नेटा। ३ आग्नीध्रः। ३ अच्छावाकः। ३ प्रतिहती। -४ उन्नेता। ४ पोता। -४ ग्रावस्तुत् । ४ सुब्रह्मण्यः । -एनदतिरिक्तं सदस्यनामकमृति सप्तदशं कथयन्ति केचन -सूत्रकाराः । एवमृस्विजो वृत्वा कर्मणो निर्विघ्नपरिसमाप्तये देवता -उपस्थाय, गाईपत्याग्निमरण्योः समारोप्य, तमग्निं शमयित्वा अरणी -यज्ञसामग्रीश्च गृहीत्वा, गृहात् सोमयागार्थ पूर्वनिर्णीतं स्थानं सपत्नीको -गत्वा, तत्र अरणी मथित्वा, पूर्वनिर्मिते गार्हपत्यायतने मथनोत्पन्नमनि -प्रतिष्ठापयेत् । ततोऽध्वर्युराहवनीयं प्रणीय, तत्र संभारयजुस्संज्ञकान (एक) -चतुर्विंशतिसङ्ख्याकान् होमान् हुत्वा, तमग्निं विसृज्य, पुनर्गार्हपत्यात् -प्रणीय, सप्तहोतृपंज्ञकं होमं कृत्वा, तमप्युत्सृज्य, पुनः तत एवाहवनीय- -दक्षिणामी विहृत्य तत्र दीक्षणीयेष्टिं कुर्यात् । तत्र एकादशकपालः पुरोडाशो -द्रव्यम् । अग्नाविष्णू देवता । पुरोडाशस्तु व्रीहिपिष्टैरेस निष्पाद्यः । तां -परिसमाप्य तत्र प्राचीनवंशसंशिका विमितसंज्ञिकां वा शाला निर्माय -तस्योत्तरभागे बहिरावृतदेशे यजमानो वपनं कारयित्वा स्थावरास्वप्सु -तीर्थे स्नात्वा अध्वर्युणा दत्ते दुकूले वन परिदध्यात् । एवं यजमानपल्या -अनि केशवर्ज वपननखनिकृन्तनस्नानवस्त्रपरिधानानि भवन्ति । अत्र -पल्या वपने विकल्प केचिदिच्छन्ति । नखनिकृन्तनादिकं तु भवत्येव । -ततो जायापती प्राग्वंशमण्डप एव स्वाभिरुचितं शास्त्रानिषिद्धं वस्त्वन्ना- -दिकं भुजीयाताम् । तत उभावपि स्वाङ्गानि नवनीतेन अनुलिम्पतः । -अञ्जाते च स्खे अञ्जनेनाक्षिणी । ततोऽध्वर्युः दीक्षाहुतीः षट् हुत्वा. -शालाया उपरि आच्छादनधारणवंशा यस्मात् प्रागग्रा एव, तत इयं -संज्ञा। -क. -. -See. आप. -औ. -२. See. कात्या श्री. ७. १. १४-१८. -३. See. कात्या. श्री. ७. २. १९. - -=============== -072.jpg.txt" -===============" + - -===================================================== - -===================================================== -६० -यज्ञतत्त्वप्रकाशे -यजमानाय कृष्णाजिनद्वयं दद्यात् । स तत् परिगृह्य, आहवनीयसमीपं -गत्वा भूमौ तदास्तीर्य तदुपरि कटिप्रदेशेन आरुह्य, उपविश्य, मेखलां -मुखतृणनिर्मिताम् अध्वर्युदत्तां कट्यां बद्ध्वा, ककृष्णमृगस्य शृङ्गं -शरीरकण्डूयनार्थम् , उदुम्बावृक्षीयं स्वसमपरिमाणमूर्ध्वतायां दण्डं च -यजमानो गृहीत्वा धारयन्नासीत । यदा स्वाङ्गेषु कचित् कण्डूति येत -। तदा कृष्णमृगशृङ्गेणैव कण्डूयेत, न नखेन । एवं यजमानपत्न्याः शिरसि -इषीकानिर्मितं जालं, कट्यां मुञ्जनिर्मित योक्त्रं च बनीयात् । ततो -यजमानो मुष्टिबन्धनं कुर्यात् । तत्र द्वयोर्हस्तयोः कनिष्ठिकातो यावदगु. -ष्ठम् अङ्गुलीर्मोटयेत् । ततो हस्तद्वयेऽपि कनिष्ठिकानामिके विसृजेत् । -विसर्गस्तु व्रतग्रहणानन्तरमने कर्तव्यः । मुष्टिकरणानन्तरम् अध्वर्युर्य जमान -दीक्षितं देवेभ्यो मनुष्येभ्यश्च आवेदयेत्-अदीक्षिष्ट अयं ब्राह्मणाऽमुकशर्मा -अमुकस्य पुत्र इत्यादि । अत्र पितृपितामहप्रपितामहानां मातृपितामही- -प्रपितामहीनां च नामानि वक्तव्यानि । एवं त्रिरुपांशु त्रिरुच्चैश्चावेदने अध्वर्युणा -कृते यजमानो वानियमनं कृत्वा रात्रौ नक्षत्रोदयपर्यन्तं तथैवासीत । -नक्षत्रोदयानन्तरं व्रतकरणप्रेषेणैव (तं कृणुत) वाचं विसृजन् अध्वर्युणा -पयसि दत्ते तत् पियेत् । पत्न्यपि चैवं कुर्यात् । एवमेव प्रतिदिनमहनि रात्री -च पय एवं पिबेतां यजमानः पत्नी च । यदि पयो न लभ्यते पयसैव वा -प्राणधारणं दुष्करं मन्त्राते तदा दधि, उदुम्बरफलानि, धानाः, -सक्तून् , ओदनमात्रं वा भुञ्जीयाताम् ॥ -ततो यज्ञोपयोगिद्रव्याजनाय याचकान् प्रेषयेत् । याच्नेयं -धनिकस्यापि नित्या । आगतानि द्रव्याणि तत्तन्मन्त्रेण गृह्णीयात् । -एतावता प्रथमदिनकृत्यं समाप्यते । यजमानस्तस्यां रात्री जागरण -कुर्यात् । व्याकरणसंस्कृतैरेव शब्दैर्व्यवहरेत् , न लौकिकी वाचं वदेत् । -असच्छू नै सम्भाषेत । नास्य नाम कश्चित् ब्रूयात् । सुत्यादिने -क. कृष्णवर्णो हरिणः कृष्णमृगः । तस्य शृङ्गं विषाणम् । -ख. पक्षीयजमानयोः पानार्थ पयःप्रदानमेव व्रतकरणमित्युच्यते । -" १ -१. See. आप. श्री. १०.८. ११-१६. -२. See. १०. १६, १७, कण्डिके ; allso. ते. आरण्यक.२. -३. आप. श्री, १०. १८, ४-७. बौधा. श्री. ६. ८. का. औ, -. -. - -=============== -073.jpg.txt" -===============" + - -===================================================== - -===================================================== -सोमयागनिरूपणम् -दक्षिणादानात् पूर्व न कृष्णविषाणं विसृजेत् । न दन्तान् दर्शयेत् । -नोचैर्हसेत् । नानृतं वदेत् । न मांसमश्नीयात् । न स्त्रियपेयात् । नोपरि -खट्टादौ शयीत । न सन्ध्ययोः प्राग्वंशावहिर्गच्छेत् । यावद्दीक्षाग्निहोत्रदर्श- -पूर्णमासादीनि श्रौतकर्माण्यपि नानुतिष्ठेत् । न अन्यस्मै किञ्चिद्दद्यात् । -दीक्षाव्यजकानि कृष्णाजिनादीनि सर्वदा धारयेत् ॥ -॥ एतावत् प्रथमदिनकृत्यम् ॥ -द्वितीयदिनकृत्यम् -ततो द्वितीयस्मिन् दिने आवश्यकं कर्म कृत्वा प्रातरेव प्रायणीयेष्टिं -कुर्यात् । तत्र पञ्च देवताः । पथ्या स्वस्तिः प्रथमा । अग्निद्वितीयः । -सोमस्तृतीयः । सविता चतुर्थः । अदितिः पञ्चमी । तत्र पथ्यादीनां -चतुर्णामाज्यं द्रव्यम् । अदितेरोदनः । आहवनीयेऽग्नौ तमोदनं पक्त्वा -आहवनीय एव पूर्वादिषु चतसृष्वपि दिक्षु पथ्यादिभ्यः क्रमेण आज्यं हुत्वा -मध्ये अदित्या ओदनं जुहुयात् । यस्मिन्नोदनः पक्क तत् पात्रमप्रक्षाल्यैव -क्वचित् स्थापयेत् । तथैवोदयनीयेष्टिहविःपाकार्थं तदुपयुषीत ॥ -सोमक्रयः -ततस्सोमक्रयः । तदर्थ यया गवा सोमं केतुमिच्छति यजमानः तां -सोमशकटसमीपं नीत्वा अवस्थाप्य, कुत्सितेन ब्राह्मणेन शूद्रेण वा -शकटेऽवधाय आनीतं सोमं विचित्य अङ्गुलीभिर्यावदपेक्षं सोमं विमाय -तं क्षौमवस्त्रे निक्षिप्य सोमविक्रयिणो हस्ते दत्वा तम् “सोमविक्रयिन् -कय्यस्ते सोमः १" इति पृष्ट्वा तेन 'क्रय्यः' इत्युक्ते क्रमेण तं दशभिर्द्रव्यैः -क्रीणाति । तानि च- -१. गौरेकहायनी -अनड्वान् शकटवाही -२. हिरण्यम् -८. वत्सतरःख -३. अजा -९. वत्सतरी -४-५. धेनुस्सवत्सा १०. वासः -६. ऋषभः -इति दश । -सोममध्यपतितानि तृणादीन्यपाकृत्य जेमस्य संशोधन विचयनम् । -सद्योऽतिकान्तबालभावः ऋषभो वत्सतरः । -क. -ख. -See, आप. श्रा.१०.२५. बाधा. श्री.६.१५. कात्या. श्री. ७.८, -. - -=============== -074.jpg.txt" -===============" + - -===================================================== - -===================================================== -६२ -यज्ञतत्त्वप्रकाशे -तत्र प्रथमक्रमे "गवा ते क्रीणानि" इत्यध्वर्युणोक्ते सोमविक्रयी -"भूयो वा अतस्सोमो राजा अर्हति" इति प्रतिब्रूयात् । ततोऽध्वर्युः -"हिरण्येन क्रीणानि" इत्यादि । एवं दशमद्रव्यपर्यन्तं प्रश्नपतिवचने भवतः । -दशमद्रव्येण क्रये कृते न ततो भूयस आशंसनम् । विक्रीतं सोममध्वर्यु- -हस्ते दत्वा क्रय द्रव्याण्यादाय सोमविक्रयी गच्छेत् । गच्छन्तं तं न -विलोकयेत् । अत्र क्रयार्थ दत्तस्य हिरण्यस्य पुनर्ग्रहणम् , अन्यया गवा -एकहायन्या निष्क्रयणं च सूत्रकारा आमनन्ति । ततः क्रीतं सोमं -यजमानः स्वस्य दक्षिणस्मिन्नूगवासाद्य हस्ताभ्यां निगृह्य आसीत । -ततस्तमादायोत्थाय हविर्धानशकटसमीपमानीय, तत्र तं निक्षिप्य, -शकटेऽनड्वाही नियुज्य, ताभ्यां शकटं वाहयित्वा प्राग्वंशस्य अग्रतः -यज्ञवाटमानाय्य सोमहविर्धान शकटस्य दक्षिणं बलीव मोचयित्वा, -सव्यमविमोच्चैव, आतिथ्येष्टिं कुर्यात् । तत्र विष्णुर्दैवता । नव कपालः -पुरोडाशो द्रव्यम् । इष्टिरियं सोमस्य राज्ञ आतिथ्यस्थानीया । -हविकृदाह्वानकाल एव द्वितीयस्य अनडुहो विमोचनं शकटात् । तदैव च -सोमं राजानं शकटादवरोप्य, पूर्वसन्जितायाम् , आहवनीयसमीपेऽवस्था. -पितायां राजासन्धाक तमवस्थापयेत् । ततः इष्टिं तां परिसमाप्य -परस्परमवैराय ऋत्विजो यजमानश्च पात्रस्थापितमाज्यं स्पृष्ट्वा प्रतिज्ञा -कुयुः । तत् तानूनप्तनित्युच्यते । ततः प्रवर्यानुष्ठानम् ॥ -प्रवर्यः -प्रवर्य इति कर्मणो नामधेयम् । स च सोमयागाङ्गभूत एव । परं -तैत्तिरीयसंहितायां ब्राह्मणे वा नास्य मन्त्रा ब्राह्मणानि वा आनायन्ते । -तैत्तिरीयारण्यके परं चतुर्थपञ्चमयोः प्रश्नयोः क्रमेण मन्त्रा विधयश्चास्नाताः। -काण्वमाध्यन्दिनयोः संहितयोः पत्रिंशादिषु त्रिवध्यायेषु मन्त्राः -तच्छतपथयोः षोडशे त्रयोदशे च काण्डे विधयश्च यथाक्रममामाताः । -एवं मैत्रायण्यादिष्वपि शाखासु स्वतन्त्रतयैव प्रवर्यविधिमन्त्राः पठिताः । -सूत्रकारा अपि प्रवर्यविधि सौमिकप्रयोगेऽनन्तर्भाव्यैव स्वतन्त्रतस्तं -पठन्ति, तथापि सर्वे तस्य सोमयागाङ्गत्वमभिप्रयन्ति क्वचित् प्रयोग- -राजा सोमः, तत्स्थापनाय या आसन्दी सा राजासन्दी। -१. See. आर. श्री. १५. कात्या. औ. २६. बोधा. श्री. ९. -क. -, - -=============== -075.jpg.txt" -===============" + - -===================================================== - -===================================================== -सोमयागनिरूपणम् -६३ -विशेषे विकल्पयन्तः । अनुष्ठातारः परं नियमेन सोमयागमध्य एव -अनुतिष्ठन्ति । अतोऽत्रैव तत्स्वरूपमपि निरूप्यते । तदपेक्षितानि -पात्राणि साधनानि च पूर्वमेव सम्पादनीयानि ॥ -प्रवर्दीसम्भाराः -तत्र प्रथमतो महावीराख्य पात्रनिर्माणं कर्तव्यम् तत्प्रकारश्चेत्यम्-~~ -कस्यांचिदमावास्यायां पूर्णिमायां वा अभ्रिम् , अश्वं, कृष्णाजिनं, सवत्सामा -च गृहीत्वा यत्र महावीरायु युक्ता मृदस्ति प्राच्यां दिशि तत्र गत्वा मृदं -खात्वा, कृष्णाजिने न्युप्य, अश्वेन अवघ्राप्य, मृद उपरि आज पयो -दुग्ध्वा, तां मृदं बहुभिराहार्य विहारस्योत्तरतोऽवस्थाप्य, तस्यां -वराहोत्खातां मृदं, वल्मीकमृदं, पूतीकान , अजलोमानि, कृष्णाजिन- -लोमानि, अन्यानि च दृढीकरणार्थानि वस्तूनि संयोज्य पिष्ट्वा, उष्णजलेन -संमिश्य, संयुत्य, तया मृदा त्रीन् महावीरान् कुर्यात् । ते च प्रादेश- -मात्रो ः मध्ये स्थलत्रयसंगृहीताः, स्थलत्रयोन्नताः उपरिबिलाः स्युः । एवं -तयैव मृदा अवशिष्टया हस्त्योष्ठाकारे द्वे दोहनपात्रे, आज्यस्थालीम , अश्वौ -द्वौ, रोहिणपुरोडाशार्थ द्वे कपाले च निर्माय, तानि च सूक्ष्मवस्त्रादिभिः -लक्षणीकृत्य, गार्हपत्यस्य, पुरस्तादवटं खावा, तानि तत्रेष्टकावत् -पचेत् । पाकाथ अनि कुशैः मुञ्जतृणैश्च आदीपयेत् । पक्केषु तेषु शफाभ्यां -महावीरानुदास्य, भूयसा अजापयसा तान् प्रोक्षेत् । येनोज्ज्वला भवेयुर्महा- -वीराः । इम एव प्रवर्य संमाराः मार्तिकाः । वानस्पत्यास्तु उदुम्बरकाष्ठैः -कारयितव्याः । ते च-सम्राडासन्दी मौजीभिस्स्यूना रज्जुभिः । द्वे नचौ -गर्तवत्यौ । द्वे चागते । द्वौ शफौ महावीरग्रहणाौँ । धृटी अङ्गार- -निरूहणार्थे । काष्ठे । मेथी गोवन्धनार्था । यशङ्कयो वत्सबन्धनार्थाः । -व्यजनानि त्रीणि कृष्णाजिननिर्मितानि । द्वौ रुक्मौ वर्तुलाकरौ । एको -राजतः, एकस्सौवर्णः । अभिधानी गोबन्धनार्थी (रज्जुः) निदाने गोः -पादबन्धनार्थे (रज्जू)। विशाखदामानि वत्सबन्धनार्थानि (रजव एव) । -प्रभूतानि मुअतृणानि च ॥ -प्रवर्यानुष्ठानम् -एवं सम्भारान् संभृत्य स्वकाले प्रवर्यमारममाणोऽध्वर्युः ब्रह्मगा -अनुज्ञातः रौहिणपुरोडाशनिष्पादनाय आमीभ्रमाज्ञाप्य वेदेर्दक्षिणतो दक्षिण- -। - -=============== -076.jpg.txt" -===============" + - -===================================================== - -===================================================== -६४ -यज्ञतत्वप्रकाशे -द्वारसमीपे गवादिबन्धनार्थ चतुरश्शकून् निहन्यात् । ततो वालुकाभिः -गार्हपत्यस्योत्तरतः स्थण्डिलमेकं कल्पयित्वा गाहपये मुञ्जप्रलवानादीप्य -ततो जातं दीयमग्नि स्थण्डिलोपरि निक्षिप्य तस्मिन्नग्नौ महावीर स्थापयित्वा -तमाज्येन अभिपूर्य सौवर्णेन रुक्मेण तन्मुखं पिधाय, तमग्नि कृष्णाजिन- -व्यजनेन वीजयित्वा, समि द्वेऽग्नौ महावीरमाज्येन पूरयित्वा, पुनः -रुक्मेण तेन मुखं पिधाय पूर्ववत् व्यजनेन वीजयित्वा (वीजयितार:- -अध्वर्युः, प्रतिप्रस्थाता, आग्नीध्रश्च) प्रज्वलितेऽग्नौ रुक्ममपादाय, अग्नि -परीत्य व्यजनानि प्रतिस्थातृमारा कसम्राडासन्धामासाद्य महावीरमवे- -क्षमाणा आसीरन् । ततोऽध्वर्युः पूर्वनिखातेषु शकुषु गां, गोवत्सम् , -अजां, तद्वत्सं च बद्ध्वा गां दुह्यात् । प्रतिप्रस्थाता च अजाम् । उभावपि -दुग्धं पय आग्नीध्रहस्ते दद्याताम् । स च पयसी पृथक् पृथगानीय -प्राग्वंशं प्रविशेत् । ततः पूर्वमेव प्रविष्टोऽध्वर्युः गोपयः अजापयश्च -गृहीत्वा महावीरे क्रमेण प्रक्षिपेत् । तदानीमुत्थितमूष्माणमनुमन्त्रयेत् । -तदिदं तप्ते घृते पयःप्रक्षेपणं प्रवृञ्जनमित्युच्यते । अत एव तत्सम्बन्धात् -कर्मणोऽस्य प्रवर्थ इति नाम सम्पन्नम् ॥ -ततः प्रतिप्रस्थातरि दक्षिणं रौहिणपुरोडाशम् अगायां जुह्वां -स्थापितं तयैव आहवनीये जुह्वति, अध्वर्युः आश्रावणप्रत्याश्रावणादि -कृत्वा महावीरस्थं पयोमिश्रितं घृतमाहवनीये जुहुयात् । 'धर्मः' -इत्यपि तस्य संज्ञा । तदीयपयो यस्या दुग्धं सा गौः 'धर्मधुक' -इति व्यवहियते । धर्मस्य अश्विनौ, इन्द्रश्च देवते । अवशिष्टेन -स्विष्टकृतं हुत्वा, ततः उन्नीकृतेन दना आहवनीयस्योपरि अध्वर्युगा -ध्रियमाणस्य महावीरस्य पूरणे प्रतिप्रस्थात्रा कृते तदपि किश्चिदिव हुत्वा, -शेषमन्तर्वेदि निधाय, पूर्वस्मिन् खरे महावीर प्रतिष्ठाप्य, अत्र प्रति- -प्रस्थात्रा उत्तरस्य रौहिणपुरोडाशस्य होमे कृते अध्वर्युः षट् शकलहोमान् कृत्वा -अग्निहोत्रं हुत्वा, होतृनलाग्नीध्रयजमानस्सह शेषभक्षणं कुर्यात् । ततो -महावीरादीनां प्रवर्य संभाराणां सम्राडासन्यां स्थापनम् । अयं प्रातः- -प्रवर्यः । एवमेव सायं प्रवर्यः । छिन्नस्य यज्ञशिरसः सन्धानार्थ प्रवग्या- -नुष्ठानमिति श्रौती (वैदिकी) कथा । सा चेत्थम्-पूर्व कदाचिद्देवा -क. सम्राटशब्देन महावीर उच्यत । तत्स्थापनार्था आसन्दी सम्राडासन्दी.। -१. तै. आ. ४. १. - -=============== -077.jpg.txt" -===============" + - -===================================================== - -===================================================== -सोमयागनिरूपणम् -विष्णुना सह मिलित्वा कुरुक्षेत्रे कश्चन सत्रविशेषमन्वतिष्ठन् । तजनितं -यशो विष्णुमेव अवाप, नान्यान् सुरान् । तदसहमाना देवास्तमुपारुन्धत । -ततस्सोऽन्यत्र अपक्रामन् तैरनुद्रुतस्वशरीरात् धनुरिषु च सृष्ना तेन तान् -व्यदधुमारभत । ततो भीतान् दूरत एव अवस्थितान् देवानवलोक्य -विस्मयमानः स स्वचुबुकस्याधोभागे धनुषः कोटिमेकामवष्टभ्य कोट्यन्तरं -भूमाववधाय दिशो विलोकयन्नासीत् । तदा इन्द्रेण प्रार्थितास्ततो लब्धवराश्च -वम्रयःक तद्धनुपो ज्यां भूमिष्ठकोटिगतामच्छिन्दन् । ततो वेगादुत्पतत् -धनुषः कोट्यन्तरं भगवतो विष्णोः शिरः कण्ठात् उत्पाव्य, उपर्याकाशे -प्रास्यत् । ततोऽपगतशिरा विष्णुः संवृत्तः । विष्णोरेव यज्ञरूपत्वात् यज्ञस्य -शिरश्छिन्नमित्यवगतं सर्वैः । ततश्छिन्नशिरसा अशिरस्केण यज्ञेन अनुष्ठितेन -किमपि फलमनाप्नुवाना देवाः छिन्नं तच्छिरःप्रतिसन्धातुं प्रार्थयन्त अश्विनौ । -तौ वरमवृणीताम्---'सोमयागेऽद्य यावदभागिनावावां स्वः, यद्यावयोरपि -यागेष्वितः परं हविर्भागो दीयेत, तदा आवां शिर एतद्यज्ञस्य प्रतिसन्द- -धावहै' इति । 'तथा' इत्यभ्युपगतवत्सु देवेषु तौ तच्छिरः प्रतिसमधत्ताम् । -तदिदं यज्ञशिरःप्रतिसन्धानरूपमेव प्रवर्यकर्म । महावीरस्तु यज्ञशिरो- -रूप इति ॥ -उपसत् -एवं प्रातःप्रवर्ग्यमनुष्ठाय, ततः प्रातरुपसदनुष्ठेया । सा अपूर्वा -काचिदिष्टिः । तत्र अग्निः, सोमः, विष्णुः इति प्रधानदेवताः । सर्वत्र -आज्यं द्रव्यम् । प्रायेणोपांशुयाजवत् प्रयोगः । प्रधानाहुत्यनन्तरं प्रथमोप- -सद्धोमः । एवं प्रातःप्रवर्योपसदावनुष्ठाय, सुब्रह्मण्याह्वानं कृत्वा -विरामः । ततोऽपराले (सायंकालीने) आपराह्निक्यौ प्रवर्योपसदौ, -सुब्रह्मण्यावानं च । एवं दिनत्रयं (द्वितीयतृतीयचतुर्थदिवसेषु) सायं- -प्रातरनुष्ठेयम् । तेन अग्निष्टोमे षड्वारं प्रवग्र्योपसदोरनुष्ठान सिध्यति ॥ -तृतीयदिनकृत्यम् -द्वितीयोपसहिने (दीक्षातस्तृतीयदिवसे) प्रातःप्रवर्योपसदावतु- -ष्ठाय, महावेदेर्निर्माणं कर्तव्यम् । सा च प्राचीनवंशमण्डपात् पुरतः -, -क. उपदीकाः श्वेतपिपीलिकाः। -See. आप. श्री. ११. ३. १३-४. ७. बौधा. भौ. ६, २१.. -कात्या. श्री. ८. २. १४-३६. -9 - -=============== -078.jpg.txt" -===============" + - -===================================================== - -===================================================== -६६ -यज्ञतत्वप्रकाशे -षट् पदानि परित्यज्य ततो निर्मातव्या । प्रापश्चात् द्विसप्ततिपदायामा -दक्षिणोत्तरतः षष्टिपदविस्तारा च भवति । श्रोणिभागे, अंसभागे च अष्टा- -चत्वारिंशञ्च । विशेषविवरणं त्वेतदन्ते कृतम् । एवं समग्रां वेदिं विमाय -प्रातः ततो यजमानस्य व्रतकरणम् (पयःपानम्) सायं सायाहिकीभ्यां -प्रवगर्योपसयां प्रचर्य *सुब्रह्मण्यामाहूय व्रतं कृत्वा विरमणम् । एतावत् -तृतीयदिनकृत्यम् ॥ -चतुर्थदिनकृत्यम् -तृतीयोपसहिने दीक्षातश्चतुर्थदिने प्रातरेव द्वयाभ्यां प्रवग्र्योपसद्भयां -प्रचर्य प्रवर्दीमुद्वास्य, उत्तरवेद्या प्रवर्यपात्राणि प्रक्षिप्य, अग्नीषोमीयस्य -पशोस्तन्त्रमारभेत । यदि दुर्भाह्मणो यदि वा त्रिपुरुषविच्छिन्नसोमपानः -स्यात् तदा ऐन्द्राग्नाश्चिनपशुभ्यां सह तन्त्रेण अग्नीषोमीयं पशुयाग- -मनुतिष्ठेत् । अन्यथा एकमेव तम् । अतस्तदर्थमाहवनीये इध्मकाष्ठान्या- -धाय ज्वलन्ति तान्यादाय, आसन्दीस्थं सोममपि सहैवादाय, निरूढपशु- -यागवत् महावेद्यन्तर्गतायां निहितसम्भारायाम् उत्तरवेद्यां तमग्नि प्रणयेत् । -तन्मध्ये स्थापयेत् । ततः प्रभृति यज्ञसमाप्तिं यावत् स एव आहवनीयः । -यतः स प्रणीतः स गार्हपत्य इतः परं भवेत् । यो गार्हपत्यः स इतः परं -प्राजहितसंज्ञकः । आनीतं सोमं दक्षिणहविर्धानमण्डपस्थहविर्धानशकटे -स्थापयेत् । एवमग्नि प्रणीय चावालस्थान पासूनादाय तैर्धिष्ण्यानुपवपेत् । -ततः अग्नीषोमीयपशोस्तन्त्रानुष्ठानपक्षे त्रयाणां वपायागपर्यन्तमनुष्ठाय, -सुब्रह्मण्येन सुब्रह्मण्याह्वाने कृते, सोमाभिषवाय, अभिषुतरसवर्धनाय च -तडागादितो वसतीवरीसंज्ञकं जलं घटे गृहीत्वा तं जलपूर्ण घटम् अध्वर्युः -शालामुखीयमपरेण स्थापयेत् । ततो मध्यन्दिने पशुपुरोडाशयागं, सायाह्ने -हृदयादिपश्चङ्गयागं चानुष्ठाय पत्नीसंयाजान्तान्यङ्गानि कृत्वा पशुयागं -समापयेत् । ततो रात्रावध्वर्युः घटं वसतीवरीपूर्ण स्कन्धेन आदाय वेदेः -परितो यथाविधि हरन् पुनस्तत्रैव निक्षिपेत् । तदा प्रतिप्रस्थाता -श्योऽपेक्षितामिक्षार्थं वत्सापाकरणादि दर्शवत् कृत्वा दध्यातच्यात् । -अत्र सुब्रह्मण्याशब्देन इन्द्र उच्यते । तस्य सुत्यादिवसे तदुद्देशेन -त्यक्ष्यमाणस्य सोमरसस्य पानार्थमाह्वानं सुब्रह्मण्याह्वानम् । तच्च द्वितीयदिनप्रभृति -सायंप्रातःप्रवर्योपसदनुष्ठानानन्तरम् उद्गातृगणान्तिमेन ऋत्विजा कर्तव्यम् । -तत्कर्तृत्वात्तस्य सुब्रह्मण्य इति संज्ञा । अतः प्रभृति नाम सुब्रह्मण्याहानम्- -अमुकशर्मा यजत इत्यादि । -क, - -=============== -079.jpg.txt" -===============" + - -===================================================== - -===================================================== -सोमयागनिरूपणम् -। -दधिग्रहाद्यर्थमपि दधि सम्पादनीयम् । ततस्सवनीयहविरथ बहिराहरणादि -कृत्वा विरमणम् । रात्रौ यजमानस्य जागरणं पत्न्याश्च । एतावत् -चतुर्थदिनकृत्यम् ॥ -पञ्चमदिनकृत्यम्-सुत्यादिनम् -तस्यामेव रात्रावैपरभागे महाराने वा सर्व ऋत्विजः प्रबुध्य स्नात्वा -सोमाभिषवसम्बन्धीनि कर्माण्यारमेरन् । तत्र प्रथमं तानि तानि पात्राणि -ग्रहचमसादीनि तत्तत्स्थानेषु योजयेदध्वर्युः । ततः पक्षिणां प्रबोधात् -पूर्वमेव प्रातरनुवाकाख्यं शस्त्रं होता आरभेत । तदैव च प्रतिप्रस्थात्रा -सवनीयहविषां निर्वापः कार्यः । तानि च--धानाः, करम्भः, परिवापः, -पुरोडाशः, पयस्या इति पञ्च । तेषाम् , इन्द्रो हरिवान् , इन्द्रः पूषण्वान् , -सरस्वती भारती, इन्द्रः, मित्रावरुणौ इति क्रमेण देवताः । सरस्वत्यादीनां -त्रयाणामिव हरिपूष्णोरपि स्वातन्त्र्येण देवतात्वमिच्छति कात्यायनः। ततो -दधिग्रहप्रचारःख । स चेत्थम् -उदुम्बरवृक्षनिर्मिते उलूखलाकारे -चतुष्कोणे पात्रे पूर्वदिनसम्पादितं दधि प्रजापतिदेवतायै गृहीत्वा तस्या एव -जुहुयात् । अतो दधिग्रहे दधि द्रव्यम् , प्रजापतिर्देवता । ततोऽदाभ्यग्रहः । -ग्रहं (पात्र) लौकिकेन पयसा दना वा प्रपूर्य पूर्वमुपनह्य रक्षितानां -सोमलतावयवानां मध्यात् अंशुत्रयं प्रवृह्य तान् ग्रहोपरि स्थापयित्वा -ग्रहं पञ्चकृत्वस्सप्तकृत्वो वा आधूय तं ततो जुहुयात् । अत्र सोमो देवता ॥ -ततोऽशुग्रहः । तत्र एकग्रहपर्याप्तं सोमं गृहीत्वा पाषाणोपरि -निक्षिप्य वसतीवरीभिरद्भिः संसिच्य, अभिषुत्य ग्रावभिः, तस्मिन्नेव -अदाम्यग्रहपात्रे गृहीत्वा जुहुयात् । प्रजापतिर्देवता । अश्वदाम्यग्रहयो- -रेकमेव पात्रम् । ततस्तत्पात्रेण सह सदः प्रविश्य तत्र तगतसोमरसं -भक्षयित्वा पात्रं खरे सादयेत् ॥ -क. भ्रष्टयवा धानाः । आज्यमिश्रिता यवसक्तवः करम्भः । लाजाः -परिवापः । पयस्या आमिक्षा । -ख. दध्यदाभ्यांशुग्रहाः कात्यायनीयानां न विहिताः । -4 -. -See. कात्या. श्री. ९. १. १. -२. आप, औ. १२. १. १. also बौधा. श्री. ७. १. -३. आश्व. श्री. ४. १३, ६, ७. - -=============== -080.jpg.txt" -===============" + - -===================================================== - -===================================================== -यज्ञतत्त्वप्रकाशे -तत उपांशुग्रहः । तत्र क्रीतं, वस्त्र उपना स्थापितं सोममवमुच्य -सर्व गृहीत्वा, द्विधा विभज्य प्रातस्सवनाथं भूयांसं माध्यन्दिनसवनाय -अल्पीयांसं च तं कृत्वा, प्रातस्सवनार्थात् सोमात् एकग्रहपर्याप्तं सोमं गृहीत्वा -होतृचमसेऽवधाय, वसतीवरीजलेन आसिच्य ग्रावभिः पिष्ट्वा रसं निष्पीड्य -तमजलिना गृहीत्वा अध्वर्युरुपांशुपाने आनयेत् । एवं वारत्रयं कृत्वा -रसपूर्ण ग्रहमादाय यथावज्जुहुयात् । अयमधाराग्रहः । प्राणोऽत्र देवता। -इतः सर्वे अन्तर्यामप्रभृतयो ध्रुवान्ता धाराग्रहाः । धारातो ग्रहीतव्याः । -तदर्थमृत्विग्भिस्सोमाभिषवः कर्तव्यः । सोऽयं महाभिषव उच्यते ॥ -महाभिषवः -तत्र अभिषवस्थानेऽध्वर्युगणगतास्सर्वे उपविशेयुः । तत्र पुरस्ता- -दध्वर्युरुपविशेत् प्रत्यङ्मुखः । दक्षिणतः प्रतिप्रस्थातोदङ्मुखः । पश्चाद्धोता -प्रामुखः । उत्तरत उन्नेता दक्षिणामुखः । एवमभिषवार्थ ग्राव्णस्समन्ता- -दुपविश्य, तदुपरि सोमं निक्षिप्य, वसतीवरीजलमासिच्य पिष्टवा दक्षिण- -हस्तेनाभिषुणुयुः । एवं वारत्रयं कृत्वा, पिष्टान् सोमांशून् आघवनीये -मृत्पात्रे निक्षिप्य, प्रपीड्य, रसं निष्कास्य, तं पात्रान्तरे कृत्वा, ऋजीर्ष -ग्राव्णां पुरतः प्रक्षिपेयुः । तेषां तत् घास(भक्ष)स्थानीयं भवति । -ततस्सोमक्रयकाले सुरक्ष्यस्थापितैरजलोमभिः प्रादेशमात्री नाभिं कृत्वा -(गोवत्सनाभिवत्) पवित्राख्यस्य सोमशोधकस्य वस्त्रखण्डस्य मध्ये -तामवालम्ब्य, तत् वासःखण्डं सनामि द्रोणकलशाख्यस्य पात्रस्योपरि -वितत्य धारयेयुरुगातारः । तदोन्नेता आधवनीयादुदचनेन सोमरसं गृहीत्वा -होतृचमसे निनयेत् यथा द्रोणकलशोपरि वितते पवित्राख्ये वस्त्रखण्डे -रसः पतेत् । ततस्त्रवन्त्या धाराया अध्वर्युरन्तर्यामपाले अन्तर्यांमसंज्ञकं -अहं गृहीत्वा सशेषं हुत्वा, सशेषमेव आग्रयणस्थाल्यां सम्पातमवनीय, -सशेषं ग्रहं खरे सादयेत् । इन्द्रो देवता । दधिग्रहाद्यन्तांमान्तानां -ग्रहाणां ग्रहणानन्तरमेव हामः । नैन्द्रवायवादिवत् गृहीत्वा खरे सादनम् ॥ -ऐन्द्रवायवादिग्रहाः -ततः परं पूर्वोक्तप्रकारेणैव ऐन्द्रवायवं धारातो गृहीत्वा पवित्रदशया -ग्रहस्य बहिर्मागं प्रमृज्य खरे सादयेत् । एवं मैत्रावरुणं, शुक्र, मन्थिनं, -क. खण्डिता: सोमलताः प्रादेशमात्रा अंशव उच्यन्ते । -ख. गृहीतसारो नीरसस्तृणांश ऋजीपमित्युच्यते । - -=============== -081.jpg.txt" -===============" + - -===================================================== - -===================================================== -सोमयागनिरूपणम -आग्रयणं, त्रीनतिग्राह्यान् (आग्नेयं, ऐन्द्र, सौर्य) उक्थ्यं, ध्रुवं चेति यथा- -क्रमं गृहीत्वा खरे सादयेत् । ध्रुवग्रहग्रहणानन्तरं धारां विरमयेत् । ततो -हविर्धानमण्डपात् बहिष्पवमानस्तोत्रकरणाय पञ्च ऋत्विजः परस्पर -समन्वारब्धाः प्रसपैयुः ॥ -प्रसर्पणम् -तत्र प्रथमोऽध्वर्युः, ततः प्रस्तोता, ततः प्रतिही, तत उद्गाता, -ततो ब्रह्मा, ततो यजमानः इत्येवं क्रमेणैकस्य पृष्ठतः, अपरस्तदीयं कच्छं -धृत्वा गच्छेत् । एवमेव इमे चात्वालदेशं गत्वा तत्रोपविष्टा अनन्तरं कच्छं -पूर्वगृहीतं विसृजेयुः । मध्ये विसर्गे प्रायश्चित्तं विहितम् । तत्र गत्वा -उद्गाता, प्रस्तोता, प्रतिहर्ता इति त्रयः सामवेदीया ऋत्विजः बहिष्पव- -मानेन स्तुवीरन् । अध्वर्वादयस्तत्रोपविष्टा भवेयुः । तदिदं बहिष्पवमान- -स्तोत्रं पापशोधकत्वात् पावनम् । अनेनैव शोधितावश्विनौ यज्ञाहविभूताम् । -समाप्ते स्तोत्रे आग्नीध्रेण धिष्ण्येषु प्रज्वालितेषु अध्वर्युराश्विनं ग्रह -द्रोणकलशाद्गृहीत्वा खरे सादयेत् । ततः सवनीयपशोरुपाकरणादि -वपायागान्तं कृत्वा प्रातस्सवनाय अध्वर्युब्रह्मयजमानसदस्याः सदः प्रविश्य . -तत्रस्था एव ग्रहचमसादिकानि पात्रााणि द्रव्याणि चोपतिष्ठेरन् । ततो ब्रह्मा -यजमानश्च सर्वाणि तानि तैस्तैमन्त्रैरुपस्थाय, उत्तरेण हविर्धानं गत्वा -पूर्वया द्वारा सदः प्रविश्य स्वस्वस्थान उपविशेताम् । उपवेशनमिष्टया- -दिवदेव । ततः सवनीयहविषांत प्रचारः॥ -धाराग्रहप्रचारः -तत्कर्म स्विष्टकृदन्तमनुष्ठाय, अध्वर्युरेन्द्रवायवमैत्रावरुणाश्विनान् -त्रीन् ग्रहान् प्रचरेत् । तत्राध्वर्युणा होमार्थमैन्द्रवायवे गृहीते प्रतिप्रस्थाता -आदित्यपात्रे द्रोणकलशादैन्द्रवायवप्रतिनिग्राह्यं गृहीत्वा तेनैव सह -हुत्वा परस्पररसनिषेचनानन्तरं आदित्यस्थाल्यां सम्पातमवनयेत् । -अध्वर्युः स्वं पात्रं होने दद्यात् । एवमेवोत्तरयोहयोरनुष्ठानम् , -आदित्यस्थाल्यां सम्पातावनयनं च । तत उन्नेता, अध्वर्युणा प्रेषितः -क. ध्रुवग्रहस्य तृतीयसवन एव विनियोगः । न पूर्वयोः सवनयोः । -ख. सवनीयहवींषि ६७ पृष्ठ उक्तानि । -प्रचारः साङ्गानुष्ठानम्। - -=============== -082.jpg.txt" -===============" + - -===================================================== - -===================================================== -यशतत्वप्रकाशे -अच्छावाकचमसं वर्जयित्वा अन्यान् नव चमसान् , सदस्यपक्षे दश -चमसान् प्रपूरयेत् । तत्र परिप्लवया द्रोणकलशात् सोमरसमास्राव्य ततः -पूतभृन्नाम्नः कलशात् सोमरसमादाय चमसान् प्रपूर्य, पुनद्रोणकलशात् -गृहीत्वा चमसेष्वास्रावयेत् । प्रथमस्रावणमुपस्तरणस्थानीयम् , द्वितीयमभि- -धारणस्थानीयम् । एवमेव सर्वेषामुन्नयनं (पूरणं) कर्तव्यम् ॥ -शुकामन्थिग्रहप्रचारः -एवं चमसेषून्नीतेषु, अध्वर्युः शुक्रपात्रं, प्रतिप्रस्थाता च -मन्थिपात्रमादाय ससोमरस हविधानमण्डपस्य पूर्वद्वारि परस्पराभिमुखौ -तिष्ठन्तौ स्वं स्वं ग्रहं अरनिं वा परस्परं संधाय यावन्तो मन्त्रास्तावत्कृत्वः, -आहवनीयस्य पुरतो गत्वा पश्चिमाभिमुखौ ग्रहहोमार्थ सजौ भवेताम् । -तस्मिन्नेव काले नव चमसाध्वर्यवः तं तं चमसमादाय आहवनीयदेशं -गत्वा, प्राङ्मुखा होमार्थमुद्यता भवेयुः । तत खआश्रावणप्रत्याश्रावणाद्य- -नन्तरमध्वर्युणा प्रैषे दत्ते होतृब्रह्मोद्भातृयजमानानां, सदस्यपक्षे तस्य च -ये चमसाध्वर्यवस्ते होत्रा वषट्कारे अनुवषट्कारे च कृते तं तं चमसं -द्विर्तुत्वा अध्वर्युणा प्रेषिताः सदः प्रतिभक्षार्थ चमसान् हरेयुः । अवशिष्टा -मैत्रावरुणब्राह्मणाच्छंसिपोतनेष्ट्राग्नीध्राणां ये चमसाध्वर्यवः ते होतुः -प्रथमवषटकार एव सकृद्धत्वा प्रत्यावृत्य पुनर्दोणकलशादेव स्वं स्वं -चमसमापूर्य, आहवनीयं प्रति होमार्थ नयेयुः । होतुः प्रथमक्षट्कार -एव अध्वर्युप्रतिप्रस्थातारौ स्वं स्वं ग्रहं जुहुयाताम् । शुकामन्धिग्रहयोश्च- -मसानां प्रथमहुतानां च परमात्मरूपी इन्द्रो देवता । अनुवषट्कारेषु -सर्वत्राग्निरेव स्विष्टकृदेवता । ततोऽध्वर्युः सशेषं शुकपात्रमायतने सादयेत्। -प्रतिप्रस्थाता तु मन्थिनः संत्रावहोमम् , आहवनीयस्योत्तरभागाद्गृहीत्वा -बहिस्स्थापितेऽङ्गारे जुहुयात् । तस्य रुद्रो देवता । पूर्व चमसमापूर्य -आहवनीयदेशं प्रति गतेषु चमसाध्वर्युषु मध्ये मैत्रावरुणचमसाध्वर्युः स्वं -चमसमध्वर्युहस्ते दद्यात् । स मैत्रावरुणं प्रेषयेत् । आश्रावणाद्यनन्तरं -१. होता, २. ब्रह्मा, ३. उद्गाता, ४. यजमानः, ५. मैत्रावरुणः, -६. ब्राह्मणाच्छंसी, ७. पोता, ८. नेष्टा, ९. आगीघ्रः, एतेषां नवानामृत्विजा -नव चमसाः। -ख. शुक्रग्रहप्रभृत्येव आश्रावणादि । शुक्रग्रहे पुरोऽनुवाक्या नास्ति । केवलं -याज्यैव । एवं शस्त्रवत्सु केवलं याज्यैव न पुरोऽनुवाक्येति शेयम् । -. -क. - -=============== -083.jpg.txt" -===============" + - -===================================================== - -===================================================== -सोमयागनिरूपणम् -याज्यायां तेन पठितायाम् अध्वर्युस्तं चमसं जुहुयात् । तत्र मित्रावरुणौ -देवता । एवमेवोत्तरेषां चमसानां तस्मात्तस्माचमसाध्वर्योर्ग्रहणम् , -तेन तेनविंजा याज्यादौ पठितेऽध्वर्युणा होमश्चेत्यवगन्तव्यम् ॥ -चमसदेवताः -तत्र ब्राह्मणाच्छंसिचमसे इन्द्रः, पोत्रीये मरुतः, नेष्ट्रीये त्वष्टा, -आग्नीधीये चामिरिति देवताः । अनुवषट्कारहोमश्च सर्वत्रास्ति । तत्रामिः -स्विष्टकृदेवता ॥ -चमसभक्षणम् -एवमध्वर्युः चमसान् हुत्वा तं तं चमसं तस्मै तस्मै चमसाध्वर्यवे -प्रयच्छति । ते भक्षार्थं तान् सदः प्रति नयेयुः । तत्र ये यत्र भक्षणाधि- -कारिणः ते परस्परमाज्ञाप्य भक्षयेयुः (पिबेयुः) सर्वत्र वषट्कर्ता प्रथम -भक्षयेत् । भक्षणोपयुक्तानां पात्राणां मार्जालीये प्रक्षालनं कर्तव्यम् । ततः -ऋत्विजः पाशुकान् पौरोडाशिकांश्च हविश्शेषान् आनीधीये भक्षयेयुः । -ततश्चमसान् प्रपूर्य आयतने सादयेयुः । अत्र चमसेषु ग्रहेषु वा -भक्षणेऽधिकारः अधोनिर्दिष्टकारणैः भवति- -१ यो यत्र वषट्करोति । -२ यो वा होममभिषवं चेत्युभौ करोति । -३ यन्नामा चमसो व्यवयिते । -यजमानपन्यास्तु न कस्यापि हविषो भक्षणम् । ततोऽच्छावाक- -• चमसाध्वर्युः तदीयं चमसम् इतरचमसवदेव आपूर्व अध्वर्यवे दद्यात् । स -च आश्रावणादिकं यथावदनुष्ठाय तं चमसं हुत्वा सशेषं भक्षणाय -अच्छावाकाय दद्यात् । स त्वध्वर्युमनुज्ञाप्य भक्षयेत् । न तेन सह -अध्वर्युभक्षयेत् ॥ -ततः पात्रमापूर्य आसाद्य ऋतुग्रहप्रचारमारभेत । तत्रोमयतोमुखं -पात्रद्वयं भवति । अध्वर्युप्रतिप्रस्थातारौ कर्तारौ । ताभ्यामेव पर्यायेण -- -क. -ख. -नात्र यजमानस्य भक्षणम् । -वसन्तादयः ऋतवो यत्र देवताः त ऋतुग्रहाः । -आप. श्री. १२, २६. ८. बौधा, औ. ७, १६, कात्या. औ. - -=============== -084.jpg.txt" -===============" + - -===================================================== - -===================================================== -७२ -यज्ञतत्त्वप्रकाश -होमाः कार्याः । तत्र प्रथमम् अध्वर्युप्रतिप्रस्थातारौ प्रथमद्वितीयग्रहो -युगपद्गृह्णीयाताम् । परिप्लवया द्रोणकलशादध्वर्युः पात्रान्तरेण तस्मादेव -प्रतिप्रस्थाता । एवं गृहीत्वा निष्क्रम्य हविर्धानमण्डपस्य द्वायैव तिष्ठेत् -प्रतिप्रस्थाता । अध्वर्युराहवनीयदेशं गत्वा आश्रावणादिपूर्वकं सशेषं हुत्वा -तत्रैव (पूर्वशेषविशिष्ट एव पात्रे) ग्रहान्तरं ग्रहीतुं यदा मण्डपद्वार्यागच्छति -तदा प्रतिप्रस्थाता निर्गत्य आहवनीयं गत्वा आश्रावणादिपूर्वकं स्वं ग्रह -सशेषं जुहुयात् । एवं स यदा मण्डपान्तः प्रविविक्षति तदा अध्वर्युस्सग्रहो -निष्कामेद्धोमकरणाय । एवमेकस्य निष्क्रमणकालेऽन्यस्य प्रवेशः, -तत्प्रवेशकालेऽन्यस्य निष्क्रमणम् , एवं रीत्या ग्रहणहोमा अनुष्ठेयाः । -अन्तिमयोस्तु ग्रहयोः सहैव ग्रहणम् । गृहीत्वा, उभावपि निष्कम्य, -मण्डपस्य द्वारि तिष्ठेताम् । ततः अध्वर्युराहवनीयदेशं गत्वा यथा- -वज्जुहुयात् । ततः प्रतिप्रस्थाता गत्वा तथैव कुर्यात् । अत्र द्वादश -ऋतुग्रहाः । द्वे एव तु पात्रे । ताभ्यामेव पर्यायेण ग्रहणम् । तत्र- -१ इन्द्रः, मधुः, -७ द्रविणोदाः, इषः, -२ मरुतः, माधवः, -८ द्रविणोदाः, ऊर्जः, -३ त्वष्टा, -स्वष्टा, शुक्र, -९ द्रविणोदाः, सहः, -४ अग्निः, शुचिः, -१० द्रविणोदाः, सहस्यः -५ इन्द्रः, नमः, -११ अश्विनौ, तपः, -६ मित्रावरुणौ, नभस्यः, १२ अग्निहपतिः, तपस्यः -इति क्रमेण देवताः । एकैकस्य द्वे द्वे देवते । ततो भक्षणम् । तदध्वर्यु- -प्रतिप्रस्थात्रोयोरेव होत्रकैस्सह । भक्षिताः ग्रहाः चमसाश्च सर्वे -अप्रक्षालिता एव पुनस्सोमरसेन पूरणीयाः । अत्र भक्षणात्पूर्व होमानन्तर- -मध्वर्युः स्वपात्रस्थसोमस्य कश्चिदंशं प्रतिप्रस्थातृपात्रे स्रावयेत् । एवं -प्रतिप्रस्थाता अध्वर्युपात्रे सावयेत् । ततोऽध्वर्युस्तस्मिन्नेव पात्रे सरसे -ऐन्द्राग्नं ग्रहं गृहीत्वा खरे सादयेत् । अनन्तरं प्रतिप्रस्थाता स्वपात्रस्थं -सोमं भक्षणार्थ नयेत् । तदनन्तरमेव भक्षः । भक्षितं पात्रं प्रक्षाल्य -तद्धस्त, आदाय, अध्वर्युः शस्त्रप्रतिगरार्थ सदो मण्टपद्वारं गत्वा तत्र -तिष्ठेत् ॥ -शस्त्रपाठप्रतिगरादि -तदानीं होता स्वधिष्ण्यस्य समीपे पश्चात् प्राङ्मुख उपविष्ट -आज्याख्यं शममारमेत । होत्रा शस्त्रे पठयमानेऽध्वर्युः प्रतिगरं पठेत् । - -=============== -085.jpg.txt" -===============" + - -===================================================== - -===================================================== -सोमयागनिकपणम् -तल शस्त्रारम्भे- “अध्वयों शोसावा३म्" इति होनीच्यमाने -"शोंसामोद इव" इति प्रतिगरं ब्रूयात । तत्तचोऽन्ते सदा सप्लुतं -प्रणवमुच्चारयति होता तदा “ओं मो३यामोद इव' इति प्रतिगृणीयात् । -यदाऽर्धर्चेऽवस्यति होता तदा “ओथामाद इव" इति प्रतिगरं यात् । -शस्त्रसमाप्तौ “ओ३म्" इत्येत्र प्रतिगृणीयाध्ययुः ! होता यदा यदा -शस्त्राणि पठति तदा तदा तस्य प्रोत्साहनार्थम् अध्वयों: विशिष्ट- -शब्दोच्चारणं प्रतिगर इत्युच्यते । सः "ओथामोद इव" इत्यादिष्टव्यः । -तत्र बहिष्पवमाने पूर्व स्तुते एव आज्यादिशस्त्राणीदानी पठनीवानि । -तत्र प्रथममाज्यशस्त्रम् ॥ -। -नाराशंसहोमः -होत्रा आज्यशस्ने समापिते सत्यध्वर्युः पूर्वगृहीतस्थापितमैन्द्रानग्रह -हस्तेनादद्यात् । तस्मिन्नेव चमसाध्वर्यवश्वमसानाद दीरन् । ततोऽध्वर्यु- -राश्रावणादि कृत्वा होत्रा याज्यान्ते वपसार उक्त ग्रहमनी साशेप -जुहुयात् । तदा चमसाध्वर्यवः स्वांश्चमसान् प्रकम्पयेयुः यथा पात्र- -(चमस)स्थसोमबिन्दुराहवनीये पतेत् । तत्र ग्रहहोमे इन्द्राग्नी देवता । -चमसेषु ऊमाः पितरो देवता । ततो ग्रहस्य चमसानां च सशेषाणां -यथावद्भक्षणम् । पुनरप्याप्यायनं खरे सादनं च । इदानीमेषां चगसानां -"नाराशंस"संज्ञा । अत्र चमसानां होमकाले आश्वनीयस्योपरि -कम्पनमात्रम् , न तु यथावद्धोमः । ततो वैश्वदेवाख्यं ग्रहं शुक्रग्रहोपयुक्त -पाने गृहीत्वा प्रथमाज्यस्तोत्रार्थम् उद्गातृगणं प्रेरयेत् । तेन स्तोत्रे -समापिते शस्त्रपाठार्थ होतारं प्रेष्य तत्पुरस्तात्तिष्ठन् प्रतिगरं पठेत् । -तदिदं “प्रउगशस्त्रम्" इत्युच्यते । तत्समाप्तौ पूर्ववत् ग्रहस्य होमः । -चमसानामनुकम्पनमाहवनीयस्योपरि । एतेषामपि नाराशंससंज्ञा । अत्र -ग्रहे विश्वे देवा देवताः । चमसेषु ऊमाः पितरः । ततो ग्रहचमसानां -भक्षणम् । पूर्व चमसास्सावशेषा एव भक्षयितव्याः । इदानीं निरवशेष- -तयेति विशेषः ॥ -चत्वार्याज्यशस्त्राणि, एकं प्रउगशस्त्रमिति पञ्च शस्त्राणि माध्यन्दिनसबने । -तत्र प्रथमस्याज्यशस्त्रस्य प्रउगशस्त्रस्य च कर्ता होता । द्वितीयादीनां त्रयाणामाज्य- -शस्त्राणां मैत्रावरुणः, ब्राह्मणाच्छंसी, अच्छावाक इति क्रमेण कर्तारः (शंसितारः) -इति विवेकः। -IO - -=============== -086.jpg.txt" -===============" + - -===================================================== - -===================================================== -७४ -यज्ञतत्वप्रकाशे -उक्थ्यग्रहप्रचारः -ततस्तान् प्रक्षाल्य खरे स्थापयित्वा उक्थ्यस्थालीतस्तृतीयं -भागमुक्थ्यपात्रे गृहीत्वा खरे सादयित्वा चमसांश्च पूरयित्वा द्वितीया- -ज्यस्तोत्रकरणायोगातृगणं प्रेरयेत् । तेन स्तुते स्तोत्रे, मैत्रावरुणं शस्त्रार्थ -प्रेष्य तेन शस्त्रे पठ्यमाने पूर्ववत्प्रतिगीर्य शस्त्रे समाप्ते पूर्ववदेव होमं, -सर्वभक्षणं, प्रक्षालनं, खरे सादनं च कर्तव्यम् । अयमुक्थ्यप्रथमपर्यायः । -ततः पूर्ववदेवोक्थ्यस्थालीतस्तृतीयांशस्य ग्रहणम् , उक्थ्यपात्रे चमसानां -पूरणम् , तृतीयाज्यस्तोत्राय प्रवर्तनमुद्गातृगणस्य, तत्समाप्तौ शस्त्रार्थं ब्राह्मणा- -च्छंसिनः प्रेरणम् , तत्प्रतिगरः, ततो होमः, भक्षणं च ग्रहचमसानाम् , -प्रक्षालितानां खरे सादनं चेति । अयं द्वितीयः पर्याय उक्थ्यस्य । अत्र -ग्रहस्य चमसानां च मित्रावरुणौ देवता । एवमेव तृतीयपर्यायोऽपि । -तृतीयपर्याये उक्थ्यस्थालीतस्सर्वस्यापि निरवशेषस्य सोमरसस्य ग्रहणमिति -विशेषः । अत्रेन्द्रानी देवता । शस्त्रकर्ता अच्छावाकः । अनयोर्द्वितीयतृतीय- -पर्याययोः ग्रहग्रहणशस्त्रप्रतिगरग्रहहोमेषु कर्ता प्रतिप्रस्थाता । भक्षणान्ते -सवनसंस्थाहुति हुत्वा आरम्भकाले येन मार्गेण विहारं प्रविष्टास्तेनैव -ऋत्विजो बहिर्निर्गच्छेयुः ॥ -॥ एतावता प्रातस्तवनं समाप्तम् ॥ -अथ माध्यन्दिनं सवनम् -तत्र भगवति भास्वति नमसो मध्यं गते विहारं प्रविश्य -माध्यन्दिनसवनकर्म आरभेरन् सयजमाना ऋत्विजः । तत्र प्रथमं महा- -भिषवः । सोमस्य बन्धनं विस्रस्य, बन्धनवस्त्रं ग्रावस्तुते दत्त्वा, महा- -भिषवमारमेरन् । तं प्रातस्सवनवदेवविजो दिगुपदेशनादिपूर्वकं यों- -वत्कुर्युः । अभिषवे समाते प्रातस्सवनवदेव सवनीयहविर्निर्वापादिक- -क. आदौ लोकद्वारसानो गानं कर्तव्यम् । तच्च यजमानेनामीध्रीयामि- -समीपे तस्मिन्नेव च होमः कर्तव्यः । -१. See. आप. श्री. १२. २८. ११. बौधा. . -का. श्री. ९.१४. ८. -See. आप. श्री. १३. १. बौधा. श्री. ८. १. कात्या. श्री. १० १. - -=============== -087.jpg.txt" -===============" + - -===================================================== - -===================================================== -सोमयागनिरूपणम् -मामिक्षातद्वयापारवर्ज कृत्वा सोमरसग्रहणोपयोगिव्यापारेऽभिषुतसोमपावन- -पूर्वकधारास्रावणादावारब्धे तस्या धाराया अध्वर्युः ग्रहान् गृह्णीयात् । -अत्रैन्द्रवायवादयो द्विदेवत्यग्रहा न विद्यन्ते । एवमृतुग्रहा द्वादश -दधिग्रहाश्च नानुष्ठेयाः । शुक्रः, मन्धी, आग्रयणः, उक्थ्यास्त्रयः, -मरुत्वतीयौ' इत्येतावन्त एव ग्रहाः । ते च धाराया ग्राह्याः । ग्रहणा- -सादनादिव्यापारेष्वनुष्ठितेषु अध्वर्युः, प्रस्तोता, प्रतिहर्ता, उद्गाता, ब्रह्मां, -यजमान इति क्रमशः पूर्वपूर्वस्य परः परः कच्छं धृत्वा बहिष्पवमानवदेव -माध्यन्दिनपवमानस्तोत्रकरणाय सदोनामकं मण्डपं प्रसयुः । सर्वेषु -प्रसर्पकेषूपविष्टेष्वेव कच्छविसर्जनं कर्तव्यम् । ततो माध्यन्दिनपवमान -स्तोत्रकरणाय अध्वर्युरुद्रातृगणं प्रेरयेत् । समाप्ते स्तोत्रे दधिधर्मयागः, -तद्धविर्भक्षणं च । ततस्सवनीयहविषां प्रचार इडाभक्षणान्तः । तदनन्तरं -चमसानामुन्नयनं कर्तव्यम् । अनाच्छावाकचमसमप्यन्ते खउन्नयेद्दशमतया । -प्रातस्सवने पूर्व नवैव चमसा आसन् । अत्र स्वयमधिको दशम इति -ज्ञेयम् । पूरितानां तेषां शुक्रामन्धिम्यां ग्रहाम्यां सह प्रातस्सवनवदेव -प्रचारो भक्षणान्तः । पात्रसादनं च । सवनीयहविषामपि तदैव भक्षणं -तत्सम्बन्धिनामृत्विजाम् ॥ -दक्षिणादानम् -तत ऋत्विग्भ्यो दक्षिणादानम् । या दक्षिणा सङ्कल्पकाले -सङ्कल्पिता तां दद्यात् । सा च-गावः, अश्वः, अश्वतरः, गर्दभाः, अजाः, -अवयः, तिलमाषत्रीहियवाः-इत्येवरूपा । तत्र गावः द्वादशोत्तरं शतं -(११२) देयाः । एकोऽश्वः, गर्दभाजावयः त्रयस्त्रयः ब्रीह्यादीनामेकैक- -द्रव्यस्य प्रस्थत्रयम् इति परिमाणं सङ्ख्या च निर्णीते शास्त्रे । सत्यां -तत्र द्वौ मरुत्वतीयग्रहो । अध्वर्योरेकः, प्रतिप्रस्थातुरेकः । द्वावपि -स्वं स्वं ग्रहं क्रमेण धारातो गृहीत्वा आयतने सादयेताम् । -प्रातस्सवने प्रथमतश्चमसोन्नयनकाले नव चमसाः । शुक्रामन्थिग्रह- -चमसप्रचारानन्तरमच्छावाकचमतश्च प्रचारित: । अत्र दशापि सहैवेति बोध्यम् । -१. See. -आप. श्री. १३. ५, ६. १-१३. बौधा. श्री. ८.५. -का, औ.१०.२.८-३६. - -=============== -088.jpg.txt" -===============" + - -===================================================== - -===================================================== -यज्ञनत्त्वप्रकाशे -शक्तौ गजवासोहिरण्यादीनामपि दक्षिणात्वेन दानमुक्तम् । अशक्ती -शतं गावः ततो न्यूना वा त्रितय पर्यन्तं वा अन्तत उक्तम् । ता -विभज्य देयाः ॥ -दक्षिणाविभागः -विभागश्वेत्थम् देयत्वेन प्रतिज्ञातां समग्रां दक्षिणां प्रथमतः -समशश्चतुर्धा विभज्य एकैकस्मा ऋत्विग्गणायैकैकं भागं कल्पयेत् । -तमपि भाग समाख्यानुसारेण विभज्य तेभ्यो दद्यात् । तद्यथा-- यदि -सगमा दक्षिणा सहस्रं रूप्यकाणि तदा तानि चतुर्धा विभज्य एकैकस्य -गणस्य सार्धद्विशतं कल्पयेत् । तं पञ्चविंशतिधा कृत्वा अध्वर्यवे -द्वादशांशान् , तदनन्तराय प्रतिप्रस्थाने पडंशान् , तदनन्तराय नेष्ट्रे -चतुरोंऽशान , तदनन्तराय उन्नेले त्रीनंशांश्च दद्यात् । एवं च प्रथमस्यविजो -यद्दीयते तदर्थं द्वितीयस्य, प्रथमतृतीयांशोऽनन्तरस्य तृतीयस्य, प्रथम- -चतुर्थांशः तदनन्तरस्य चतुर्थ त्येति फलितम् । एवमेव गणान्तरेऽपि -विभागः ॥ -तदिदं स्पष्टीक्रियते-क्रनोस्समग्रदक्षिणा सहस्रम् । तत्रैकस्य -गणस्य सा द्विशतम् । तस्य पञ्चविंशतिधा विभागे कृते एकैकस्य -भागस्य दश रूप्यकाणि । तत्र द्वादश भागाः विंशत्युत्तरं शतमध्वर्यवे -देयाः । षड्भागाः पष्टिः प्रतिप्रस्थाने दातव्या । चत्वारो भागाः नेष्ट्रे -चत्वारिंशद्दयाः । त्रयो भागास्त्रिंशत् उन्नेत्रे । एवमेव त्रिष्वप्यन्येषु -गणेषु दानम् ॥ -अध्वर्युगणः रू. ब्रह्मगणः रू. होतृगणः, रू. उदातृगणः रू. -अध्वर्युः १२० ब्रह्मा -१२० होता -१२० उद्गाता १२० -प्रतिप्रस्थाता ६० ब्राह्मणाच्छंसी ६० मैत्रावरुणः ६० प्रस्तोता ६० -नेष्टा ४. आग्नीध्रः ४० अच्छावाकः ४० प्रतिहा ४० -उन्नेता ३० पोता -३० ग्रावस्तुत् ३० सुब्रह्मण्यः ३० -मिलित्वा-२५० -२५० -२५० २५० -एवं सहस्रम् १०००॥ - -=============== -089.jpg.txt" -===============" + - -===================================================== - -===================================================== -सोमयागनिरूपणम् -एतदतिरिक्ततया यजमानः स्वान्यङ्गान्यपि चक्षुःश्रोत्रमनः- -प्रभृतीनि वाचैव दत्त्वा ततस्तत्तदुचितमूल्यार्पणेन तानि पुनः प्राप्नुयात् । -ततश्चमसाध्वर्युभ्यः, कस्मैचिदत्रिगोत्रोत्पन्नाय, सदसि स्थितेभ्यो दक्षिणा- -हेभ्यो द्रष्भ्यश्च यथाशक्ति दक्षिणां दद्यात् । गवादीनां साक्षादेव दाने -तान्यविभज्यैवविजः पूर्व प्रतिगृह्य वेदेरुत्तरभागं नीत्वा तत्र यथोचित. -मूल्यद्वारा विभजेरन् ॥ -मरुत्वतीयग्रहप्रचारः -ततो दीक्षासमये गृहीतं कृष्णविषाणं यजमानश्चात्वाले प्रास्येत् । -ततोऽध्वर्युराग्नीध्रीयेऽग्नौ वैश्वकर्मणाख्यान् पञ्च होमान् जुहुयात् । -ततोऽध्वर्युः प्रतिप्रस्थाता च पूर्व गृहीतासादितौ मरुत्वतीयग्रहावादीय, -त्रैषादिकं कृत्वा आहवनीये हुत्वा परस्परं स्वस्वपात्रस्थं सोमरसं -विक्षारयेताम् । तस्य भक्षणमकृत्वैवाध्वर्युः स्वपात्रे तृतीयं मरुत्वतीयं गृहीत्वा -तमायतने यदा आसादयति तदा प्रतिप्रस्थाता स्वपात्रं भक्षणाय नयेत् । -ततो द्वाविमौ भक्षयेताम् । ततश्च मरुत्वतीयशस्त्रार्थ होतारं प्रेष्य तेन -तस्मिन्छस्यमानेऽवयुः पात्रेणैव सह प्रतिगृणीयात् । शस्त्रे परि- -समाप्तेऽध्वर्युः मरुत्वतीय तृतीयं ग्रहमादाय चमसाध्वर्यवश्च चमसानादाय -आहवनीयं गत्वा आश्रावणादौ कृते ग्रहं चमसांश्च जुहुयादनुकम्पयेयुश्च -यथाक्रमम् । । यथा सोमबिन्दवः आहवनीये पतेयुस्तथा प्रकम्पन -कर्तव्यम् । यतो होमस्थानीयं तत् । तत्र ग्रहे देवता इन्द्रो मरुत्वान् । -चमसेषु ऊर्वाः पितरः । चमसा इम इदानीं नाराशंसा इत्युच्यन्ते । ततो -ग्रहचमसानां भक्षः । ततश्चमसेषु पुनरापूर्य आयतने स्थापितेष्वध्वर्यु- -यस्मिन् पात्रे शुक्रग्रहो गृहीतस्तस्मिन् पात्रे माहेन्द्र ग्रहं गृहीत्वा खरे -सादयित्वा माहेन्द्रसंज्ञकस्य प्रथमपृष्ठस्तोत्रस्य प्रैषमुद्गातृभ्यो दद्यात् । तैः -स्तोत्रे समापिते निष्केवल्यशस्त्रार्थ होने औषं दत्त्वा होत्रा शस्त्रे पव्यमाने -प्रतिगरं गृणंस्तिठेत् । समाते शस्त्रे मरुत्वतीयग्रहवन्माहेन्द्रग्रहस्य होमः । -चमसानां तदीयचमसवदेवानुप्रकम्पनम् । तस्मिन्नेव समयेऽतिग्राह्य- -संज्ञकानां ग्रहाणामपि होमः कर्तव्यः । तत्र आग्नेयं प्रतिप्रस्थाता, ऐन्द्र -क. -अत्र पुरोऽनुवाक्या अस्ति । -१. -२. -आप. श्री. १३. ६. १-७. -आप, औ. १३. ८. १-१०, - -=============== -090.jpg.txt" -===============" + - -===================================================== - -===================================================== -यज्ञतत्त्वप्रकाशे -. -v -नेष्टा, सौर्यमुन्नेता च गृहीत्वा माहेन्द्रग्रहमनुजुहुयुः । ग्रहे महेन्द्रो देवता । -चमसेषु ऊर्वाः पितरः । अतिग्राह्यपु अग्निः, इन्द्रः, सूर्यश्च क्रमण देवताः। -ततः पूर्ववद्भक्षणम् । खरे पात्राणां सादनं च । ततस्त्रय उक्थ्यविग्रहाः । -तेषां प्रातस्सवनवदेव अनुष्ठानम् । तत्र सप्तदशस्तोमकानि त्रीणि -पृष्ठस्तोत्राणि । तत्तत्पृष्ठसमाप्त्यनन्तरं मैत्रावरुणः प्रथमे, ब्राह्मणाच्छंसी -द्वितीये, अच्छावाकस्तृतीये च स्वं स्वं शस्त्रं शंसेयुः । पूर्व माहेन्द्रग्रहकाले -एक पृष्ठस्तोत्रम् । आहत्य चत्वारि पृष्ठस्तोत्राणि । माध्यन्दिनपवमानमेक- -मिति पञ्च स्तोत्राणि माध्यन्दिनसक्ने । एवं मरुत्वतीयं निष्केवल्यमिति -शस्त्रद्वयं होतुः, मैत्रावरुणादीनां त्रीणि इति शस्त्राण्यपि पञ्च । उक्थ्याना. -मिन्द्रो देवता । ततः सवनसमाप्तिहामं कृत्वा सर्वविजो बहिर्निर्गच्छेयुः। -॥ समाप्तं माध्यन्दिनसवनम् ॥ -अथ तृतीयसवनम् -माध्यन्दिनसवनसमाप्त्यनन्तरं किंचिद्विरम्य सवनमिदमारभेरन् । -अस्य "तृतीयसवनम्' इत्येव संज्ञा; न तु सायंसवनमिति । तृतीय- -सवनमारभमाणास्सर्वे ऋत्विजो विहारं प्रविश्य स्वं स्वं कर्म कर्तुमुद्यता -भवेयुः । तदा प्रथमं लोकद्वारसामोत्तरवेदिसमीपे गातव्यं यजमानेन । -तद्गत एवानौ होमश्च कर्तव्यस्तेन । ततस्तत्र प्रथममादित्यग्रहो ग्रहीतव्यः । -तत्र प्रातस्सवने ऐन्द्रवायवमैत्रावरुणाश्विनग्रहाणां होमानन्तरं तत्तद्ग्रहेष्व- -वशेषितस्य सोमरसस्य आदित्यस्थाल्यां सम्पातावनयनेन यो रसः -स्थापितः, तस्मादादित्यपात्रेण आदित्यग्रहं गृहीत्वा तत्रोपांशुसवनाख्यं -ग्रावाणं प्रक्षिप्य तेन तं रसमालोड्य तत्र दधि पयो वा किंचित्प्रक्षिप्य -ग्रावाणमुरिक्षप्य खरे पात्रमसादयित्वैव, आश्रावणप्रत्याश्रावणादौ निष्पन्ने -तं जुहुयादादित्यग्रहम् । आदित्याः देवता । ततः प्रातस्सवनवन्महाभिषवः -कर्तव्यः । तत्र सवनद्वयेऽभिषुतस्य सोमस्य य आत्तसारः तृणांशः -तमेवामिषुणुयुः । अभिषुत्य पवित्रीकरणकाले मथितं दघि तत्रासिच्य, -मेलयित्वा, पूतभृत्यवनीय, पवित्रीकृत्य तस्मादाग्रयणं गृहीत्वा आयतने -सादयित्वा धारां विरमयेत् ॥ -क, गायत्री धुलोकात् भूलोकं प्रति सोमलतामाहरत् । आनयनसमये -सो सोमं त्रिधा विभज्य, द्वाभ्यां पद्भयां द्वौ भागौ भागमेकं मुखेन च गृहीत्वा -१. आप. श्री. १३. ९. १. बौधा, श्री. ८. ९. कात्या. नौ.१९. ४. ९. - -=============== -091.jpg.txt" -===============" + - -===================================================== - -===================================================== -सोमयागनिरूपणम् -. -आर्भवपवमानाय प्रसर्पणम् चमसप्रचारश्च -ततो माध्यन्दिनपवमानवत आर्भवपवमानस्तोत्रार्थ यजमानसहिताः -पञ्चविजः प्रसयुस्सदः प्रति समन्वारब्धाः । ततस्सदसि उद्गातृभिराभव -पवमानाख्ये स्तोत्रे सप्तदशस्तोमयुते स्तुते धिष्ण्यान प्रज्वलय्य, सवनीय- -पशोर्ट दयायवदानादीडाभक्षणान्तं कृत्वा, सवनीयहवींषि प्रचर्य, चमसानां -प्रचारः कर्तव्यः । तत्र चमसाध्वर्युभिः चमसेपून्नीतेषु स्वयमध्वर्युः -होतृचमसं गृहीत्वा इतरांश्चमसान चमसाध्वर्युभिः ग्राहयित्वा आहवनीय- -देशं गत्वा आश्रावणाधनन्तरं होत्रा याज्यायां पठितायां चमसाध्वर्युभिः -सह सकृद्धुत्वा होत्रकाणां मैत्रावरुण-ब्राह्मणाच्छंसि-पोतृ-नेष्ट- -अच्छावाक-आनीध्राणां चमसाध्वयूँन् चमसानां पुनरुन्नयनाय प्रस्थाप्य, -अनुवषट्कारकाले स्वयं होतृचमसं, ब्रह्मोद्गातृयजमानचमसान् चमसाध्वर्यु- -द्वारा च हुत्वा, तांश्चमसान् भक्षणार्थ सदः प्रापय्य, उन्नयनाथ गतेषु -चमसेषून्नीय आनीतेषु तान् क्रमशोऽध्वयुरेव आश्रावणाद्यनन्तरं जुहुयात् । -तत्र याज्यां होत्रका एव स्वे स्खे चमसे पठेयुः । ततो भक्षणम् । पुनः -अपूरणं चमसानामायतने सादनं च । ततो हविश्शेपात् पुरोडाशात् -किञ्चिद्गृहीत्वा चमसिनः स्वे स्वे चमसे स्वस्वपितृपितामहप्रपिता- -महानुद्दिश्य प्रक्षिप्य तान् मन्त्रेणोपतिष्ठेरन् । -ततः प्रातस्सवनेऽन्तर्यामग्रहार्थमुपयुक्तेन पात्रेण आग्रयणात् -सावित्रं ग्रहं गृहीत्वा आयतनेऽसादयित्वैव आश्रावणादि कृत्वा जुहुयात् । -अन्न सविता देवता । ततस्तस्मिन्नेव सशेषे पात्रे पूतभृतः वैश्वदेवाख्यं -ग्रहं गृहीत्वा आयतने सादयित्वा होतुश्शस्त्रपाठार्थ प्रैषमध्वर्युर्दत्त्वा -स्वयं प्रतिगृणन् शस्त्रसमाप्तौ वैश्वदेवग्रहमादाय आश्रावणाधनन्तरं -जुहुयात् । तदानीं चमसाध्वयंवश्चमसान् प्रकम्पयेयुः । ते नाराशंसाः । -अत्र ग्रहे विश्वे देवाः देवता । चमसेषु काव्याः पितरः । ततो भक्षणम् ॥ -अत्र चमसानां सर्वभक्षणम् ॥ -आनीतवती । मध्येमार्ग मुखस्थलताया रसमचूपत् । तेन स नीरसस्सञ्जातः । अत -एव अद्यापि तृतीयसवने गृहीतरसशुष्क एव सोम उपयुज्यते इति कथा । -तै.सं. ६. १. ६. ४, ऐत.ना. ५. २. १३. २-३. शत.बा. ३.२.३. १. -। -See. -अत्र पुरोऽनुवाक्या अस्ति । - -=============== -092.jpg.txt" -===============" + - -===================================================== - -===================================================== -यज्ञतत्वप्रकाशे -सौम्यचरुः -ततः सौम्यचस्यागः । अनवस्रावितः तण्डुलपक्क ओदनः “रुः" -इत्युच्यते । तं यागमिष्टिकल्पेनानुष्ठाय तत उपांशुपात्रेण प्रानस्सवनोपयुक्तेन -पानीवताख्यं ग्रहम् आग्रयणस्थालीतो गृहीत्वा अनासाद्यैव आश्रावणाद्यनन्तरं -जुहुयात् । अत्र अग्निः पत्नीवान देवता । ततस्तदीयभक्षणे निर्वतिते -आधवनीयपात्रस्थं सर्वं सोमरसं पूतभृत्युत्पूय ततस्सर्वांश्चमसांश्चमसाध्वर्यु- -भिरुनाय्य यज्ञायज्ञियाख्यमग्निष्टोमस्तोत्रमन्तिमम् उद्गातृभिः प्रारम्भयेत् । -स्तोत्रमिदमेकविंशस्तोमकम् । स्तोत्रस्तवनकाले सर्व तत्सम्बन्धिनः स्वं -शिरोऽवकुण्ठयेयुः । स्तोत्रे समाप्ते होता आग्निमारुताख्यमन्तिमं शस्त्रं -शंसेत् । अध्वर्युः प्रतिगिरेत् । शस्त्रस्यान्तिमायामृचि शस्यमानायां -प्रतिप्रस्थाता प्रातस्सवने चरमगृहीतं ध्रुवग्रहं होतृचमसेऽवनयेत् । ततो -होतृचम -चमसमध्वर्युः अन्यांश्चमसांश्चमसाध्वर्यवश्व आदाय यथावज्जुहुयुः । -अत्र अग्निवैश्वानरो मरुतश्च देवताः । ततस्तेषां भक्षणम् । तदनन्तरमव-. -शिष्टपाशुककर्मणामनुष्ठानं परिधिप्रहरणान्तम् । अत्र अध्वर्युविरमेत् ॥ -। -हारियोजनग्रहप्रचारः -तते उन्नेता आग्रयणपात्रस्थं सर्व सोमरस द्रोणकलशेन गृहीत्वा -सादनमकृत्वैव यवधानाभिस्संमिश्य पात्रं शिरसि निक्षिप्य आश्रावणादौ -कृते शिरस्त एव जुहुयात् । ततः सर्वे ऋत्विजो हारियोजनं भक्षयेयुः । -ततश्चमसिनः स्वं स्वं चमसमवजिप्रेयुः । तदेवात्र भक्षणम् , न तु -पूर्ववत् प्रत्यक्षभक्षणम् । ततश्वमसिनामाग्नीध्रीये *दधिद्रप्सभक्षणम् । ततः -ऋत्विजः पूर्वप्रतिज्ञातं परस्परसख्यं विसृजेयुः । ततः पत्नीसंयाजसमिष्ट- -यजुर्होमादिकं सवनीयहविरङ्गकलापं परिसमाप्य प्रायश्चित्तहोमान् हुत्वा -सवनसमाप्तिहोमं कुर्यात् । ततो यजमानस्य विष्णुक्रमणादि -॥ एतावता तृतीयसवनं समाप्तम् ॥ -क. दधिद्रप्सो दनोऽत्यल्पोऽशः । दधि च लौकिकमापणादितो ग्राह्यम् । -1 -१. आप. श्री. १३. १३. १४-२२. -आप. औ. १३. १७.१---९. १८. १-५, बो. ८.१६. -२. -. - -=============== -093.jpg.txt" -===============" + - -===================================================== - -===================================================== -सोमयागनिरूपणम् -अथ अवभृथष्टिः -ततः सोमयागोपयुक्तानि सर्वाणि पात्राण्यादाय (ऐष्टिकपात्राणि -विहाय) औदुम्बयाँ राजासन्यां निक्षिप्य तामादाय ऋजीषं च गृहीत्वा -सपत्नीको यजमानस्सर्वे च ऋत्विजो यत्रावभृथेष्टिं करिष्यन्ति तजलसमीपं -गच्छेयुः । तत्रेष्टिद्रव्यम् एककपालपुरोडाशं यज्ञशालानावेव सजीकृत्य- -गृहीत्वा गच्छेयुः । गमनात्पूर्व तदङ्गतया आहवनीये काश्चन होमान् -हुत्वा मध्येमार्ग गमनमन्त्रं जपन्तः साम गायन्तः अवभृथाह जलं -प्राप्नुयुः । तत्र जल एव अवभृथेष्टिं कुर्युः । तत्र अग्नीवरुणो आज्यभाग- -देवते । बर्हिःप्रयाजवर्जिताः चत्वारः प्रयाजाः । एवं द्वावनूयाजौ । -वरुणः पुरोडाशदेवता । सर्वे होमा जल एव ॥ -तत ऋजीपं प्रोक्ष्य तत् जले प्रक्षिप्य प्रचरण्या निमजय्य -सोमलितानि" सर्वाणि पात्राणि जले प्रक्षिप्य दीक्षाकाले धृतानि योक्त्र- -मेखलावस्त्रजालकृष्णाजिनानि जले प्रविध्य तत्रैव जले यजमानः पत्नी च -स्नायाताम् । तदा परस्परं पृष्ठशोधनं कुरुताम् । तदा सर्वेऽप्यत्विजः -सहैव स्नायुः । तदा अवभृथस्नानार्थमागतानां सर्वेषां शिरसि यजमानोऽ- -अलिना जलमुत्क्षिपेत् । ततस्ते लानं कुर्युः इति सम्प्रदायः ॥ -तत उन्नेत्रा यजमानादिषु जलादुत्तारितेषु नूतनमहतं वासः -परिदधीयानां यजमानः पत्नी च । ततो यजमान आदित्यमुपस्थाय -ख. -क. यागार्थ क्रीतस्सोमो यागात् पूर्व यत्र स्थापित आसीत् , सा -राजासन्दी. Sce. Page 62 -निप्पीड्य गृहीतरसं निस्सार सोममित्यर्थः । -अभिपवग्रहणहोमादि काले. येषु येषु पात्रेषु सोमरसलेपोऽभवत् , तानि -सर्वाणि पात्राणि । -घ. अवभृथस्नानमिदम् अतीव पुण्यप्रदं सर्वेषां व्याध्यादिनिवर्तक चेति -शिष्टाः। -आप. औ. -१-१०, २०. -२१. -१. See. -कात्या. श्री. १०. ८. १७-१०-९-४. -11 - -=============== -094.jpg.txt" -===============" + - -===================================================== - -===================================================== -८२ -यज्ञतत्त्वप्रकाशे -पुनर्देवयजनभागत्य शालामुखीयेऽग्नावेव उदयनीयेष्टिमनुतिष्ठेत् । मा -प्रायणीयेष्टिवदेव । परं घायणीयेटयां या याज्याः ता उदयनीयायां -पुरोऽनुवाक्याः । याश्च तत्र पुरोऽतुवाक्यास्ता अत्र याज्याः । देवतास्तु -ता एव । द्रव्याण्यपि तान्येव । किं च प्रायणीयार्थ गम्मिन पात्र चरुः -पक्कः तदप्रक्षाल्यैव पूर्व स्थापितम् । तत्रैवोदयनीयार्थ चरुं पचेत् । -इत्येतावान् विशेषः । तत आनुवन्ध्यपशुयागः । तत्र गौवन्ध्या पशुवेन -विहिता । परं कलौ गोवधो निषिद्ध इति कृत्वा तद्विकल्पतया बह्वच- -ब्राह्मणे विहित आमिक्षायाग एवंदानीमनुष्ठीयते । स इष्टिरूप इति कृत्या -दर्शन्तर्गतेन्द्रयागवदनुष्ठेयः । मित्रावरुणौ देवता । आमिक्षासम्पादन- -प्रकारः चातुर्मास्येपु प्रथम पर्वण्युक्तः। तामिडान्तां समग्रां वा परिसमाप्य -यजमानो वेदेर्दक्षिणभागे केशश्मश्रुनखलोमानि वापयित्वा स्नात्वा -देविकासंज्ञकाः-धाता, अनुमतिः, राका, सिनीवाली, कुहूः इति पञ्च -देवताः इप्टिकल्पनाज्येनेष्ट्वा, प्रथमगार्हपत्यमरण्योस्समारोप्य, गृहमागत्य, -अरणी मथित्वा, अग्नीन विहृत्य तत्रोदवसानीयाख्यामिष्टिम् अधाकपाल- -पुरोडाशद्रव्यकाम् , तत्स्थाने विष्णुदेवताकामेकामाहुतिं वा कृत्वा -अनन्तरं रात्रावप्यग्निहोत्रमारभ्य सायमग्निहोत्रं कुर्यात् । उदिते प्रातरग्नि- -होत्रमनुतिष्ठेत् । आगामिन्यां पूर्णिमायां दर्शपूर्णमासावारभेत यदि -सोमपूर्वाधानी स्यात् । एवं समाप्तस्सोमयागोऽमिष्टोगसंस्थः प्रथमः ॥ -2 -उक्थ्य संस्था द्वितीया -उक्थ्यसंस्थाको यदि स्यात् ऋतुः, तत्र प्रातस्सवनमाध्यन्दिन- -सवनयोर्न विशेषोऽस्ति कश्चन । आदौ सङ्कल्पे सवनीयपशौ परं कियांश्चन -विशेषः । 'उक्थ्येन यक्ष्ये' इति सङ्कल्पः । सवनीयपशुद्धितीयः ऐन्द्राग्न -आग्नेयेन सह । सोमक्रयणकालेऽधिकस्सोम उन्मातव्यः । विशेषेणानेन सह -प्रकृतिवन्माध्यन्दिनसवनान्तं यावदनुष्ठीय तृतीयसवनारम्भे चमसगण- -त्रयपर्याप्तम् ऋजीपमभिषुत्य सोमरसं सम्पादयेत् । तत्र प्रकृतिवद्धारां -सावयित्वा तृतीयसवनीयाग्रयणहोमोत्तरकालं धाराया एव तीनुक्थ्यग्रहान् -क. समयानुष्ठानपक्षे वाजिनयागोपि वैश्वदेवपर्ववत्कर्तव्यः । इडान्तपक्षे न । -१. तै. सं.६.१. ५. ६. शत, ब्रा. ४. ४. २. - -=============== -095.jpg.txt" -===============" + - -===================================================== - -===================================================== -सोमयागविकृतिनिरूपणम् -गृहीत्वा आयतने सादयेत् । ततोऽग्निष्टोमसंस्थावदेव क्रमेण कर्माण्यनुतिष्ठन् , -अग्निष्टोमरतोत्रम्बन्धिचमसगणप्रचारानन्तरम् उक्थ्यग्रहप्रचारं कुर्यात् ॥ -तत्रादौ चमसोन्नयनाथ चमसाध्वयून् प्रेष्य, तेषु चमसानापूर्या- -गतेषु, अध्वर्युः उक्थ्यस्तोत्रार्थम् उद्गातॄन् प्रेष्य तैर्यथावत्स्तुत्वा स्तोत्रे -परिसमापिते मैत्रावरुणं शस्त्रशंसनार्थमभ्यर्थ्य, स्वयं च प्रतिगीर्य, तेन शस्त्रे -समापिते चमसहस्तैश्चमसाध्वर्युभिसह प्रथममुक्थ्यग्रहमादाय आहवनीय -गत्वा आत्रावणादिपूर्वकं हुवा भक्षयेत् । ततो द्वितीयतृतीयावपि -उक्थ्यग्रहावेवमेव चमसैस्सह प्रचरेत् । तत्र त्रिष्वपि पर्यायेपु स्तोतार -उद्गातारस्त एव । शस्त्रेषु परं प्रथमे पर्याये मैत्रावरुणः, द्वितीये ब्राह्मणा- -च्छंती, तृतीयेऽच्छावाकश्च शमितारो भवेयुः । प्रथमे उक्थ्यग्रहे इन्द्रावरुणौ, -द्वितीये इन्द्राबृहस्पती, तृतीये इन्द्राविष्णू च देवताः । एवं चोक्थ्यक्रतोः -त्रीण्युक्थ्यस्तोत्रााणे त्रीणि च शस्त्राण्यधिकानि । तानि चान्ते योजनीयानी. -त्येतावान् विशेषः । अन्यत्सर्वं प्रकृतिवत् ॥ -पोडशिमंस्था तृतीया -यदि स्यात् षोडशिसंस्थाकः क्रतुः तदा प्रातस्सवने सर्वधारा- -ग्रहाणामन्ते चारश्रे ऊर्ध्वपात्र षोडमाख्यं ग्रहं गृहीत्वा खरे आसादयेत् । -पशुग्त्र मेपस्तृतीय ऐन्द्रः पूर्वाभ्यामाग्ने पैन्द्रानाभ्यां सह । तृतीयसवने -उक्थ्यग्रहचमसपचाराननगरं पोडश्यांश्चमसानुन्नीय सूर्यस्यार्धास्तसमये -षोडशिस्तोत्रभारम्भययुः । स्तोत्रे समाप्ते शस्त्रम् । ततस्तद्ग्रहचमस- -प्रचारः । अवशिष्टानि कार्याणि प्रकृतिवत् । उक्थ्यपर्यन्तं पञ्चदश स्तोत्राणि -शस्त्राणि चे युक्तम् । अत्राधिकमकं शस्त्रं स्तोत्रं च वर्धते । तच्च षोडशम् । -तत्सम्बन्धाद्ग्रह. पोडशी । तत्सम्बन्धाच क्रतुरपि पोडशीति व्यवयिते । -श्रुतावेवमेव निर्वचनमुक्तम् ॥ -अतिरात्रसंस्था चतुर्थी -अतिरात्रसंस्थाके कतौ सोमक्रयकाले वहुलं सोमं क्रीत्वा मित्वा च -स्थापयेत् । पूर्वोक्तः (पोडशिन्युक्तैः) पशुभिस्त्रिमिस्सह मेषी चतुर्थी -सरस्वतीदेवताका । तृतीयसवनीयाभिषवकाल एव तत्पर्याप्तमृजीपमभिषुत्य -१. See. तै. सं. ६.६.११.६ २. तै. स. ६. ६. ११. १. - -=============== -096.jpg.txt" -===============" + - -===================================================== - -===================================================== -८४ -यज्ञतत्त्वप्रकाशे -पूतभृति रसमापूर्य स्थापयेत् । षोडशिग्रहप्रचारानन्तरं होतृचमसमुख्यान -दशापि चमसान् उन्नीय प्रथमे रात्रिस्तोत्रपर्याये प्रथम स्तोत्रं स्तावयेत् । -समाप्ते तस्मिन् होता प्रथमपर्याये प्रथमं शस्त्रं पठेत् । तत्समाप्तावध्वर्युः -होतृवमसं चमसाध्वर्यवश्च अन्यांश्चमसानादाय आहवनीये हुत्वा -भक्षक्रमेण भक्षयेयुः । अत्र वषट्कर्ता होता ॥ -ततो मैत्रावरुणचमसं प्रथमं कृत्वा चमसानुन्नाय्य द्वितीये स्तोत्रे -स्तुते, मैत्रावरुणेन शस्त्रे शस्तेऽध्वर्वादयः पूर्ववधुत्वा भक्षयेयुः । -तदिदं गणद्वयमध्वर्युः कुर्यात् । अनन्तरं गणद्वयं प्रतिप्रस्थातृकर्तृकम् । -अध्वर्युणा यत्कर्तव्यं तत्प्रतिप्रस्थाता कुर्यात् । अत्र ब्राह्मणाच्छंसिचमसं -मुख्यं कृत्वा प्रचारः । यस्य चमसो मुख्यो भवति स एव तत्र वषट्की । -अयं प्रथमः पर्यायः । एवमेव पर्यायद्वयं पुनरावर्तयेयुः । एवमेकस्मिन् -पर्याये चत्वारि स्तोत्राणि तावन्ति शस्त्राणि चेति त्रिष्वपि पर्यायेषु -मिलित्वा द्वादश स्तोत्राणि शस्त्राणि च भवन्ति । इम एव त्रयो रात्रिपर्याया -इत्युच्यन्ते । रात्रावेव स्तूयमानत्वादेषां रात्रिस्तोत्राणीति संज्ञा । तेपा -पर्यायो रात्रिपर्याय इति । षोडशिग्रहानन्तरं ग्रहो नास्ति, किं तु चमसा -एव । अत्र सर्वेषां चमसगणानामिन्द्र एव देवता ॥ -एवं पर्यायेषु समाप्तेषु प्रतिप्रस्थाता अश्विदेवताक द्विकपालं -पुरोडाशं व्रीह्यानयनप्रोक्षणावहननपेषणादिपूर्वकं अपयित्वा वेद्यामासाद- -येत् । ततोऽध्वर्युर्योतृचमसमुख्यांश्चमसानुन्नीय सन्धिस्तोत्रमारम्भयेत् । -समाप्ते तस्मिन् होता आश्विनशस्त्रं प्रारभेत । तत्सूर्योदयानन्तरमेव -समापयीत । ततः पूर्व शस्त्रसमाप्ती याः काश्चिदृचः शंसन्नेव सूर्योदयं -प्रतीक्षेत । उदित एव सूर्ये शस्त्रस्यान्तिमामृचं पठेत् । उदयानन्तरं -समाप्ते शस्त्रे, अध्वर्युहातृचमसं चमसाध्वर्यवश्वान्यांश्चमसान् गृहीत्वा -आश्रावणाधनन्तरं जुहुयुः । अस्मिन्नेव समये प्रतिप्रस्थाता पूर्वसंपादित- -माश्विनपुरोडाशं जुहुयात् । अत्र सर्वेषां चमसानां पुरोडाशस्य च अश्विनौ -देवता । समग्रस्यैव पुरोडाशस्य होमो न अवदानादि कृत्वेति विशेषः । -ततश्चमसभक्षणम् । अत्र होता वषट्कर्ता । अवशिष्टं प्रकृतिवत्समाप्य -अवभृथं कुर्यात् । सर्वत्र अवभृथानन्तरम् उदयनीयेष्टिः, अनूपन्ध्यास्थाने -मैत्रावरुण्यामिक्षा, उदवसानीया च प्रकृतिवदेवेति ॥ - -=============== -097.jpg.txt" -===============" + - -===================================================== - -===================================================== -सोमयागविकृतिनिरूपणम -एवं चतसृणां सोमसंस्थानां स्वरूपम् । तच्च संक्षेपेण निरूपितम् । -एताम्य एवं चतसृभ्यस्सोमसंस्थाभ्यो ग्रहचमसस्तोत्राणामावापोद्वापादिना -अन्यास्तिस्रसंस्थाः प्रसूताः । ताश्च अत्यनिष्टोम-वाजपेय अतोर्यामनाम्ना -व्यवहारं अजन्ते ॥ -अत्यग्निष्टोमसंस्था पञ्चमी -तत्र, अग्निष्टोमस्तोत्रानन्तरम् उक्थ्यस्तोत्राणि वीण्यकृत्वा षोडशि- -स्तोत्रशस्त्रादिप्रचारो यत्र क्रियते सा अत्यग्निष्टोमसंस्थेत्युच्यते । -अग्निष्टोम एवं तदुत्तरं षोडशिग्रहचमसस्तोत्रादीनामनुष्ठाने सा अग्निष्टोम- -संस्थैव संस्थान्तरं भजत इति फलितम् । अत्यग्निष्टोमसंस्थायामस्यां -क्षत्रिय एवाधिकारी न ब्राह्मणवैश्याविति केचित् ब्रुवते ! परमाश्वलायना- -दिभिः त्रैवर्णिककर्तृकसंस्थामध्येऽस्या अपि पाठात् तयोरप्यत्राधिकार -मन्वाना याज्ञिकास्तथैवानुतिष्ठन्ति ॥ -च -वाजपेयसंस्था षष्ठी -वाजपेयसंस्थायां प्रातर्माध्यन्दिनसक्ने अग्निष्टोमवदेव । तृतीय- -सक्नेऽपि षोडशिग्रहस्तोत्रान्तं षोडशिवदेव । तदनन्तरं वाजपेयसंज्ञकमेकं -स्तोत्रम् । एकश्चमसगणो होतृचमसमुख्यः । स्तोत्रं च सप्तदशस्तोमकम् । -शस्त्रं होतुरेव । अयं संस्थान्तर्गतः संस्थाखेव गण्यते । अतस्संस्थावाजपेय -इत्यपि व्यवहारोऽस्य । नायमापस्तम्बबोधायनादिभिर्विहितः न वा -याजुषीषु शाखासु विधानमस्य दृश्यते । ताण्ड्यबामणे छन्दोगसूत्रे च -अयमेव विहित इति कृत्वा केचिद्याज्ञिका अनुतिष्ठन्ति । तैत्तिरीयाधक्तो -वाजपेय इतो भिन्नः । तत्र सप्तदश दीक्षाः, तिस्र उपपदः एका सुत्या । -सप्तदश प्राजापत्याः सवनीयपशवः । सप्तदशारनियूः । तं सप्तदशभि- -वासोभिर्वेष्टयेत । सप्तदश सोमग्रहाः प्रजापतिदेवताकाः । तथा सुराग्रहा -अपि सप्तदश । इदानीं याज्ञिकाः सुराग्रहस्थाने पयोमहाननुतिष्ठन्ति । -सुत्यादिने सर्व ऋत्विजो हिरण्यमाला धारयेयुः । ऋत्विग्भ्यः सप्तदश -सप्तदश स्थाश्वगजराकटदासीदासनिष्कगोऽजाविदुन्दुभीनां दक्षिणावेन -दद्यः । सवनीयपशुकाले प्राजापत्यैस्सह क्रतुपशूनपि पञ्चोपाकृत्य पर्यनि- -करणान्तं कृला प्रथमतश्चतुरः क्रतुपशूनुपाकृत्य वपान्तं कृत्वा विरम्य -ब्रह्मसामकालेऽवशिष्टैः पशुभिः प्रचरेत् । ततः सप्तदशशरावपरिमित- - -=============== -098.jpg.txt" -===============" + - -===================================================== - -===================================================== -यज्ञतत्त्वप्रकाशे -नैवारचलं निरूप्य तेन प्रचरेत् । सर्वमन्यत्प्रकृतिवत् । एप आप्तो' -वाजपेयः । इतोऽप्यन्यः कुरुवाजसेयः कश्चिदस्ति । तस्याङ्गेषु बहस्ति -वैलमण्यम् । तत्सूत्रादितोऽवगन्तव्यम || -॥ इति वाजपेयः ॥ -अप्तोर्यामसंस्था सप्तमी -अतिरात्रसंस्थावत् रात्रिस्तोत्राणि सान्धस्तोत्रं च यथावदनुष्ठाय -तदननरं चत्वारि स्तोत्राणि अधिकतया यत्रानुष्ठीयते सा अप्तोर्यामसंस्था । -अप्तोर्यामशब्दव्युत्पतिः श्रुतावेवं वर्णिता-पुरा कदाचित् प्रजापतिः -पशूनसृजत् । सृष्टास्ते ततोऽपगताः । ताननेन क्रतुना आप्नोत् । यस्मा- -दाप्नोत् तस्मादप्तोर्यामत्वामिति । अप्तोः प्रात: यामो यज्ञः अप्तोर्याम इति । -एवं च सन्धिस्तोत्रान्तम् एकोनत्रिंशतं स्तोत्राण्यनुष्ठाय तदनन्तरं चत्वारि -स्तोत्राणि तदर्थं चत्वारश्चमसगणा अप्यनुष्ठेयाः । तेष्यतिरात्रवदेव -प्रथमद्वितीयगण योरध्वर्युः तृतीय चतुर्थयोः प्रतिप्रस्थाता च कर्तारौ । -इयमप्तोर्यामसंस्थेत्युच्यते ॥ -एवं सप्तानां सोमसंस्थानां स्वरूपाणि संक्षिप्तानि । विस्तरस्तु -ब्राह्मणेभ्योऽवगन्तव्यः श्रौतसूत्रादिभ्यश्च । अत्र सप्तस्वपि संस्थासु -स्तोत्र शस्त्रादीनां स्तोमसङ्घयाविशेषादीनां सम्प्रतिपत्तये तानि -नीचैः प्रदर्श्यन्ते । तत्तदृग्साध्यस्तुतिगतसङ्खयाविशेषः त्रिवृत्पञ्चदशादिः -स्तोमशब्दव्यवहारभाक् । अग्निष्टोमादिष्वनुछेयानां स्तोत्राणां शस्त्राणां च -स्तोमसङ्खयादिकं सुखावबोधाय पट्टिकारूपण प्रदयते- -१. अग्निष्टोमे- -प्रातःसबने -सङ्ख्या स्तोत्रनाम स्तोमः -शस्त्रनाम -शस्त्रका -१ बहिषवमानस्तोत्रम् त्रिवृत् १ माज्यशस्त्रम् होता -२ आज्यस्तोत्रम् -पश्चदश २ प्रउगशस्त्रम् -होता -३ -३ मैत्रावरुणशस्त्रम् मैत्रावरुणः -४ ब्राह्मणाच्छंसिशस्त्रम् ब्राह्मणाच्छंसी -५ -, ५ अच्छावाकशस्त्रम् , -४ -अच्छावाकः - -=============== -099.jpg.txt" -===============" + - -===================================================== - -===================================================== -सोमयागविकृतिनिरूपणम् -८ -» -or -2 -माध्यन्दिनसबने -सङ्ख्या स्तोत्रनाम -म्तोमः शस्त्रनाम -शस्त्रकर्ता -६ माध्यन्दिनपवमानम् पञ्चदश ६ मरुत्वतीय शस्त्रम् होता -७ पृष्ठस्तोत्रम् -सप्तदश ७ निष्कैवल्य शस्त्रम् होता -८ मैत्रावरुणशस्त्रम् -मैत्रावरुणः -९ ब्राह्मणाच्छंसिशस्त्रम् ब्राह्मणाच्छंसी -१० -१० अच्छावाकशस्त्रम् अच्छावाक: -तृतीयसबने -११ आर्भवपवमानस्तोत्रम् सप्तदश ११ वैश्वदेवशस्त्रम् होता -१२ अग्निष्टोमस्तोत्रम् एकविंशतिः १२ आग्निमारुतरास्त्रम् होता -आहत्य अनिष्टोमे द्वादश स्तोत्राणि, द्वादश शस्त्राणि, चत्वारः -स्तोमाः । सर्वत्र स्तोत्रेषु प्रस्तोता उदाता प्रतिहर्ता च स्तोतारः । शस्त्रेषु -परं कर्तृभेदः ॥ -२. उक्थ्ये- -५ प्रातस्सवन-अग्निष्टोमवदेव स्तोत्राणि शस्त्राणि स्तोमाश्च । -५ माध्यन्दिनसवने-अग्निष्टोमवदेव स्तोत्राणि शस्त्राणि स्तोमाश्च । -१० -तृतीयसवने -११ आर्भवपवमानस्तोत्रम् सप्तदश ११ वैश्वदेवशस्त्रम् होता -१२ अग्निष्टोमस्तोत्रम् एकविंशतिः १२ आग्निमारुतशस्त्रम् होता -१३ उक्थ्यस्तोत्रम् १३ मैत्रावरुणशस्त्रम् मैत्रावरुणः -१४ -१४ ब्राह्मणाच्छंसिशस्त्रम् ब्राह्मणाच्छंसी -१५ -१५ अच्छावाकशस्त्रम् अच्छावाक: -आहयोक्थ्यक्रतो -पञ्चदश -स्तोत्राणि शस्त्राणि च । -स्तोमाश्चत्वारः । -- -* " - -=============== -100.jpg.txt" -===============" + - -===================================================== - -===================================================== -यज्ञतत्वप्रकाशे -३. षोडशिकतो- -५ प्रातस्सवने- अग्निष्टोमवदेव स्तोत्राणि शस्त्राणि स्तोमाश्च । -५ माध्यन्दिनसवने --- अग्निष्टोमवदेव स्तोत्राणि शस्त्राणि स्तोमाश्च । -१० -शस्त्रकर्ता -तृतीयसवने -सङ्ख्या स्तोत्रनाम -स्तोमः शस्त्रनाम -११ आर्भवपवमानस्तोत्रम् सप्तदश ११ वैश्वदेवशस्त्रम् होता -१२ अग्निष्टोमस्तोत्रम् एकविंशः १२ आग्निमारुतशस्त्रम् होता -१३ उक्थ्यस्तोत्रम् १३ मैत्रावरुणशस्त्रम् मैत्रावरुणः -१४ -१४ ब्राह्मणाच्छंसिशस्त्रम् ब्राह्मणाच्छंसी -१५ -१५ अच्छावाकशस्त्रम् अच्छावाकः -१६ षोडशिस्तोत्रम् १६ षोडशिशस्त्रम् होता -आहत्य षोडशिक्रती षोडश स्तोत्राणि षोडश शस्त्राणि -चत्वारश्च स्तोमाः । -3) -- -अतिरात्रे- -प्रातस्सवने-अमिष्टोमवदेव स्तोत्राणि शस्त्राणि स्तोमाश्च । -५ माध्यन्दिनसवने-आग्निष्टोमवदेव स्तोत्राणि शस्त्राणि स्तोमाश्च । -तृतीयसवने -११ आर्भवपवमानस्तोत्रम् सप्तदश ११ वैश्वदेवशस्त्रम् होता -१२ अग्निष्टोमस्तोत्रम् एकविंशः १२ आनिमारुतशस्त्रम् होता -१३ उक्थ्यस्तोत्रम् १३ मैत्रावरुणशस्त्रम् मैत्रावरुणः -१४ -१४ ब्राह्मणाच्छंसिशस्त्रम् ब्राह्मणाच्छंसी -१५ -१५ अच्छावाकशस्त्रम् अच्छावाक: -१६ षोडशिस्तोत्रम् १६ षोडशिशस्त्रम् होता -" -" -" - -=============== -101.jpg.txt" -===============" + - -===================================================== - -===================================================== -सोमयागविकृतिनिरूपणम् -शस्त्रकर्ता ->> -प्रथमे रात्रिपर्याये -सङ्ख्या स्तोत्रनाम स्तोपसं० -शस्त्रनाम -१७ प्रथमं रात्रिस्तोत्रम् पञ्चदश १७ प्रथमं रात्रिशस्त्रम् होता -१८ द्वितीयं रात्रिस्तोत्रम् १८ द्वितीयं रात्रिशस्त्रम् मैत्रावरुणः -१९ तृतीयं रात्रिस्तोत्रम् १९ तृतीयं रात्रिशस्नम् ब्राह्मणाच्छंसी -२० चतुर्थ रात्रिस्तोत्रम् २० चतुर्थं रात्रिशस्त्रम् अच्छावाकः -द्वितीये पर्याये -२१ प्रथम रात्रिस्तोत्रम् पञ्चदश २१ प्रथमं रात्रिशस्त्रम् होता -२२ द्वितीयं रात्रिस्तोत्रम् २२ द्वितीयं रात्रिशस्त्रम् मैत्रावरुणः -२३ तृतीयं रात्रिस्तोत्रम् २३ तृतीयं रात्रिशस्त्रम् ब्राह्मणाच्छंसी -२४ चतुर्थ रात्रिस्तोत्रम् २४ चतुर्थं रात्रिशस्त्रम् अच्छावाकः -तृतीये पर्याये -२५ प्रथमं रात्रिस्तोत्रम् पञ्चदश २५ प्रथमं रात्रिशस्त्रम् होता -२६ द्वितीयं रात्रिस्तोत्रम् २६ द्वितीयं रात्रिशस्त्रम् मैत्रावरुणः -२७ तृतीयं रात्रिस्तोत्रम् २७ तृतीयं रात्रिशस्त्रम् ब्राह्मणाच्छंसी -२८ चतुर्थ रात्रिस्तोत्रम् २८ चतुर्थं रात्रिशस्त्रम् अच्छावाकः -२९ सन्धिस्तोत्रम् त्रिवृत् २९ आश्विनशस्त्रम् होता -आहत्य अतिरात्रे ऊनत्रिंशत्स्तोत्राणि तावन्त्येव च शस्त्राणि -चत्वारः स्तोमाः। -५ अप्तोर्यामक्रतौ- -प्रातस्सवने -१ बहिष्पवमानस्तोत्रम् त्रिवृत् १ आज्यशस्त्रम् -होता -२ आज्यस्तोत्रम् पञ्चदश २ प्रउगशस्त्रम् -३ मैत्रावरुणशस्त्रम् मैत्रावरुणः -४ ब्राह्मणाच्छंसिशस्त्रम् ब्राह्मणाच्छंसी -५ अच्छावाकशस्त्रम् आच्छावाकः ->> -होता -3 -४ -" -12 -99 - -=============== -102.jpg.txt" -===============" + - -===================================================== - -===================================================== -९० -यज्ञतत्त्वप्रकाशे -माध्यन्दिनसनने -सङ्ख्या स्तोत्रनाम स्तोमसं० -शस्त्रनाम -शस्त्रकर्ता -६ माध्यन्दिनपवमानस्तोत्रम् --- -सप्तदश ६ मरुत्पतीयशस्त्रम् होता -७ होतुः पृष्ठस्तोत्रम् एकविंशः ७ निष्केवल्यशस्त्रम् होता -८ मैत्रावरुण पृष्ठस्तोत्रम् चतुर्विशः८ मैत्रावरुणशस्त्रम् मैत्रावरुणः -९ ब्रह्मपृष्ठस्तोत्रम् चतुश्चत्वारिंशः ९ ब्राह्मणाच्छंसिशस्त्रम् ब्राह्मणाच्छंसी -१० अच्छावाकपृष्ठस्तोत्रम् -- -अष्टाचत्वारिंशः १० अच्छावाकशस्त्रम् अच्छावाकः -तृतीयसवने -११ आर्भवपत्रमानस्तोत्रम् त्रिणवः ११ वैश्वदेवशस्त्रम् होता -१२ उक्थ्यस्तोत्रम् त्रयस्त्रिंशः १२ आमिमारुतशस्त्रम् होता -१३ -त्रिणवः १३ मैत्रावरुणशस्त्रम् मैत्रावरुणः -एकविंशः १४ ब्राह्मणाच्छंसिशस्त्रम् ब्राह्मणाच्छंसी -१५ -सप्तदश १५ अच्छावाकशस्त्रम् अच्छावाक: -१६ षोडशिस्तोत्रम् एकविंशः १६ पोडशिशस्त्रम् होता -प्रथमे पर्याये -१७ प्रथमं रात्रिस्तोत्रम् पञ्चदश १७ प्रथमं रात्रिशस्त्रम् होता -१८ द्वितीयं रात्रिस्तोत्रम् १८ द्वितीयं रात्रिशस्त्रम् मैत्रावरुणः -१९ तृतीयं रात्रिस्तोत्रम् १९ तृतीयं रात्रिशस्त्रम् ब्राह्मणाच्छंसी -२० चतुर्थ रात्रिस्तोत्रम् २० चतुर्थं रात्रिशस्त्रम् अच्छावाकः -द्वितीये पर्याये -२१ प्रथमं रात्रिस्तोत्रम् पञ्चदश २१ प्रथमं रात्रिशस्त्रम् होता -२२ द्वितीयं रात्रिस्तोत्रम् २२ द्वितीयं रात्रिशस्त्रम् मैत्रावरुणः -२३ तृतीयं रात्रिस्तोत्रम् २३ तृतीयं रात्रिशस्त्रम् ब्राह्मणाच्छंसी -२४ चतुर्थ रात्रिस्तोत्रम् २४ चतुर्थं रात्रिशस्त्रम् अच्छावाकः -" -" - -=============== -103.jpg.txt" -===============" + - -===================================================== - -===================================================== -सोमयागविकृतिनिरूपणम् -९१ -तृतीये पर्याये -सङ्खपा स्तोत्रनाम स्तोमसं० -शस्त्रनाम शस्त्रकर्ता -२५ प्रथमं रात्रिस्तोत्रम् पञ्चदश २५ प्रथमं रात्रिशस्त्रम् होता -२६ द्वितीयं रात्रिस्तोत्रम् २६ द्वितीयं रात्रिशस्त्रम् मैत्रावरुणः -२७ तृतीयं रात्रिस्तोत्रम् २७ तृतीयं रात्रिशस्त्रम् ब्राह्मणाच्छंसी -२८ चतुर्थ रात्रिस्तोत्रम् २८ चतुर्थ रात्रिशस्त्रम् -अच्छावाकः -२९ सन्धिस्तोत्रम् त्रिवृत् २९ आश्विनशस्त्रम् होता -३० अप्तोर्यामस्तोत्रम् प्रथम ३० प्रथमाप्तोर्यामशस्त्रम् होता -३१ द्वितीयं पञ्चदश ३१ द्वितीयामायामशस्त्रम् मैत्रावरुणः -३२ तृतीयं सप्तदश ३२ तृतीयाप्तोर्यामशस्त्रम् ब्राह्मणाच्छंसी -३३ चतुर्थं एकविंशः ३३ चतुर्थीप्तोर्यामशस्त्रम् अच्छावाकः -आहत्य त्रयस्त्रिंशत्स्तोत्राणि, तावन्ति शस्त्राणि, नव च स्तोमा इति । -एवं ज्योतिष्टामाख्यस्य सोमयागस्य स्तोत्र शस्त्रगतसङ्ख्यादीनि यथावत् -प्रदर्शितानि ॥ ->> -" -स्तोमविवरणम् , विद्युतिप्रकारश्च -एवं संवत्सरसत्रान्तेषु तेषु तेषु सोमयागेषु सामवेदीयैरुगात्रादि- -भिविग्भिः क्रियमाणानां स्तोत्राणां सङ्ख्या तदीयस्तोमाश्चोक्ताः । तत्र -तत्तद्देवताभ्यस्तेषु तेषु ग्रहचमसादिषु पात्रेषु सोमरसे गृहीते तत्तद्देवता -उद्दिश्य गानयुक्तैर्मन्त्रैः सदोनामकमण्डपे औदुम्बर्याख्यस्थूणासमीपे -उपावेष्टैरुद्भातृप्रस्तोतृपतिहर्तृनामकैर्ऋत्विग्भिः क्रियमाणाः स्तुतिविशेषा -एव स्तोत्रपदेनोच्यन्ते । स्तोत्रगतावृत्तिविशेष एव स्तोमपदाभिधेयः । -तिस वृक्षु एकं साम गीयते । तत् तासु यावत्कृत्व आवर्त्यते तावत्सङ्ख्या- -कस्तोमो भवति । ते च स्तोमाः-त्रिवृत् , पञ्चदशः, सप्तदशः, -एकविंशः, त्रिणवः, त्रयस्त्रिंश , चतुर्विशः, चतुश्चत्वारिंशः, अष्टाचत्वारिंशः -इति नवप्रकाराः । इमे एव प्रकारास्तत्तत्कतुषु क्वचिदभ्यस्ताः कचि- -बानभ्यस्ताः क्रियन्ते तत्तद्विधिमनुस्य । त्रिवृत् इति.नव सङ्घयोच्यते । -त्रिणव इति सप्तविंशतिः । अन्यत् यथाश्रुतमेव ॥ - -=============== -104.jpg.txt" -===============" + - -===================================================== - -===================================================== -९२ -यज्ञतत्वप्रकाशे -इयं च त्रिवृदादिसङ्खचा वारत्रयमावृत्ताभिस्तिसृभिग्भिस्सम्पा- -दनीया । तद्यथा-माध्यन्दिनपवमानाख्यमेकं स्तोत्रम् । तच्च पञ्चदश- -स्तोमकम् । सा च सङ्ख्या तिसृणामृचा पर्यायत्रयगानेन सम्पादनीया। तत्र -प्रथमे पर्याये-प्रथमामृचं त्रिः, द्वितीयां सकृत् , तृतीयां च सकृत् । -एवं प्रथमपर्याये पचवारमावृत्तिर्जाता । द्वितीय पर्याये--प्रथमां सकृत् , -द्वितीयां त्रिः, तृतीयां सकृच्च गायेत् । एवं द्वितीये पञ्चवारमावृत्तिः । -तृतीये पर्याये-प्रथमां सकृत् , द्वितीयां सकृत् , तृतीयां त्रिः । एवं -पञ्चवारम् । मिलित्वा पञ्चदशसङ्ख्या सम्पन्ना । गानगतप्रकारविशेषो -विष्टुतिरित्युच्यते । एकैकस्मिन्नपि स्तामेऽनेका विष्टुतय इति मिलित्वा -अष्टाविंशतिसङ्ख्यामा विष्टुतयस्सन्ति । गानकाले च गणनार्य कुशानिक्षेपः -कार्यः । तत्रोदाता सदोनामकमण्डामध्ये निखातामौदुम्बरी वस्त्र संवेष्टिता- -मपाश्रित्योत्तराभिमुख उपविशेत् । तस्य दक्षिणभागे (उद्गातुः पूर्वस्यां -दिशि) प्रस्तोता पश्चिमाभिमुख उपविशेत् । वामभागे (उद्गातुः पश्चिमायां -दिशि) प्रतिही पूर्वाभिमुख उपविशेत् । एवं तैरुपविष्टैर्गाने कियमाणे -प्रस्तोता (उद्गातुरनन्तर ऋत्विक् ) सानो गानमारभमाणः आरम्भकाले -पूर्वोक्ताः कुशा एकैकस्यामावृत्तौ, एकैकशो भूमौ निक्षिपेत् । तीक्ष्णाग्रः -प्रादेशमात्रः उदुम्बरवृक्षीयः एकत्र तष्टे लघुकायः काष्ठविशेषोऽत्र -कुशाशब्देनोच्यते । ताश्च तासु तासु विष्ठातेषु विभिन्नप्रकारेण -निक्षेपणीयाः । ते च प्रकारविशेषा अधस्तन्या पट्टिकया स्पष्टीभविष्यन्ति । -तत्र त्रिवृत्स्तोमे न विशेषोऽस्तीति न कुशानिक्षेपः क्रियते ॥ -२ पञ्चदशस्तोमस्य तिस्रो विष्टुतयः । तत्र- -प्रथमा विधुतिः- -प्र. पर्यायः द्वि. पर्यायः तृ. पर्यायः -तृतीया ऋक् -द्वितीया ऋक् -प्रथमा ऋकू -- - -=============== -105.jpg.txt" -===============" + - -===================================================== - -===================================================== -सोमयागविकृतिनिरूपणम् -९३ -द्वितीया विद्युतिः- -दि. प. -त. प. -तृतीया ऋक् -द्वितीया " -T -प्रथमा -" -तृतीया विष्टुतिः -प्र. प. -द्वि. प. -तृतीया ऋक् -द्वितीया -प्रथमा -३ सप्तदशस्तोमस्य सप्त विष्टुतयः -तत्र प्रथमा-- -प्र. प. -द्वि. प. -तृ. प. -तृतीया ऋक् -द्वितीया " -a -प्रथमा -" -४ एकविंशस्तोमस्य चतस्रो विष्टुतयः -तल प्रथमा--- -प्र. प. -द्वि. प. -तृ. प. -तृतीया ऋक् -द्वितीया , -- -S -प्रथमा " -w -- -m- - -=============== -106.jpg.txt" -===============" + - -===================================================== - -===================================================== -। यज्ञतत्त्वप्रकाश -५ त्रिणवस्तोमस्य (२७) द्वे विष्टुती -तत्र प्रथमा- -प्र. प. -द्वि. प. -तृतीया ऋक् --- -तृ. प. -द्वितीया " -प्रथमा " -६ त्रयस्त्रिंशस्तोमस्य पञ्च विष्टुतयः -तत्र प्रथमा- -प्र. प. -द्वि. प. -तृतीया ऋक् -तृ. प. -द्वितीया " -III -III -1 --- -प्रथमा -चतुर्विंशस्तोमस्यैका विष्टुतिः -तत्र प्रथमा- -द्वि. प. -तृ. प. -तृतीया ऋक् -द्वितीया -III -प्रथमा - -=============== -107.jpg.txt" -===============" + - -===================================================== - -===================================================== -सोमयागविकृतिनिरूपणम् -९५. -८ चतुश्चत्वारिंशस्तोमस्य तिस्रो विष्टुतयः -तत्र प्रथमा विद्युतिः- -प्र. प. द्वि. प. -तृ. प. -तृतीया ऋक् -द्वितीया -प्रथमा -९ अष्टाचत्वारिंशस्तोमस्य हे विष्टुती -तत्र प्रथमा विधुतिः- -द्वि. प. -तृ. प. -तृतीया ऋक् -द्वितीया -प्रथमा " - -=============== -108.jpg.txt" -===============" + - -===================================================== - -===================================================== -यज्ञतत्त्वप्रकाशे -एवं पञ्चदशाधष्टाचत्वारिंशान्तानां स्तोमानामष्टानामनेकप्रकारासु -विष्टुतिषु प्राथमिकी विष्टुतिरेकैका स्वरूपेणोलिखिता । इतरासां -स्वरूपमस्मत्कृतताण्ड्यमहाब्राह्मग भूमिकातोऽवगन्तव्यम् । ग्रन्थगौरव- -भयात्तु नोल्लिखितमत्र । अत्र सर्वत्र तत्तत्स्तोत्रारम्भे प्रस्तोता स्वस्य पुरतः -उदगग्राः पश्चिमापवर्गाः कुशा निक्षिपेत् गणनार्थम् । तत्र प्रथमे पर्याये -प्रथमाया ऋचस्तत्तत्सङ्खयाकाः कुशाः तिरश्चीना निक्षेपणीयाः । -द्वितीयस्या अनूचीनाः । तृतीयस्याः पुनस्तिरश्वीनाः । एवमेव द्वितीय- -तृतीययोरपि पर्याययोरिति बोध्यम् । अत्र कुशाशब्दः आकारान्तस्त्रीलिङ्गः । -अयमेव च स्तोमानां गणनाप्रकारो ज्योतिष्टोमादिषु सहस्रसंवत्सरान्तेषु -सर्वेष्वपि सोमयागेष्वित्यवगन्तव्यम् । सङ्घयाया अविस्मरणाय अयं -प्रकार आहतः ॥ -इति महामहोपाध्याय-शासरत्नाकर-पण्डितसार्वभौम-श्रीचिन्नस्वामिशाखि- -विरचिते यज्ञतत्त्वप्रकाशे सोमयागादिनिरूपणाख्यः -द्वितीयो भागः॥ - -=============== -109.jpg.txt" -===============" + - -===================================================== - -===================================================== -॥ श्रीः॥ -॥ श्रीगणेशाय नमः ॥ -॥ यज्ञतत्त्वप्रकाशः ॥ -महामहोपाध्यायश्रीचिन्नस्वामिशास्त्रिविरचितः -चयनादिनिरूपणरूपः -॥ तृतीयो भागः ॥ -चयनम् -अथेदानीमग्निचयनं निरूप्यते । पशुयागेषु सोमयागेषु योत्तरवेदिरक्ता -तत्रैव आहवनीयं निधाय सर्वे होमाः कर्तव्या इत्ययमेकः पक्षः । तस्या -एपोपरि स्थाण्डिलविशेष कञ्चन निर्माय तदुपर्याहवनीयमवस्थाप्य तत्र होमा -इत्यपरः पक्षः । तत्र ताशस्थण्डिलनिर्माणप्रकारः 'चयनम् इति, निर्मित, -स्थण्डिलम् , 'चितिः' इति च व्यवहियते वैदिकसम्प्रदाये । सा चितिद्धि- -विधा-क्षुद्रचितिः, महाग्निचितिश्चेति । शर्कराख्यैः क्षुद्रपाषाणैः शतो- -पशतसङ्ख्याकैः निर्मीयमाणा अल्पाकारा क्षुद्रचितिः । बृहतीभिस्सहस्त्र- -सङ्ख्याकाभिरिष्टकाभि षड्विवाभिरखण्डिताभिस्तत्तदाकारतया निर्मीयमाणः -स्थण्डिलविशेषो महानिचितिः । तत्र क्षुद्रचितयः षट् । तासां विषयो मन्त्राश्च -तैत्तिरीयारण्यके तैत्तिरीयब्राह्मणान्तर्गत काठमाख्ये भाग एव च दृश्यन्ते । -नान्यत्न । तासां विनियोग प्रायेण निरूढपशुयागादौ एव याज्ञिकाः -१. घोडशी, अध्या, पाद्या, पक्ष्या, पचमध्या, पक्षाच्या इति षड्विधा -इष्टकाः । गार्हपत्यचितेरिष्टका एतदपेशया विभिन्नप्रकारा एव भवेयुः । -२. चित्युपयुक्ता मन्त्राः ब्राह्मणानि च प्रायण आध्यात्मिकभावपूर्णानीत्य- -स्माभिः सप्रमाणमुपपादित यशतत्त्वालोके । क्षुद्रचितिषु तु बाहुल्येन तन्मयतैवोपलभ्यते । -संहिताबाह्मणभागापेक्षया आरण्यकभागोऽध्यात्मविद्यापबंहित इति स्पष्टमेव । अत एव -ब्राह्मणोपनिषदः सर्वा अपि आरण्यकान्तर्गता एवाधीयन्ते । अतश्च ज्ञानकर्मोमयसंवलना- -रिमकीनां क्षुद्रचितीनाम् आरण्यकेषु आम्नानं न कदापि दोषाय कल्पते । अतस्तासां -प्रामाण्यविषयेऽनुष्ठानविषये वा न कियानपि न्यूनाधिकभावः साहितिकचयनापेक्षया । -. -13 - -=============== -110.jpg.txt" -===============" + - -===================================================== - -===================================================== -यज्ञतत्वप्रकाशे -कुर्वन्ति । ताश्च एकदिनसाध्या एव । तत्साधनभूतानां क्षुद्रपापाणाना- -मल्पत्वेन तैर्भूमेरुपरि स्थण्डिलनिर्माणस्य अशक्यतया उत्तरवेदि- -मध्येऽवटं कृत्वा तत्रैव तानुपधाय तदुपर्येव आहवनीयमुपधाय यजेत । -महाग्निचितयस्तु भूमे रूपथैव क्रियन्ते । ताश्च कादशविधास्तैत्तिरीय उक्ताः । -तासामेव च प्रमाणविवर्धननैकोतरशतविधत्वं वाजसनेयिशाखायामुक्तम , -आपस्तम्बादिमिनिरूपितं च । परं तासु सासु नचितिरेव सुपर्णचित्यपर- -नामधेया प्राथम्यं प्राधान्यं च आवहति । अतः सैव याज्ञिकैर्यथायथ- -मनुष्ठीयते सति सामग्रीसमवधाने । अन्यास्तु नाममात्राव शिष्टाः । यथा- -वदवगमोऽपि न तासां सुलभः । तैत्तिरीये शाखान्तरेषु च श्येनचिति- -मधिकृत्यैव प्रवृता मन्या ब्राह्मणानि च । सा श्येनचितिराकाशे पक्षी -प्रसार्य डयमानपक्ष्याकृतिश्वीयते । तत्र पञ्च प्रस्ताराः । एकैकस्मिन् -प्रस्तारे शतद्वयमिष्टकानाम् । पञ्चसु प्रस्तारेपु मिलित्वा सहस्रमिष्टका -भवन्ति । स्वरूपमस्या अन्ते पृथक चित्ररूपेण प्रदर्शितम् । अत्र सवैष्वपि -प्रस्तारेषु नैकरूप्येणेष्टकानामुपधानम् । किं तु प्रथमतृतीयपञ्चमेष्वेकरूपतया, -द्वितीयचतुर्थयारेफरूपतया । तथा सत्येव प्रताराणां परस्परं संलग्नता -स्यात् । इयमाहवनीयनिधानार्था चितिः । एवमेव गार्हपत्यार्थमपि चितिः -सम्पादनीया । सापि प्रथमानुष्ठाने पञ्चप्रस्ताव । परमिष्टकानामेकरूपतत्र -तत्र । दीर्घचतुरश्राकारा च सा, न पक्षिरूपा । एवं पञ्चभिः प्रस्तारैनिर्मिता -चितिर्जानुदनप्रमाणा स्यात् । त्रिंशदङ्गुलं जानुदनप्रमाणमिति -सूत्रकाराः । तस्य पञ्चमोऽशः इष्ट कानामुत्सेधः । एवं च षडङ्गुलोन्नता -एका इष्टका भवति । तिर्यक्षमा गानि इष्टकाचित्र एव तत्तदिष्टकास्वरूप- -निटे उल्लिखितानि । एवं सामान्यतः चयनसम्बन्धिनो विषयाः -कथिताः । तदनुष्ठानप्रकारः सङ्कपताऽथ निरूप्यते ॥ -- -- -चयने उखासम्भरणम् -यस्मिन् वसन्तेऽग्नि चेष्यमाणो भवति ततो वत्सरात् पूर्वम् -अमावास्यायां पौर्णमास्यां वा प्रातरग्निहोत्रं हुवा चयनाथ सङ्कलं -कुर्यात्-साग्निचित्येन ज्योतिष्टोमेन सर्वपृष्ठ-सर्वस्तोम-अप्तोर्यामादिना वा -यक्ष्य इति । ततः प्रकृत्यग्निष्टोमादिवत् सोमप्रवाकवरण-मधुपर्कदानादि- -देवयजनयाचनान्तं कृत्वा, गाईप यादग्नि गृहीत्वा आहवनीयाद्यायतने -निक्षिप्य प्रज्वलय्य देवेभ्यः अग्नये सवित्रे च कांश्चन होमान् हुत्वा - -=============== -111.jpg.txt" -===============" + - -===================================================== - -===================================================== -चयननिरूपणम् -. -खनित्रम् , अश्वरशनां, गर्दभरशनां च गृहीत्वा ताभ्यामश्वं गर्दभं च बवा, -कृष्णाजिनं पुष्करप मुअतृणनिर्मितां रज्जु, कमण्डुलुं नवं जुहूं हिरण्यं च -गृहीत्वा, अश्वं पुरतो गमयन्त अध्वर्युव्रह्मयजमानाः तत्पश्चात् गर्दमसहिता -उम्बानिर्माणयोग्या यत्र मृदस्ति तत्र गत्वा तत्र वल्मीकमुद्धत्य तमुपस्थाय -मृत्खननस्थानमश्वेन आक्रमय्य, अश्वपादनिक्षेपाथले हिरण्यं निधाय हुत्वा -मृत्खनमध्या त्रिः परिलिख्य तं देशं खात्वा, तत उद्गतां मृदं पुष्करपणे -विष्टथ, मृत्खनस्योत्तरभागे कृष्णाजिनमास्तीर्य तत्र पद्मपत्रमुत्तानं वितत्य -तत्र मृदं सम्भृय मृदमभिमृश्य मृत्खनऽप आनीय, तन्मृदन्तरेण अभिपूर्य -समृदं कृष्णाजिनमादाय मौज्या रज्वोपनह्य, हृत्वा गर्दभस्य पृष्ठ -आधाय, अश्वरशनां गईभरशनां च गृहीत्वा पूर्ववत् अग्रेऽश्वं गमयन्तः -वरमाणाः प्रत्यागत्य विहारस्योत्तरभागे परिश्रिते स्थाने बदामेव मृदं -पुष्पफरवीघोषधीषु निक्षिप्य, बन्धनं विस्रस्य, तत्र मृदि उखादृढी- -करणार्थानि स्फुटिरघटादिशकलानि, वेपङ्गारान , -पलाशकषायं, शर्कराः, पिष्टाः, कृष्णाजिनाज लोमानि, अन्यानि च -तादृशानि वस्तूनि सम्मेल्य, स्थापयेयुः । ततो यजमानस्तां मृहम् अध्वर्यवे -दद्यात् । ततोऽध्वर्युः स्वयमेवोखां निर्मायात् । सा च चतुरश्रा -परिमण्डला वा प्रादेशमात्रोलप्रमाणा, अनिमात्रतिर्यप्रमाणा, बिलस्य -अधस्तात् द्वयङ्गुल रिमिते दशेरास्नावती द्विचतुष्पदम्तनान्धिता च कार्या । -ततस्तामुत्तरतः सिकतासु प्रतिष्ठाप्य, मित्राय विनिवेद्य, तस्या एव मृदः -अषाढाख्यामेकां चतुरां रेखात्रय युनामिष्टकां निर्माय, गार्हपत्यादग्निं -गृहीत्वा तमश्वशकता प्रदीप्य तेनोखां धूपयित्वा तमनं विसृज्य, अग्रेण -गाईपत्यमवट खात्वा, तत्रोखापाकाहा॑णि वस्तूनि प्रक्षिप्य, तदुपर्युवाम- -वधाय, तया सहापाढाख्यामपीष्टकां निक्षिष्य, पाकसाधनैर्व तुभिः -प्रच्छाद्य, गार्हपत्यादमिनाहृत्य, तदुपर्यभ्यावाय, ते तथा पक्त्वा यथा -लोहिते भवतः, उदास्य, अजापयसोखां सिक्त्वा श्लक्ष्णीकृत्य, उखाम- -पाढेष्टकां च सुरक्षितं निक्षिोत् ॥ -वीहितुपान् , -- -चरने वायव्यपशुयागः -तदनन्तरं वायुदेवताक पशुयागमनन्तरपूर्णिमायाम् अनन्तरामा- -वास्यायां वा निरूढाशुबन्धयागवत् चयनाङ्गत्या अनुतिष्ठेत् । अत - -=============== -112.jpg.txt" -===============" + - -===================================================== - -===================================================== -3 -- -- -यज्ञतत्त्वप्रकाशे -वायुर्नियुत्वान् देवता । पशुपुरोडाशे तु प्रजापतिर्देवतेति विशेषः । पशोः -शिरश्छित्त्वा मृदा प्रलिप्य सुरक्षितं निदध्यात् । अस्येप्टकोपधाने -उपयोगो भविष्यति । ततोऽग्निष्टोमवत् प्रवर्यसम्भरणं कुर्यात् । -तच पर्वण्येव भवति । तदानीमेव चयनौपयिका इष्टका निर्माय अग्निं -मथित्वा तेन ताः पचेत् । यथा ताः कृष्णा वक्रा अतिपक्का अपक्का -वा न भवेयुः, यथा च लोहितवर्णा एव स्युः तथा पक्तयाः । ततो -दीक्षारम्भः । तत्र दीक्षाविषये दिनत्रयप्रभृति संवत्सरपर्यन्ता बहवः पक्षाः -श्रुताः । दिनत्रयदीक्षापक्षे वासन्त्यां शुक्लपष्ठयां दीक्षारम्भः कर्तव्यः । -पक्षान्तरेषु यथा वासन्त्यां पूर्णिमायां सुत्या स्यात् तथा आरम्भः कार्यों -दीक्षायाः ॥ -उख्याग्निनिष्पादनधारणादि -यस्मिन् दिने दीक्षारम्भ चिकीर्पति तस्मिन् दिने प्रातरनिहोत्रं -कृत्वा, नान्दीश्राद्धं यागाहीनां द्रव्यविभागनिर्देशं च कृत्वा गृह -एव दीक्षणीयेष्टिं कुर्यात् । सा च त्रिहविष्का-अग्नये वैश्वानराय द्वादश- -'कपालः पुरोडाशः, अग्नाविष्णुभ्यामेकादशकपालः पुरोडाशः, अदित्यै -चरुश्चेति । पत्नीसंयाजान्तां तामनुष्ठाय, ततः सोमयागवत् प्राग्वंशनिर्मा- -णादिकं मुष्टिकरणावधिक क्रियाकलापमनुष्ठाय, मुअतृणैः शणतृगैर्वो- -खामापूर्य, तामाहवनीयम्योपर्यविश्रित्य परितोऽङ्गारः प्रदीपयेत् । उखामध्ये -सुखदायानि च वस्तून्याज्येन अक्त्वा प्रक्षिपेत् । यथा तप्ताया उखाया -अन्तःस्थानि वस्तूनि स्वयं दधेरन् तथा तांतापयेत् । अन्तःस्थेषु तृगेष्वति- -तप्तेषु तत्र अग्निरुत्पद्यते । स उख्योऽग्निरित्युच्यते । उख्ये जाते आहवनीय- -मग्निमुपशमय्य, उख्येऽग्नौ वैकङ्कती शमीमयीं च समिधावाधाय, -ज्वलन्तं ' तमग्निमुपस्थाय, पुनरौदुम्बराश्वत्थादिभिः काष्ठेरग्निमादीप्य -मुअतृणनिर्मिते हस्तषट्कपरिमितदैर्घायुते शिक्ये साग्निम् उखामवधाय , -सुवर्णनिर्मितं हस्ततलपरिमितमेकविंशतिनिधियुतं वर्तुलाकार रुक्म -यजमानस्य कण्ठेऽध्व युरवमुञ्चेत् । ततो यजमानः शिक्यपाशमपि -कण्ठेऽवमुच्य, तदुपरि कृष्णाजिनं स्कन्धयोनिधाय, उख्यमादायोथाय, -उख्यं नाभेरुपरि धारयमाणः चतुरो विष्णुक्रमान् प्राचः कामेत् । -प्राङ्मुखः सन् चत्वारि पदान्यग्रतो गच्छेत् । तदेव विष्णुक्रमणमित्युच्यते । -१. सर्वत्र पशुयागेषु पश्वङ्गभूता एव देवताः पुरोडाशाङ्गभूताः प्रायेण -भवन्ति । अन तु न तथा । पशुदेवता वायुः, पुरोडाशदेवता प्रजापतिः । -- - -=============== -113.jpg.txt" -===============" + - -===================================================== - -===================================================== -चयननिरूपणम् -ततः प्रदक्षिणं पर्यावृत्य रुक्मं कृष्णाजिनं चोन्मुच्य निधाय शिक्यपाश- -मुन्मुच्य, पूर्वसजितायामोदुम्बर्यामासन्धां प्रादेशमात्रपादायां मौलविता- -नायां मृदा लिप्तायामुख्यं सादयित्वोपस्थाय, पुनः काष्ठरुपसमिन्धीत । -ततो मुष्टीकरणादिसौमिकपदार्थान् सनीहारप्रेषणान्तान् कृत्वा जाग्रत् तां -रात्रिनलिवाहयेत् । श्वोमूते प्रातरुत्थाय सोमपरिवेषणान्ते कर्मणि कृते -यजमान उख्यमग्निमुपतिष्ठेत । ततो मध्यन्दिने मध्यरात्रे च व्रतग्रहणा- -दिकं प्रकृतिवदेव । एवं यावद्दीक्षं पूर्वे युर्विष्णुक्रमणम् , उत्तरेचुरग्न्यु- -पस्थानं च पर्यायेण कुर्वन्नासीत । यदहर्दीक्षासमाप्तिः तदहर्विष्णुक्रमण- -मुख्योपस्थानं चत्यु भयं कृत्वा उख्यमुद्यम्य शकटेऽवस्थाप्य, गार्हपत्य- -दक्षिणाग्नी अपि साक्षादेव शकटेऽवस्थाप्य स्वयमपि सपत्नीकः शकट- -मारुह्य देवयजनस्थानं प्रति प्रयायात् । प्राप्य देवयजनं गाईपयं -दक्षिणाग्निं च स्वम्वायतने निधाय, गार्हपत्यस्य पुरत उख्यं निधाय, -तत्रौदुम्बरी समिधमादधाति ॥ -गार्हपत्यचितिमानादि -ततो गार्हपत्यस्थण्डिलचयनाथ हस्तचतुष्टयपरिमितां भूमि -प्रोक्षणोद्धननादिभिः संस्कृत्य तं देशमेकविंशत्या शर्कराभिः (क्षुद्रपाषाणैः) -परिश्रित्य, परिश्रितदेशे प्रागायता एकविंशतिमिष्टकाः प्रथमप्रस्तारे -उपदध्यात् । द्वितीयप्रस्तारे तद्वयत्यासेन तावतीरेवेष्टका 'उदगायता -उपदध्यात् । प्रथमप्रस्तारे प्रागायतास्तिस्रो रीतयः । एकैकस्यां रीती -सप्तेष्टकाः। द्वितीयप्रस्तारे उदगायता इष्टकाः सप्त रीतयः । एकैकस्यां रीतौ -तिन इष्टकाः । एवं प्रथमतृतीयपञ्चमेषु प्रस्तारेषु प्रागायता इष्टकाः, -द्वितीय चतुर्थयोः प्रस्तारयोरुदगायताश्चेष्टका उपदध्यात् । एकैकस्मिन् -प्रस्तारे एकविंशतिरिष्टका इत्याहत्य पञ्चस्वपि प्रस्तारेषु पञ्चोत्तरं शतमिष्टका -भवन्ति गार्हपत्यचितौ । इष्टकाश्च दैर्ये द्वात्रिंशाालमिताः विस्तारे -पादोनचतुर्दशाङ्गुलमिताश्च भवन्ति । (३२४१३१) । एतासामुपधान- -रीतिस्तु प्रतिकृतौ द्रष्टव्या । तत्रैकैकं प्रस्तारमुपधाय चात्वालदेशादा -अत्रैव अग्नेर्देवयजनं प्रति साक्षादाहरणम् । अन्यत्र तु अरण्यादि- -समारोपणेनैव । -२. प्रथमतो गार्हपत्यस्य चयनम् । तत आहवनीयस्य । दक्षिणामे: -स्थाण्डिलं नास्ति। - -=============== -114.jpg.txt" -===============" + - -===================================================== - -===================================================== -१०२ -यज्ञतत्वप्रकाशे -मृदं सिकनां वा आहृत्य अहितस्य प्रस्तारम्योपरि निवपेदालिम्पद्वा -सन्धीनामदर्शनाय । एवं सर्वप्रस्तारेषु पांसुनिवापः कार्यः । सेयं -गार्हपत्यचितिः ॥ -गाई पत्यचितेरुपरि उख्याग्निस्थापनम् -एवं गार्हपत्यचितिमुपधाय, तदुपरि उखागतमग्निं सर्वमपि सन्नितपति -वर्धयति च तं काष्ठशकलैः । ततस्तं मन्त्रैरुपस्थाय, रिक्तामुखां दधिमधु- -सिकतादिभिरापूर्य, तां शिक्यादपाकृत्य, शिक्यं, रुक्मसूत्रं, आसन्दी, -तुषपक्काः कृष्णास्तिस्र इष्टकाश्चादाय, नन्यां दिशि गत्वा, क्वचिषरप्रदेशे -शिक्यं निधाय, शिक्यपाशस्योपरि ताः कृष्णास्तिस्र इटका दक्षिणापवर्गा -निधाय, शिक्यजालिन ताः प्रच्छाद्य, तामां दक्षिणतो रुक्मसूत्रमासन्दीं च -निधाय, ते अभिमन्योपस्थाय, पुनस्तत् सर्वमप्रतीक्ष्यैव देवयजनमागत्य -शुद्धयर्थं मार्जनं कृत्वा , गार्हपत्यमुपतिष्ठेरन्नवयुब्रह्मयजमानाः । -अनन्तरं प्रकृतिवत् प्रायणीयेष्टिं कृत्वा, सौमिकी महावेदि विमाय, सोम -क्रीत्वा, आतिथ्यष्टिं कृत्वा, उतरवेदे रुपरि इष्टकोपधानार्थ वेणुदण्डेन मान -कुर्यात् । प्रमारितपक्षद्वयपश्चिसदृशः स्थण्डिलस्याकार इत्युक्तम् । -स्थण्डिले च आत्मा, दक्षिणः पक्षः, उतरः पक्षः, पुच्छं, शिर इति पञ्च -भागाः । तत्र आत्मा मध्यस्थानम् । दक्षिणोत्तरभागयोः पक्षद्वयम् । -पुरतश्शिरः,' पश्चात् पुच्छमिति भागसन्निवेशः । तत्र आत्मा चतसृष्वपि -दिक्षु पुरुषैकप्रमाणः (१२० अङ्गुलमितः)।पक्षौ च दक्षिणोत्तरतः प्रत्येक -किञ्चिःधिकसुरुषदयप्रमाणकः (२४४१ अं) । पुच्छं च सान्तरालं सपाद- -पुरुषप्रमाणम् (१५० अं)। शिरः सग्रीवं पुरुषैकप्रमाणम् । एवंरीत्या -दक्षिणोत्तरतः पञ्चदशाङ्गुलाधिकपुरुषपञ्चकप्रमाणा (६१५ अं) पूर्व- -पश्चिमतः सपादपुरुषत्रयप्रमाणा (३९० अं) उत्सेधत स्त्रंशदाला च -आहवनीयचितिरिति सिध्यति । इदं च सार्धसप्तविधमित्युच्यते । एवं -गाईपत्यचितिः षण्णवत्य लायामविस्तारा जानुदनोत्सेधा भवति । -प्रमाणमिदं गार्हपत्याहवनीयचित्यो र्यजमानस्य प्रथम चयन एव भवति । -द्वितीयावृत्तौ गार्हपत्यचितेहासः, आहवनीयचितवृद्धिश्च भवतः । तौ -यथा-द्वितीयचयने गार्हपत्यचितेः त्रयः प्रस्ताराः, विषष्टि(६३)- -रिष्टका एव च भवेयुः । तृतीयचयने एक एव प्रस्तारो भवदिष्टकाश्चैक- -विंशतिः । आहवनीयचितेस्तु-द्वितीयचयने द्विषहस्रमिष्टका दश प्रस्ताराः - -=============== -115.jpg.txt" -===============" + - -===================================================== - -===================================================== -चयननिरूपणम् -नामिमितोत्सेधश्च भवेयुः । तृीय चयने विषहस्रमिष्टकाः पञ्चदश -प्रस्ताराः, आस्यदनात्मेधश्चेति विशेषः । नैकविधं चयनमतोऽधिकं -कुर्यात् । विधान्तरागि वनुष्ठातुं शक्यन्ते । न तासां स्वरूपाण्यत्र -विवृतानि ॥ -चयनस्थलकर्षणादि -एवमाहवनीयचितियोग्यं स्थलमुत्तरवेद्या उपर्येव विमाय, अध्वर्यु- -ब्रह्मयजमानास्तत् स्थानमधिष्ठाय, लाङ्गलमेकं, पड्वा द्वादश वा बलीवाश्च -आनाय्य, लाङ्गले बलीवर्दान् षट् द्वादश वा बद्ध्वा तेन लाङ्गलेन तत् -स्थलं कृष्ट्वा (अवयुरेव कृषेत् , नान्येन कर्षयेत् ) बलीव तन्मुच्य, -तान् अवयवे दत्त्वा, कृष्टासु सीतापद्धतिषु जलमासिच्य द्वादशसु -सीतापथेषु ओषधीग्रामोद्भवा वपेत् । ताश्च-तिलाः, माषाः, वीहयः, -यवाः, प्रियङ्गवः, अगवः, गोधूमाः । यासां ग्रामीणैः पुरुषैः ग्रामेष्वेवो- -त्पादनं (कृषीवलैः) क्रियते ताः सप्त ग्राम्या ओपधयः । एवमकृष्ट स्थले -पूर्व बदुदकमासिच्य आरण्या ओषधीः सप्त तत्र वपेत् । ताश्च -वेणवः, -श्यामाकाः, नीवाराः, अरण्यतिलाः, अरण्यगोधूनाः, मर्कटकाः, अरण्य. -मुद्गाः (गार्मुनाः) इति सप्त । धान्यानामेषां भूमिकर्षणादिकमन्तरा -अकृष्टायामेव भूमावुसत्तिः । अतो धान्यानीमान्यकृष्टपच्यानीत्युच्यन्ते । -अत एव अत्राप्यकृष्ट एव स्थल एतेषां वपनमुक्तम् । कर्षणकालेऽग्नि- -चयनार्थात् क्षेत्रात् च नसृष्वपि दिक्षु ये लोष्टा बहिर्भूतास्तानग्निक्षेत्र एव -प्रत्यस्य, धान्यवापनस्थानं हस्तेन अभिमृश्य, तदुपर्युत्तरवेदेरुवापं कृत्वा -तदुपरि सिकताः न्युप्य, चयनीयं तत् स्थ नं शर्कराभिः (क्षुद्रपाषाणैः) -परिश्रित्य मध्यस्थाः सिकताः समीकुर्यात् । एतावत्पर्यन्तं कृत्वा, अनन्तरं -प्रकृनाविव पत्नीयजमानयोः व्रतप्रदान, तानूनप्त्राज्यस्पर्शनं, सोमाप्यायनं, -द्यावापृथिवीनमस्कारादिकं च यथावत् कृत्वा, प्रबर्योपसदावनुनिष्ठेत् -प्रकृति प्रदेव । पूर्व प्रवर्यानुष्ठानं तत उपसः नुष्ठानम् । एतच्च वैरीत्यनापि -कर्तुं शक्यत इति ज्योतिष्टोम एवोक्तम् । उपसदोऽन्ते सुब्रह्मण्याह्वानमपि -प्रकृतिवदेव ॥ -१. वेदिमध्य पाविशेषस्थापितस्य घृतस्य सज्ञा तानूनप्त्रमिति । मस्विजा -यजमानस्य च यावत्क्रतुसमाप्ति परस्परं स्नेहाय, तत्स्पर्शन विहितं प्रकृती । तदेव -अत्राभिहितम् । -। - -=============== -116.jpg.txt" -===============" + - -===================================================== - -===================================================== -१८४ -यज्ञतत्त्वप्रकाशे -प्रथमचितेरुपधानम् -तत उत्तरवेदेपरि विमिते स्थले चयनमारभेत । तत्र अध्वर्युश्चयन- -कर्ता भवेत् , यजमान एव वा स्वहस्तेन चयनं कुर्यादिति पक्षद्वयम् । -चयनं चेष्टका यथासौकर्य खण्डयित्वा चितेर्यथाभिलपितमाकारो न -कदापि सम्पादनीयः । षट्प्रकारामिरिष्टकाभिस्तत्तत्स्थलोपधानयोग्यतया -निर्मिताभिरखण्डिताभिः चितेराकारसम्पादनम् । इष्टकानां पट प्रकाराः पूर्व -निर्दिष्टाः, प्रदर्शयिष्यन्ते च प्रतिकृतिचित्रे । आकाशे पक्षौ प्रसार्य -डयमानस्य पक्षिणो यादृशं स्वरूपं तादृशमेव स्वरूपं चयनेन भूमौ -निष्पादयेत् । तदपि न पक्ष्यन्तरसदृशम् । किं तु श्येनसुपर्णसरूमेवेत्यादि -बोध्यम् ॥ -एवं चेष्यन् प्राग्वंशमण्डपस्य अग्रे आनडुहे चर्मणि प्रथम- -चित्यर्था इष्टकाः स्थापयित्वा, अवयुब्रह्मयजमानाः अश्वमग्रतः कृत्वा, -चितिस्थलं गत्वा स्थलमध्ये दर्भस्तम्बं निखाय, तमश्वेन आक्रमय्य, -अश्वपादनिक्षेपस्थाने पद्मपत्रमुत्तानमुपधाय, तदुपरि रुक्ममुपधाय, तस्मिन् -सुवर्णनिर्मितं पुरुषमुपरिमुखं प्राक्शिरसम् उपधाय, तमभिमन्त्र्य, तस्य -दक्षिणत आज्यपूर्णा कामयमयीं जुहूं, तस्य उत्तरतो दधिपूर्णामौदुम्बरी च -तामुपधाय, ते उपस्थाय, इष्टकामेकामविदुषा (मूर्खेण) ब्राह्मणेन -चितिमध्य उपधापयीत । ततस्तेन यजमानाद्गृहीत्वा दत्तं वरमध्वर्युः -प्रतिगृह्णीयात् । ततः परं प्रथमदिनानुष्ठितवायव्यपशोः शिरसः, -कूर्मस्य जीवतः, उलूखलस्य सवौषधिपूर्णस्य, मुसलस्य चोरधान -च कृत्वा ततो यथाक्रममिष्टकोपधानेन प्रथमचिति सम्पादयेत् । -तत्र क्रमादयः सूत्रतोऽवगन्तव्याः । एवं प्रथमचिति समाप्य, आपराजि- -कीम्यां प्रवर्योपसद्भयां प्रचर्य सुब्रह्मण्याह्वानान्तं कृत्वा विरमेत् । रात्री -यजमानस्य व्रतग्रहणम् । एवं दीक्षात्रयपक्षे दीक्षातोऽनन्तरस्मिन् (चतुर्थे) -दिने चयनमारभ्य, एकैकस्मिन् दिने एकैका चितिरिति आदितश्चतुर्थादिषु -नवमान्तेषु षट्सु दिनेषु पञ्च चितय उपधीयन्ते । अत्र चयने षड्डासदः । -कण्ठस्य अधस्तात् पाटलवर्णः उपरिष्टात् श्वेतः पश्चिविशेषः सुपर्णपद. -वाच्यः । खगोऽयं मत्स्याशी बहुलमनूपदेशेष्वेव वसति । न धन्वसु शुष्केषु वा -प्रदेशेषु । गरुडपदाभिधेयोऽयं भगवतो विष्णोहिनमिति मत्वा यत्र कुत्रापि दृष्ट्वैवैनं -मणमन्ति तद्देवस्था जनाः । तदर्शनं च कल्याणकरं मन्यते । श्येनस्तु प्रसिद्ध एव । -२. वर्तलाकार (सर्यसहश) सुवर्णखण्डं रुक्ममित्युच्यते । -1 -7 -१. - -=============== -117.jpg.txt" -===============" + - -===================================================== - -===================================================== -चयननिरूपणम् -एक-या उपसदो दिनद्वयेऽनुष्ठानमावृत्त्या । पञ्चम्या उपसदो दिने मध्याह्ने -सावशेषां पञ्चमी चितिमुपधाय चितेरवरुह्य यजमानाय माध्याह्निकं व्रतं -प्रदाय आपराजिकीभ्यां प्रवग्योपसद्भयां प्रचर्य विरमेत् । रात्रौ यजमान- -जतदानादि यथावत् । अथ श्वोभूते षष्ठया उपसदो दिने (आदितो नवमे -दिवसे) प्रातः पौर्वाहिकीम्यां प्रबग्र्योपसद्भयां प्रचर्य, अवशिष्टां पञ्चमी -चितिगुपधाय, तदानीमेव आपराह्निकीभ्यां प्रवर्योपसद्धयां प्रचर्य -सुब्रह्मण्याह्वानान्तं कृत्वा, चितं स्थण्डिलमभिमृश्य, आज्येन हिरण्य- -शकलसहस्रेण च तत् प्रतिदिशं प्रोक्षेत् ॥ -शतरुद्रीयहोमः -ततः चितेरुत्तरस्य पक्षस्य वायव्य कोणस्थिताया इष्टकाया उपरि -अजाक्षीरेण मृगीीरेण वा अर्कपत्रेण अध्वर्युर्जुहुयात् ॥ तस्या इष्टकायाः -समीपे लौकिकीभिरिष्टकाभिः पीठं कृत्वा तदुपर्यध्वर्युस्तिष्ठन् शतरुद्रीय -(रुद्राध्याय) पठन् अविच्छिन्नया धारया जुहुयात् । यथा धाराया विच्छेदो न -भवति तथा अन्योऽजाहीरपणे स्रावयेत् । शतरुद्रीवस्य तृतीयांश- -पाठं यावत् अर्कपर्ण जानुदन्ने धारयेत् । उपरितनतृतीयांशं यावत् -नाभिदन्ने, अन्तिमांशं यावदास्यदन्ने धारयन् जुहुयात् । सर्वत्र रुद्रा एव -देवताः । ततस्तमर्कपणं यत्र पशवो न सञ्चरेयुस्तस्मिन् देशे निरस्येत् । -ततो यजमानश्चतसृष्वपि दिक्षु रुद्रमुपतिष्ठते । अनन्तरमध्वर्युरुदकुम्भमादाय -स्थण्डिलं त्रिः परिपिञ्चेत् । ततो दीर्घस्य वंशस्याग्रभागे वेतसशाखाम् , -अवकां (शैवालं), मण्डूकं च सहैव बद्ध्वा चितेरुपरि विकर्षेत् । ततः -पृष्ठाख्यैः सामभिरध्वर्युः यजमानः प्रस्तोता वा चितिमुपतिष्ठेत । एतदन्तं -चयनकर्म ॥ -चितेरुपर्यग्निस्थापनादि -ततः प्रवर्यमुद्वास्य शालामुखीयेऽग्नौ (प्रकृताहवनीये) काश्चन -होमान् हुत्वा अध्वर्युः चितिमारुह्य उत्तरवेदिवत् व्याघारणादिकं कृत्वा, -दना मधुमिश्रितेन, आज्येन वा चितिं प्रोक्ष्य यजमानेन सहावरुह्य, -नात्र होमार्थमग्निस्थापनादिकम् । इष्टकाया उपर्येव धारया क्षीरस्य -प्रस्तावणम् । -२. व्याघारणं वृतस्य क्षारणम् । -14 -1 - -=============== -118.jpg.txt" -===============" + - -===================================================== - -===================================================== -यज्ञतत्त्वप्रकाशे -, -कृष्णमृगचर्मनिर्मिते उपानहावुभे अप्युन्मुच्य, अध्वर्युः वैश्वकर्मणसंज्ञकाः -पोडश आहुतीर्तुत्वा औदुम्बरीस्तिस्रः समियो घृताक्ता आहवनीय आधाय -पशुबन्धवदग्निं प्रणयति । तच्चैवम्-आहवनीये काष्ठान्याधाय ततो -ज्वलन्तमग्निं कचित् पाने गृहीत्वा सिकताभिरुपयम्य, आग्नीध्रीयं -यावद्गत्वा, कंचन श्वेतवर्णमश्मानमाग्नीध्रीये निधाय, ततः चितेः पुच्छ- -समीपं गत्वा हस्तस्थितममिं प्रतिप्रस्थातृहस्ते दत्त्वा, स्वयमध्वर्युश्चितिमा- -रुह्य स्वयमातृण्णाख्याया इष्टकाया उपरि पाशुकान् सम्भारान् न्युप्य, -तदुपर्यग्निं प्रतिप्रस्थातृहस्तात् गृहीतं प्रतिष्ठापयेत् । अतः परमयमेव -चित्योऽग्निराहवनीयो भवति । यतोऽयं प्रणीतः स गार्हपत्यः । -पुराणगार्हपत्यः प्राजिहितसंज्ञकः । ततस्तत्रैव अग्नावाहवनीये कांश्चन -होमान् पूर्णाहुतिं च हुत्वा, ततो वैश्वानरेप्टिमुपक्रम्य तदनुष्ठानमध्ये -तद्धमैः साकं सप्तभ्यो मरुद्गणेभ्यो हविनिर्वापादिकं कृत्वा वैश्वानरयागानन्तरं -सप्तानां मरुगणानां यागान् कृत्वा तदीयं तन्त्रं परिसमाप्य, ततो -वसोर्धारां जुहुयात् ॥ -वसोर्धाराहोमः, यजमानाभिषेकश्च -तदित्थम्-उदुम्बरवृक्षनिर्मितां हस्तचतुष्टयदैर्ध्याम् , अल्पदण्डां -पश्चिमभागे गर्तवतीं दीर्घबिलां जुहूं निर्माय, तामधस्तात् आर्द्रया मृदा -विलिप्य घृतेन पूरयित्वा तेन तस्मिन्ननौ जुहुयात् ; यथा आरम्भप्रभृति -समाप्तिपर्यन्तं मध्ये धारा न विच्छिद्येत तथा अन्यः कश्चित् जुह्वां घृतं -पूरयस्तिष्ठेत् । अवसितायां वसोर्धारायां जुह्वां यदाज्यमवशिष्यते तस्मिन्नन्नं -पक्त्वा (लौकिकेऽग्नौ पाकः) तेन अध्वर्युब्रह्मोद्गातृहोतॄन् महत्विजो -भोजयित्वा भुक्तवद्भयस्तेभ्यः चतस्रो धेनूर्वरत्वेन दत्त्वा सप्तभिग्राम्याभिः -सप्तमिश्च आरण्याभिः पूर्वोक्ताभिरोषधिभिर्यवागूः पृथक् पक्त्वा ताभिः -पृथक् पृथग्घुत्वा हुतशिष्टानां यवागूनामशं पात्रान्तरे किञ्चित् किञ्चिदिव -अवस्राव्य, चितेः दक्षिणपक्षसमीपे औदुम्बरीमासन्दी प्रतिष्ठाप्य, तदुपरि -कृष्णाजिनमास्तीर्य, तत्र यजमानमुपवेश्य तं तेन यवागूशेषेण अभिषिञ्चेत् । -ततो राष्ट्रभृद्धोमान अन्यांश्च कांश्चन होमान् हुत्वा सौमिकं कर्म आरमेत। -१. पुरुषैर्न कृतम् , किं तु स्वयमेव यत्र च्छिद्रमुत्पन्नं सा स्वयमातृष्णा । -२. पशुयागेऽन्यायतने प्रक्षेसव्यतया श्रुताः सम्भाराः पाशुकाः । - -=============== -119.jpg.txt" -===============" + - -===================================================== - -===================================================== -चयननिरूपणम् -१०७ -तत उपरवाख्यान् चतुरोऽवटान् दक्षिणहविर्धानमण्डपस्त्य पश्चिमभागे -उपरिमिन्नानन्तःसम्भिन्नान् अग्निष्टोमवदेव खात्वा ततो विष्ण्यांश्चिनुयात् ॥ -धिष्ण्योपधानम् -तत्र आग्नीधीये धिष्ण्येऽष्टाविष्टकाः अश्मना पूर्वनिक्षिप्तेन सह नव, -द्वादश होतीये धिष्ण्ये, एकादश ब्राह्मणाच्छंसीये, पण्मार्जालीये, अन्येषु -प्रशास्त्रीयनेष्ट्रीयाच्छाबाकीयपोलीयेषु विष्ण्येषु अष्टावष्टौ चोपदध्यात् । -एवं ब्रह्मसदनेऽष्टौ । चात्वालशामित्र-अवभृथस्थानेष्वप्यष्टावष्टावुपधाय -सर्वेषां पुरीषेण (मृदा) आच्छादनं कुर्यात् । तत अग्नीषोमीयपशुयागतन्त्र- -मारभेत ॥ -देवसुवां हवींषि -ततोऽग्नीषोमीयवपायागानन्तरं तदीयपशुपुरोडाशकाले अष्टौ देव- -सुवां हवींषि निर्वपेत् । तानि च-अग्नये गृहपतये पुरोडाशार्थ कृष्णाः -बीहयः । सोमाय वनस्पतये चर्वर्थाः श्यामाकाः । सवित्रे सत्यप्रसवाय -आशवो व्रीहयः। रुद्राय पशुपतये चर्वर्थाः गवीधुकाः । बृहस्पतये वाचस्पतये -चर्थी नीवाराः । इन्द्राय ज्येष्ठाय पुरोडाशार्थी व्रीहयः । मित्राय सत्याय -चर्वर्थाः आम्बा वीहयः । वरुणाय धर्मपतये चर्वर्था यवा इति । तानि -पशुपुरोडाशेनैव सह अनुष्ठाय वसतीवरीग्रहणादिकं कृत्वा पशुयागं -समाप्य, रात्रौ यजमानस्य व्रतदानादिकं कृत्वा विरमेत् ॥ -सौमिकव्यापारः -ततः प्रकृतिवत् महाराने प्रबुध्य सौमिकव्यापारमारभेत । तत्र -यदा होता प्रातरनुवाकशस्त्रमारभेत ततः पूर्वमेव अध्वर्युः कैश्चिन्मन्त्र- -रग्नियोगं कुर्यात् । ततो होता प्रातरनुवाकं यथावत् पठेत् । सौमिक- -व्यापारांश्च क्रमशः कुर्वन् यत्संस्थाकं ऋतुमनुष्ठातुमिच्छति यजमानः, -तदनुसारेण कर्माण्यध्वर्युः कुर्वीत । ततोऽवभृथेष्टिमवभृथस्नानान्ताम् , -अनूबन्ध्यास्थानिकीमाहुतिं च कृत्वा पूर्वकृताग्निविमोकं कृत्वा दश -आकूतिहोमान् हुत्वा कर्म अवशिष्टं समापयेत् । ततो यजमानोऽग्निमाति- -संज्ञकर्मन्त्रैरुपस्थाय प्राजिहितमग्निमरण्योः समारोप्य, गृहं गत्वोदवसानी- -यादिकं यथोक्तमनुतिष्ठेत् । आगामिनि पर्वणि सौत्रामण्याख्येन पशुयागेन -यजेत । ततोऽपरेधुमत्रावरुण्या चामिक्षया । एतावता समाप्तमग्नि- -1 - -=============== -120.jpg.txt" -===============" + - -===================================================== - -===================================================== -१०८ -यज्ञतत्त्वप्रकाशे -चयनम् । परिसमाप्ते यज्ञे यजमानो नियमानिमान् धारयेत्-संवत्सरं -यावत् गुरोरपि प्रत्युत्थानं न कर्तव्यम् । सत्यां वृष्टौ न धावेत् । तृतीयचयन -कृत्वा न स्त्रियमुपेयात् इत्येव । अन्ये च सोमसुतो नियमा भवन्त्येव ॥ -सौतामणीयागः -सौत्रामणी नाम पशुयागः । स द्विविधः प्रोक्तम्तैत्तिरीये बौधायना. -पस्तम्बादिभिश्च-चरकसौलामणी कौकिलसौत्रामणी चेति । तत्र -चरकसौतामणी स्वतन्त्रा, चयनाङ्गभूता च । अस्यां वयः पशवः - अजो -धूम्रवर्णोऽश्विदेवताकः । मेषः सरस्वतीदेवताकः । मेष एव चेन्द्रदेवताकः। -निरूढपशुबन्धकल्पेन लयाणां सहैव अनुष्ठानम् । अल वपायागानन्तरं -सुराग्रहग्रहणं यद्यपि ब्राह्मणश्रौतसूत्रादायुक्तं तथापि तस्य कलौ निपिद्धत्वात् -तद्विकल्पतया आपस्तम्बादिभिः पयोगहाणां विधानात् तैरेव यागोऽनु- -ष्ठीयते । तत्र त्रयो ग्रहाः । पशुयागीया देवता एव अत्रापि देवताः । -तैर्तुत्वा पितृनुपस्थाय पशुपुरोडाशयागमनुतिष्ठेत् । त्रयः पुरोडाशाः । इन्द्रः, -सविता, वरुण इति क्रमेण तत्र देवताः । ततोऽङ्गयागाद्यनुष्ठानपूर्वक -सौत्रामणीं समाप्य, वारुणेनैककपालेन अवभृथेष्टिं कृत्वा स्नात्वा अग्नीन् -समारोप्य गृहमागच्छेत् । इयं चरकसौत्रामणी । कौकिलसौत्रामण्याम्- -ऐन्द्रः, आश्विनः, सारस्वतः, ऐन्द्रः, ऐन्द्रो वायोधसश्चति पञ्च पशव -इतीयान् विशेषः । इति सौत्रामणीस्वरूपम् ॥ -राजसूयः -अतः परं राजसूयाख्यं क्रतुं निरूपयामः । क्रतुरयं राज्येऽमि- -विक्तेन राज्यधुरं वहता क्षत्रियेणाऽनुष्ठेयः । अयं च प्राचीनसमये ताशैरेव -राजभिः विशेषतः सूर्यवंशीयैः सोमवंशीयैश्चाऽनुष्ठित इति ज्ञायते । -महाभारते च युधिष्ठिरेणानुष्ठितो राजसूययागल्साधु वर्णितोऽस्ति । -तदनन्तरकालिकाश्च राजानो तं बहवोऽन्वतिष्ठन्निति पुराणेभ्यः शिला- -लेखादिभ्यश्च प्रमाणेभ्योऽवगच्छामो वयम् । अयं च बह्वीनामिष्टीनां द्वयोः -पशुयागयोः सप्तानां दविहोमानां षण्णां च सोमयागानां समुदायरूपः । -१. आप. श्री. सू. १८-८-१., कात्या. श्री. सू , १५-१-१. राजा सूयते -अमिषूयते सोमो यागार्थमत्रेति व्युत्पत्ती राजसूयशब्दस्य । - -=============== -121.jpg.txt" -===============" + - -===================================================== - -===================================================== -राजसूयः -. -.. -अतोऽत्र इष्टिपशुतोमयागानां समप्राधान्यमेव ; नेतरेतराङ्गभावः । पशु- -यागाजभूता इष्टयः, सोमयागाङ्गभूता इष्टयः, पशुयागाश्च प्रकृतितोऽति- -देगा यथाव दनुष्ठेश एव । तेषां परं तत्तदङ्गत्वमप्रतिहतं वर्तन एव ॥ -किञ्चिदधिकैकवत्सरसाध्योऽयं क्रतुः । अत्र पट सोमयागाः, द्वौ -पशुपागौ । एकोनत्रिंशदुत्तरशतभिष्टयः (१२९) सप्त दवीहोमाश्चानुष्ठेयाः । -यज्ञस्याऽस्य फाल्गुनशुक्लप्रतिपदि आरम्भः कर्तव्यः । ततो वर्षमेकं -चातुर्मास्यानुष्ठानम् । तानि चातुर्मास्यनिरूपणप्रकरणोक्तरीत्याऽनुष्ठे- -यानि । ततः पवित्रादीनां षण्णां सोमयागानां क्रमेणानुष्ठानम् । अत्र -यागशिष्टस्य सोमस्य भक्षणे विकल्पः । अवश्यं स भक्षयितव्य एवेति यो -नियमो ब्राह्मणस्य सोऽस्य नास्ति । यदि तु सोमभक्षणेच्छा, तदा पूर्व यागार्थ -सोमायणकाल एव न्यग्रोववृक्षस्यावरोधान् तदङ्कुराणि वा सोमवदेव -क्रीत्वा सर्वाश्च सौमिकव्यापारान् तत्राऽनुष्ठाय, ततस्तानि पिष्ट्वा दध्ना -सोल्य, तेन यजमानचमसमापूर्य होमकाले इतरैः सोमचमसैः सह हुत्वा -होमावशिष्टं तमेव न्यग्रोधावरोवरसं राजानं यजमान पाययेत् । अध्वर्वा- -दयस्तु ऋत्विजः स्वस्वग्रहचमसस्थं सोमरसमेव भक्षयेयुः । यजमानस्य तु -राज्ञो ग्रहेषु भक्षणं नास्ति । एवं सर्वेष्वपि सोमयज्ञेषु राज्ञो भक्षणं -फलचमसस्यैव, न सोमस्य । राजन्यकर्तृकेऽपि यागेऽस्मिन् ब्राह्मणा -एवविजः । तेषां तु सोमभक्षणं भवत्येव । इति सामान्यविषयाः । -विशेषास्तु-चैव्याः पौर्णमास्याः पूर्वस्मिन् दिवसे पवित्राख्यसोमयागार्थ -दीक्षां कुति । दिनत्रये दीक्षाः । दिनत्रये चोपसदः । सप्तमदिने -सुत्या । अग्निष्टोमसंस्थाकोऽयं ऋतुः । सहस्रमत्र गावो दक्षिणाः सप्तसु -दिवसेषु ऋतुमिमं परिसमाप्य, अष्टमदिनप्रभृति अनुमत्यादीनष्टौ यागान् -एकैकस्मिन् दिने एकैकरूपेण अनुतिष्ठेत् ॥ -ते च यथा-१. अनुमत्यै पुरोडाशोऽष्टाकपालः २. आदित्यश्चरुः -३. आग्नावैष्णव एकादशकपालः ४. अग्नीषोमीय एकादशकपालः -५. ऐन्द्र एकादशकपालः ६. आग्नेयोऽष्टाकपालः ऐन्द्रं दधि -१. न्यग्रोधस्य वटवृक्षरय अवरोधाः शाखाभ्योऽवाङ्मुखतगा प्ररोहन्तो -मूलविशेषाः । -२. -See. ऐ. ब्रा. Ch. I3. - -=============== -122.jpg.txt" -===============" + - -===================================================== - -===================================================== -वैश्वदेवश्चरः, -यज्ञतत्त्वप्रकाशे -७. ऐन्द्रानो द्वादशकपालः, -सौम्यः श्यामाकश्वरुः -८. सरस्वत्यै सरस्वते च चरुः । इत्यष्टौ यागाः । ततस्तदनन्तर- -दिनप्रभृति संवत्सरपर्यन्तं चातुर्मास्यपशुभिर्यजेत ॥ -ततः-१. आग्नेयोऽष्टाकपालः २. रौद्रो गावीधुकश्वरः -३. ऐन्द्रं दधि ४. यवमयो वारुणश्वरुः इति हविश्वतुष्टयविशिष्टेन -इन्द्रतुरीयाख्येन यागेनेष्ट्वा, तस्यामेव निशायां पञ्चेमसंज्ञकं कर्म -कुर्यात् । ततः सूर्योदयात् पूर्वम् अपामार्गहोमान् कुर्यात् । अपां -समीपादपामार्गाख्यानि तृणविशेषबीजान्यानीय, तानि चूर्णयित्वा, -दक्षिणाग्नेरेकमुल्मुकं गृहीत्वा स्वतस्सिद्धं गरुस्थलं गत्वा, तत्र तमग्निं -प्रतिष्ठाप्य प्रज्वाल्थ्य, पर्णमयेन सुवेण अपामार्गचूर्णानि तस्मिन्नग्नौ -जुहुयात् । ततस्तमग्निमुपस्थाय, प्रत्यावृत्य पुनस्तं देशमनवेक्षमाणो -यज्ञस्थलमागत्य अग्निहोत्रं हुत्वा पञ्च देविकाहवींपि निरुप्य तैर्यजेत ॥ -तानि च-१. धात्रे पुरोडाशो द्वादशकपालः २. अनुमत्यै चरुः -३. राकायै चरुः ४. सिनीवाल्यै चरुः. ५. कुबै चरुः -इत्येवंरूपाणि । कर्मपञ्च क्रमपीदम् एकस्मिन्नेव दिने एकप्रयोगेण समान- -तन्त्रेणाऽनुष्ठेयम् । तस्य च एका गौरेको वृषभश्च दक्षिणा । ततो हविस्त्रय- -विशिष्टानि त्रीणि कर्माणि । अर्थात् हविस्त्रयविशिष्ट एकस्समुदायः । स -एक कर्मत्युच्यते । एवं समुदायत्रयं त्रीणि कर्माणि । तत्र आग्नावैष्णव -एकादशकपालपुरोडाशद्रव्यकः ऐन्द्रावैष्णवः तादृशः, वैष्णवत्रिकपालः -इत्येकः समुदायः । एकमिदं कर्म । अग्नीषोमीय एकादशकपालपुरोडाश- -द्रव्यकः, इन्द्रासोमीयः सः, सौम्यश्चरुः इत्ययमेकः समुदायः । एकमिदं -कर्म । सोमापौष्णश्चरुः, ऐन्द्रापौष्णश्चरुः, पौष्णश्चरुः त्रितयमेकं कर्म । -एतदनन्तरम् एकहविष्का एका इष्टिः । सा च वैश्वानरद्वादशकपाल. -रूपा । ततो वारुणो यवमयश्चतः । इति मिलित्वा षट् कर्माणि एकदिन- -कर्तव्यानि । ततो द्वादशेष्टयः; एकैकस्मिन् दिने एकैकेति द्वादशसु दिवसेषु -द्वादशेष्टयो विहिताः॥ -ताश्च-१. वाहस्पत्यश्वरुः २. ऐन्द्र एकादशकपालः पुरोडाशः -३. आदित्यश्वरुः ४. नैर्ऋतश्चरुः ५. आग्नेयोऽष्टाकपालः पुरोडाशः -६. वारुणो दशकपालः पुरोडाशः ७. मारुतः सप्तकपालः पुरोडाशः - -=============== -123.jpg.txt" -===============" + - -===================================================== - -===================================================== -राजसूयः -८. सावित्रो द्वादशकपालः पुरोडाशः ९. आश्विनो द्विकपालः पुरोडाशः -१०. पौष्णश्चरुः ११. रौद्रोऽरण्यगोधूमसम्पाद्यश्वरुः इत्येवरूपाः । -एतदतिरिक्तश्वरुरेकश्चतुर्थतया तैत्तिरीयब्राह्मणे विहितः-भगाय चरुरिति । -द्वादशापीमानि “रनिनां हवींषि” इत्युच्यन्ते । यागा इमे न -स्वगृहेऽनुष्ठेयाः । किन्तु ब्रह्मादीनां द्वादशानां गृहं गत्वा तत्रै- -वाऽनुष्ठेयाः । तत्र प्रातः स्वगृहेऽग्निमरण्यादिषु समारोप्य तत्तद्गृहं -गत्वा तत्र मथित्वाऽरणी, अग्निमुत्पाद्य, आहवनीयादिषु कुण्डेषु तं -प्रतिष्ठाप्य यजेत । एवं प्रतिदिनम् एकैकेष्टिरिति द्वादशसु दिवसेषु द्वादशेष्टयः -कर्तव्याः। ततः परं स्वगृह एव इन्द्राय सुत्राम्णे पुरोडाशः, इन्द्राया होमुच -एकादशकपाल इतीष्टिद्वयमनुष्ठाय, तदनन्तरस्मिन् दिवसे अभिषेचनीया- -ख्याय सोमयागाय यजमानो दीक्षेत । तत्र दीक्षणीयेष्टिमैत्राबार्हस्पत्या -भवति । तत्र विशेषः-- -श्वेतां श्वेतवत्सां गाम् आम्रफलरसलेपितायां हतौ दुह्यात् । -तत्रैवाऽऽतञ्चनमन्तरेण तत् पयो यदा दधि सम्पद्यते तत् स्वयं -मूर्तमित्युच्यते । तदा तत्र बदरफलादिकं प्रक्षिपेत् । तदा स्वयमेव तत् -पात्रात् बहिः प्रवहेत् । तत् स्वयंमथितमित्युच्यते । तत्र खण्डितैस्तण्डुलै- -श्वकै पक्त्वा तेन बृहस्पतये यागं कुर्यात् । अखण्डितैस्तु तैः आज्ये -चरुं सम्पाद्य तेन मित्रं यजेत । नात्र चरुं मृद्भाण्डे पचेत् । किन्तु -वाय्वभिघातादिना स्वयमेव भन्मपतितेन अश्वत्थवृक्षीयेण काष्ठेन निर्मिते -चतुष्कोणयुते पात्रे चरुः पक्तव्यः । इध्मकाष्ठान्यपि न वृक्षाच्छेतव्यानि । -किन्तु स्वयमेव पतितानि यानि स्युः तानि ग्रहीतव्यानि । एवं कुशा -अपि स्वयं पतिता एव ग्राह्याः । वेदिरपि स्वयं निष्पन्नैव भवेत् । एवं -पृथक् पृथक् हविषी सम्पाद्य, यागकाले प्रथमं बार्हस्पत्यहविषेष्ट्वा अनन्तरं -मैत्रेण यजेत । स्विष्टकृयागस्तूभयोरेक एव । शतपथब्राह्मणे तु यथोक्तेन -प्रकारेण हविस्सम्पादनं पृथक् कृत्वा अनन्तरं ते द्वे अपि हविषी एकीकृत्य -मित्रबृहस्पती उद्दिश्य एकीकृतेन हविषा तेन होम उक्तः । एवं -दीक्षणीयेष्टि परिसमाप्य अभिषेचनीयाख्यसोमयागाय दीक्षयित्वा -यावदमीषोमीयपशुयागमनुतिष्ठेत् प्रकृतिवत् । अत्राभिषेचनीयस्य -दीक्षादिनानि तथा अभिवधयेत् यथा तस्य संवत्सरस्य दशसु रात्रिषु -See. मा.श. बा. ५.२.६.६-८. - -=============== -124.jpg.txt" -===============" + - -===================================================== - -===================================================== -यज्ञतत्त्यप्रकाश -अवशिष्टासु दशपेयस्य प्रधानहविरतुष्ठानं भवेत् । तत्र सोमक्रयकाले -अभिषेचनीयाय दशपेयाय चाऽग्रेऽनुष्ठास्यमानाय सहैव सोमक्रयं कुर्यात् । -तत्राऽध दशपेयायाऽवशेष्य, यजमानपुरोहितस्य गृहेऽवस्थाप्य अर्धेन -यागं कुर्यात् । अभिपेचनीय गताग्नीपोमीयपशुपुरोडाशयागसमाप्त्यनन्तरम् -अष्टौ देवसुवां हवींषि निर्वपेत् ॥ -तानि च-१. -अग्नये गृहपतये पुरोडाशोऽटाकपालः -२. सोमाय वनस्पतये श्यामाकश्चरुः -३. सवित्रे सत्यप्रसवाय -पुरोडाशो द्वादशकपालः ४. रुद्राय पशुपतये गावीधुकः (अरण्य- -गोधूमकृतः) चरुः ५. बृहस्पतये वाचस्पतये नैवारश्चरुः ६. इन्द्राय -ज्येष्ठाय पुरोडाश एकादशकपालः ७. मित्राय सत्याय चरुः ८. वरुणाय -धर्मपतये यवमयश्वरुः इति । एतेऽसौ यागा अनुष्ठेया इति यावत् ॥ -तत्र प्रधानयागानुष्ठानानन्तरं स्विष्टकृयागात्पूर्व ब्रह्मा यजमानस्य -राज्ञो हस्तं गृहीत्वा तद्राज्यस्थाभ्यः प्रजाभ्यो राजन्यवैश्यादिभ्यो -राजानं निवेदयेत्-एष वो भरता राजा इति । तस्य पित्रादि- -नामान्यपि कथयेत्-अमुष्य पुत्रः इत्यादि । ततो यजमानो -राजा विष्णुक्रमादीन् इष्टाविव कामेत् । ततो माहेन्द्रस्तोत्रात्पूर्वतनानि -कर्माणि यथावदनुष्ठाय माध्यन्दिनसवनीयानां हविषां मारुतस्यैक- -विंशतिकपालपुरोडाशस्य च निर्वापं कृत्वा तानि यथावदनुतिष्ठेत् ॥ -ततो राज्ञस्तस्याभिषेकार्थ तत्तत्स्थानेभ्यो जलमाहरेदध्वर्युः । -तद्यथा-समुद्रात् , पुंनदात् , वहन्तीभ्योऽद्भयः स्थावराम्य इत्यादि । -तञ्च षोडशभ्यः स्थानेभ्यः तावत्प्रकारमानयेत् । तत्र दनः, पयसः, घृतस्य, -मधुनश्च गृह्णीयात् । आनीय वैतसे चतुष्कोणे बृहति पात्रे निनीय, -मैत्रावरुणधिष्ण्यस्य अग्रे स्थापयेत् । ततस्ता अपः पालाशे औदुम्बरे -आश्वत्थे नैयग्रोधे च पात्रे व्यानयेत् । ततो राजानं ताप्ये, पाण्डर -वासः, उष्णीषं च परिधापयेत् । घृताक्तः कम्बलः ताप्यम् इत्युच्यते । -ततः तं दर्भपुञ्जीलैः पवयित्वा, दधि, उदुम्बरफलानि, बालतृणानि च -आशयित्वा, तं जनेम्यो निवेद्य-'अयं वो भरता राजा' इति, -धनुस्तस्मै प्रदाय, बाणांस्त्रीन् दत्त्वा आहवनीयस्य अग्रभागे शार्दूल- -चर्म आस्तीर्य तस्मिन् शतसुवर्णपरिमितं हिरण्यं निधाय, तस्मिन् - -=============== -125.jpg.txt" -===============" + - -===================================================== - -===================================================== -राजमृयः -११३ -राजानमुपवश्य पार्थसंज्ञकान षड्ढोमान् हुत्वा ऊर्ध्वयाहुं तिष्ठन्तं तं -सामवेदीयैः ऋत्विग्भिः माहेन्द्रस्तोत्रगानं यदा क्रियते, तदाऽध्वर्युः -पालाशेन पात्रेण पूर्वभागे पश्चिमाभिमुखस्तिष्ठन्नभिषिञ्चेत् । औदुम्बरपानेण -दक्षिणभागे उत्तराभिमुखस्तिष्ठन् ब्रह्मा, पश्चाद्भागे पूर्वाभिमुख- -स्तिष्ठन् होता, उतरभागे दक्षिणाभिमुखस्तिष्ठन्तुद्गाता चाभिषिञ्चेयुः । -एवमनभिषिक्तक्षत्रियः, वैश्यः, कश्चित् मित्रभूतश्चाभिषिञ्चेयुः ॥ -ततः नववस्त्रपरिवानपूर्वकं षट पार्थहोमाननुष्ठाय, रथं कञ्चिदानीय -तत्र राजानमारोहयेत् । रथस्तु अश्वत्रययुक्तो भवेत् । पार्थ यवर्तिनी -च सारथी भवेताम् । तस्य समीपे पुरतः सधनू राजन्योऽवस्थितो -भवेत् । तस्मै इशून् प्रास्य तं जित्वा धनुः पन्यै प्रदाय पादयोः -वराहचर्मनिर्मिने उपानही धृत्वा रथादवरुह्य सौवर्णान् मणीन् कण्ठे -प्रतिमुच्य स्थविमोचनीयसंज्ञकान् होमान् हुत्वा आहवनीयस्याग्रभागे -चतुरश्रां वेदि निर्माय, तस्यां स्वादिरकाष्ठनिर्मितां आसन्दी प्रतिष्ठाप्य, -तस्यां चम्पटमास्तीर्य, तदुपरि यजमान उपविशेत् । तस्य परितः ऋत्विजः -ग्रामीणा वैश्याश्चोपविशेयुः । पुरस्तात् अध्वर्युः, दक्षिणभागे ब्रह्मा, -पश्चाद्धोता, उत्तरभाग उद्गाता चोपविशेयुः । उपविष्टान् तान् प्रति -राजा 'हे अध्वर्यो ! त्वं ब्रह्मासि, ब्राह्मणोऽसि, त्वं सवितासि' इत्येवं -ब्रूयात् । स तु 'हे राजन् ! त्वमेव ब्राह्मणोऽसि, ब्राह्मणधर्मान् परिपालयन् -अस्माननुष्ठापयसि' इत्यादि प्रतियात् । एवं क्रमेण चतुर्भिः ऋत्विग्भिः -राज्ञि स्तुते सति, ततो ब्रह्मा स्फ्यं यजमानहस्ते दद्यात् । स परम्परया -अक्षावापहस्तं यदा गच्छति तदा तेन स कितवः, तत्रोद्धननादिना भूमि -समीकृत्य, तत्र सुवर्णमयान् अक्षान् शताधिकान् प्रास्य, तेभ्यः पञ्च गृहीत्वां, -'अयं समग्राया भुवो राजाऽभवत्' इत्यभिप्रायेण तस्मै दद्यात् । ततो राजा -मङ्गलशन्देस्तानाह्वयेत् । ततो हिरण्मये राज्ञा दत्ते आसने उपविशन् -होता शुनश्शेपकथां श्रावयेत् । सा च कथा ऐतरेयब्राह्मणे सप्तमपश्चिकायां -तृतीयाध्याये वर्णिता । तया सह तत्सम्बन्धिनीः ऋचोऽपि परश्शताः -ऋक्संहितागताः परस्सहस्रा वा होता शंसेत् । तादृश एवाऽऽसने -उपविष्टोऽध्वर्युः तं प्रतिगृणीयात् । राजा च शृण्वन्नासीत । कथान्ते -तत्तदासनं तस्मै तस्मै दत्त्वा अभिषेचनीयदीक्षासमये, पल्या धृतं रुक्म -चाऽध्वथैवे प्रदाय, मारुतैककपालेष्टिम् आमिक्षायागं च वैश्वदेवमनुष्ठाय, -15 - -=============== -126.jpg.txt" -===============" + - -===================================================== - -===================================================== -यज्ञनत्वप्रकाश -अवशिष्टमाहेन्द्रयागं परिसमाप्य, अवभृथदेशं गत्वा अवभृथेष्टिं विधाय, -स्नात्वा, सपरिवारो गृहमागच्छेत् । एतावता अभिपंचनीयस्समाप्तः । ततः -वोभूते संसृपा हवींषि दशसंख्याकान्यनुतिष्ठेत् ॥ -तानि-१. आग्नेयोऽष्टाकपालः पुरोडाशः २. सारस्वतश्चरुः -३. सावित्रो द्वादशकपालः पुरोडाशः ४. पौष्ण श्वरुः ५. बार्हस्पत्यश्वरुः -६. ऐन्द्र एकादशकपालः -७. वारुणो दशकपालः -८. सौम्यश्चरुः -९. वाष्ट्रोऽष्टाकपालः १०. वैष्णवस्त्रिकपालः पुरोडाश इति दश । -अयमत्र क्रमः--दशानां संसृपां हविषां गध्ये सप्त हवींषि -प्रतिदिनं क्रमेणैकैकं कृत्वा सप्तमे सप्तम्यामिष्टावतीतायाम् अपराह्ने -दशपेयाय सङ्कल्पं कृत्वा सद्य एव द्वादशपुण्डरीकस्रकप्रतिमोकलक्षणां -दीक्षां कुर्यात् । तदानीमेव प्रथमामुपसदं कृत्वा तदन्ते संसपामष्टमं -हविर्निवपेत् । अष्टमे दिने उपसदन्ते संसृपां नवमं हविः निरूप्य, नवमे -दिवसे तृतीयोपसदन्ते संसृपां दशमं हविर्निरूप्य, तस्मिन्नेवाऽहनि -अग्नीषोमीयपशुप्रचारं कुर्यात् । दशमेऽहनि सोमोऽभिपूयते । अभिपवकाले -अभिषेचनीययागसमये एतदर्थ क्रीत्वा स्थापितं सोमस्यामभिषुणुयुः । -ततो ग्रहचमसादिपात्रसंसादनकाले प्राकृतेभ्यो दशभ्यश्चमसेभ्योऽधिकान् -दश चमसान् सादयेत् । तानितरचमसपूरणकाले पूरयेत् । चमसहोमकाले -एकैक चमसं दश दश ब्राह्मणा इति शतं ब्राह्मणास्तत्राऽवस्थिता मवेयुः । -ते च ब्राह्मणाः दशपुरुषं यावदविच्छिन्नसोमपातृकुलोत्पन्ना भवेयुः । -चमसान् हुत्वा होमानन्तरं भक्षणार्थम् अध्वादिषु सभामण्डपं गच्छत्सु -इमेऽपि शतं ब्राह्मणास्ताननुगच्छन्तस्सदः प्राप्य तेषु स्वं स्वं चमसं -भक्षयत्सु इमे स्वस्वचमसस्थं सोमरसं दशसंख्यया पिबेयुः । अत एव -च कारणात् अस्य क्रतोदशपेय इति संज्ञा सम्पन्ना ॥ -अत्र दक्षिणायामस्ति विशेषः । स चेत्थम् -–अध्वर्यवे सुवर्णमयौ -दर्पणौ । उद्गाने हिरण्मयी माला । वर्तुलं स्वर्णाभरणं होने । प्रस्तोत्रे प्रतिहत्रै -चाऽधः। ब्रह्मणे बालगर्मिण्यो दश गावः। मैत्रावरुणाय वन्ध्या गौः। ब्राह्मणा- -च्छंसिने बलीवर्दः । नेष्टे पोत्रे च धौतवस्त्रम् । अच्छावाकाय यवपूर्ण स्थूल- -शकटम् । अग्नीधेऽनोवहनसमर्थ ऋषभ इति देयाः । सर्वमन्यत् प्रकृतिवत् । -एवं दशपेयाख्यं सोमयागं परिसमाप्य, तदुत्तरमाविन्यां वैशाख्यां पूर्णिमायां -केशवपनीयाख्यसोमयागार्थ दीक्षेत । अभिषेचनीयाख्यं सोमयागमनुष्ठाय - -=============== -127.jpg.txt" -===============" + - -===================================================== - -===================================================== -अश्वमेधः -११५ -ततः पशुयागद्वयं कुर्यात् । संवत्सरपर्यन्तं केशानां वपनं न कारयितव्यम् । -तदेतत् व्रतं भवति । अतस्तद्विसर्जनाथ कश्चन सोमयागः कार्यः । स -एव केशवानीय इत्युच्यते । सोऽतिरात्रसंस्थाको भवेत् । तत्र स्तोत्रेष्वयं -विशेषः-प्रातस्सवने सर्वाण्यपि स्तोत्राणि एकविंशस्तोमकानि । माध्यन्दिने -सर्वाणि स्तोत्राणि सप्तदश स्तोमकानि । तृतीयसवने अग्निष्टोमवत् द्वादश -स्तोत्राणि । तत उक्थ्यस्तोत्राणि त्रीणि । षोडशिस्तोत्रमेकम् । रानिपर्यायाणि -स्तोत्राणि द्वादश । सर्वाण्यपि इमानि स्तोत्राणि पञ्चदशस्तोमकानि कार्याणि । -अतिरात्रस्तोत्रानन्तरं पूर्वदिवसरात्रिशेष उत्तरदिवसस्योषःकाले यज्ञसमाप्ति- -सम्पादकमेकं चरमं स्तोत्रं तृतीयपर्यायस्यान्ते रथन्तरसाना गातव्यम् । तत् -सन्धिस्तोत्रमित्युच्यते । तत् त्रिवृत्स्तोमयुक्त कार्यम् । एवं च अस्मिन् कतौ -स्तोमानाम् एकविंशादारभ्य त्रिवृत्पर्यन्तमवरोहणक्रमेण निवेशोऽवगन्तव्यः ॥ -इतः परं व्युष्टिद्विराचः, क्षत्रस्य धृतिरिति सोमयागद्वयमवशिष्टम् । -तत्र व्युष्टिद्विराये प्रथमदिनमग्निष्टोमसंस्थाकम् । द्वितीयमहरतिरात्र- -संस्थाकम् । पूर्णिमायां प्रथममहरनुष्ठेयम् । तदनन्तरकृष्णाष्टम्यां -उत्तरमहः । सर्वमन्यत् तत्तत्प्रकृतिवत् । ततः क्षत्रस्य धृतिः । -सोऽमिष्टोमसंस्थाकः । त्रिवृत्पञ्चदशसप्तदशरूपैः त्रिभिरेव च स्तोमैर्युतः । -सर्वमत्राऽन्यत् यथाप्रकृति । एतावता समाप्तो राजसूयक्रतुः । राजसूयं -परिसमाप्य सौत्रामण्या यजेत । तदनुष्ठानप्रकारः पूर्वमेवोक्तः ॥ -अश्वमेधः -अथेदानीमश्वमेधाख्यमहायागस्य स्वरूपं निरूपयामः । यो नामै- -कच्छत्राधिपतिः सार्वभौमः, अर्थात्-समग्रस्य भूमण्डलस्य शासिता, -यस्य वशेऽन्ये सामन्ता राजानो वर्तन्ते तेनैवायमनुष्ठेयो यज्ञः । न -साधारणक्षत्रियस्य ब्राह्मणवैश्ययोर्वा तत्र अधिकारः । अयं मुख्यः कल्पः । -असार्वभौमस्याप्यत्राधिकारं गौणतया मन्यन्ते सूत्रकाराः आपस्तम्ब- -प्रभृतयः । कात्यायनस्तु राजसामान्याधिकारिक राजसूयवदिमं यज्ञं -कथयति । अतः 'राजयज्ञः' इत्यप्यस्य व्यपदेशं पश्यामो ग्रन्थेषु । -श्रौतकर्ममध्ये यागोऽयं प्रधानतममलमत स्थानम् । यद्यप्ययं सोमयागः -तथापि अत्र सवनीयपशुरश्वः, स च महोपकारकेषु परिगणित इति -कृत्वा तस्यैव नाना यागोऽयं 'अश्वमेधः' इति व्यवहारं भजते । सर्व- - -=============== -128.jpg.txt" -===============" + - -===================================================== - -===================================================== -यज्ञनवप्रकाशे -फलप्रदोऽयं क्रतुः । ब्रह्महत्यादिमहापातकनाशकः । नैतादृशं कान्तर- -मस्ति श्रेष्ठनमं श्रुतिस्मृतिपुराणादिपु इत्युक्तं सर्वत्र । ब्रह्महत्यादीनि -महापातकानि कृत्वा यस्तदपनोदकं श्रुतिस्मृत्यादिविहितं न शक्रोति -प्रायश्चित्तमनुष्ठातुं सोऽवभृथ आश्वमेधिके स्नाला तस्मान्महापापाद्विमुक्तो -भवेत् । राज्ञस्तु सर्वलाभप्रदः, सर्वराजजयचिह्नमृतोऽयमिति "सर्व- -स्याप्त्यै, सर्वस्य जित्यै, सर्वमेव तेनाप्नोति, सर्व जयति" इति -श्रुतेरुद्धोगः ॥ -यागम्यास्याङ्गभूता बहवो ग्राम्या आरण्याच पशवः । तेनश्व एवं -प्रथमः प्रधानभूतश्च । सोऽपि न साधारणः । किन्तु -पश्शरीर पूर्वमागे -कृष्णवर्णः, पश्चार्थे श्वेतः, ललाटे शकटाकारपुण्डयुतः गभीराकृतिश्च -भवितुमर्हति । किं च पूर्वमसकृत् पायितसोमरसाभ्यां मातापितृभ्यामश्वाभ्यां -जातः जातमात्र एव जलान्तरपानात् पूर्व पायितसोमरसो योऽश्वः तं -यथावत् वर्धयित्वा रक्षेत् । सति समये तेनैव यागं कुर्यात् । तत्र कस्यां- -चिददुष्टायां चैव्यां पौर्णमास्यां सांग्रहणीं नामेष्टिं कृत्वा, तदनन्तरवैशाख्यां -प्रजापतिदेवताकं पशुयागमनुष्ठाय, अनन्तरामावास्यायाम् ऋत्विज आहूय, -अमावास्येष्टिमनुष्ठाय यत्राश्वमेधयागः कर्तव्यतया निर्धारितः स्थानं तद्गत्वा, -वपनं कारयित्वा, अहतं नूनं वासः परिधाय तत् दिन समग्रं मौनव्रतं -धारयन्नासीत । मध्ये प्राप्तं सायंप्रातःकालिकमग्निहोत्रं तु मन्त्रेण कुर्वीत । -ततो द्वितीयेऽहनि प्रातरुदयं यन्तमादित्यं मन्त्रैरुपस्थाय, प्राग्वंशाख्यं -यज्ञमण्डपं प्रविश्य, एकादश पूर्णाहुतीः अन्याश्च काश्चनाहुतीः यजमानो -जुहुयात् । ततः चतसभ्यो दिग्भ्य आहृतासु अप्सु ब्रह्मौदनं पक्त्वा तत् -महर्खिग्भ्यः अध्वर्युब्रह्महोत्रुद्भातृभ्यो दत्त्वा तेन तानाशयित्वा समुचिते -काले यागा) सङ्कल्प्य, तं यज्ञियाश्चमानीय, तेन सह चतुरक्षं श्वानं -च आनीय तडागहृदादिमहाजले तावुभौ प्रवेश्य नीत्वा, यत्र शुनः पादा -भूमि न स्पृशन्ति तत्र सैकेण ? मुसलेने तं श्वानं हत्वा तमश्वस्य पादानाम- -धस्तात् प्रास्येत् । तत्रैव स्थितमश्वं चतसृषु दिक्षु अश्वस्य परितोऽवस्थिता -महविजो राजपुरुषान्विताः प्रोक्षेयुः । प्रोक्षणप्रकारश्चेत्यम्---अश्वस्य -1: -१. मातापितृभ्यामपि उत्पत्यनन्तरमेव कृतमोमपानाग्यां भाव्यमिति -सूत्रकारः | See. आप. श्री. सू. २०-२-११. -२. सैध्रको महासारो वृक्षविशेपः See मायणमान्य on तै. वा. ३. ८.४. १. - -=============== -129.jpg.txt" -===============" + - -===================================================== - -===================================================== -अश्वमेधः -पूर्वदेशे राजपुत्रशतेन परिवृतोऽध्वर्युः प्रोक्षेत् । राजपुत्राः ये अभिषिक्त- -क्षत्रियाणां पुत्राः स्वयमनमिपिता राज्याश्चि तेषां शतेन सह प्रोक्षणं -विहितम् । क्षत्रियाः सन्तोऽपि ये राज्यानहर्हाः शूराश्च तैः सहितो ब्रह्मा -अश्वस्थ दक्षिणभागे उत्तराभिमुखस्तिष्ठन् अश्वं प्रोक्षेत् । सारथीनां ग्रामनेतृणां -मिलितानां शतेन ब्रह्मा अश्वस्य पश्चिमभागे प्राङ्मुखस्तिष्ठन् प्रोक्षेदश्वम् । -क्षत्तॄणां काशाभिकारिणां च मिलितानां शतेन सहोदाता उत्तरस्यां दिशि -दक्षिणाभिमुखस्तिष्ठन प्रोक्षेत् । प्रोक्षणकाले भूमौ पतितान जलबिन्दूनभि- -मन्त्रयेत् ॥ -ततोऽध्व युरेक एव सर्वदेवतासम्बन्धितया तमश्वं चतुर्दु दिग्वि- -भागेषु उपरिष्टाच प्रोक्ष्य, अश्वमुत्सृजेत् भूपरिभ्रमणार्थम् । तेन अश्वेन -सह तद्रक्षणार्थ चतुश्शता इषुधन्विनो वीरपुरुषा गच्छेयुः । स यावद्भूमि -यथेष्टं परिभ्रम्य एकस्मिन् वर्षे आगच्छेत् तावत् ते तं रक्षेयुः । यदि -कश्चिद्राज्ञः शत्रुरश्चं स्पर्धया मध्येपथं गृह्णीयात् तदा रक्षिणस्तेन सह -युवा गार्थ पारीन येयुः । यदि न शक्यते, पुनः पूर्ववत् तादृशमेव -अश्वमेकमानीय पुनः प्राक्ष्य रक्षिभिः सह विसृजेत् । यावदश्वः पुनः -स्वस्थानं न परावर्तते तावद्यागो नानुष्ठातुं शक्यते । अतोऽयमश्वमेधो -महाधनिनाऽपि सता नानतिवलेन अनुष्ठातुं शक्यते । किन्तु यस्सर्वान् -स्वबलेनाऽभिभवितुं शक्नोति तेनैवायमनुष्ठेयः । श्रिया, यशसा, जयेन -च य आत्मनः श्रेष्ठ्यं प्रेप्सति, स एवात्र अधिकारीति श्रुतयः स्मृतयश्च । -एवं शतमश्वमेधान् यो राजा यथावर नुतिष्ठति स देवानां राजा 'इन्द्रः' -भवतीति पुराणान्युद्धोपयन्ति ॥ -स यावत् परिभ्रम्य पुनः स्वस्थानमागच्छति तावत् यजमानः प्रतिदिन -विष्णुक्रमणसंज्ञकान् कांश्चन होमान् कुर्वन् सायं प्रातश्च वीणागाथिनौ -ब्राह्मणराजन्यावाहूय ताभ्यां स्वापदानं गापयेत् । तत्र प्रातः (दिवा) -ब्राह्मणः राज्ञा कृतं दानयज्ञादिपुण्यकर्म वीणायां गायेत् । रात्रौ राजन्य- -स्तदीयशौर्यवीर्यबलपराक्रमादिकं गायेत् वीणायामेव । तदुभयं शृण्वन्नासीत -राजा। ततो हिरण्मय आसन आसीनो होत्रा शस्यमानं पारिप्लवं शृणुयात् ॥ -एवं प्रतिदिनं यावद्वत्सरं कुर्वन् यज्ञियाश्वस्य प्रत्यागमनं प्रतीक्षमाण -आसीत । तत्र अश्वभ्रमणकाले विविधा विचित्रतमाश्च होमा आहवनीयाद्यमिघु -मध्येपथम् अश्वपदनिक्षेपस्थलादौ च कर्तव्यतया विहिताः । एवमश्चाङ्गानि - -=============== -130.jpg.txt" -===============" + - -===================================================== - -===================================================== -११८ -यज्ञतत्वप्रकाशे -मुखदन्तहनूरुपादादीनि गमन-धावन-क्रन्दन-हेपण-शयना-वश्राण-प्रभृ- -तीन्यश्व चरितानि च देवतीकृत्य तेभ्यो होमाः कर्तव्याः ॥ -अत्र सुत्यात्रयमित्युक्तम् । तत्र प्रथमदिनकर्तव्यायां सुत्यायां -न कोऽपि विशेषोऽनुष्ठाने । द्वितीयदिने प्रातस्सवने बहिष्पतभानस्तोत्रार्थ -गत्वा तत्रोदातारम् उद्गीथाख्यद्वितीयभक्तिगातारं निवार्य तस्य स्थाने -अश्वमेव प्रकृतमुद्गीथाय नृणुयात् । तस्य समीपे बडवाः स्त्रीरूपा -अश्वाः स्थापयेत् । ता दृष्ट्वा स यज्ञियोऽश्वः यं शब्दं कुर्यात् स एव -उद्गीथः । ततस्तस्मिन्नेव दिने प्रातस्सायनिकग्रग्रहणाद्यनन्तरमश्वप्रभृतीनां -पशूनां यागोऽनुष्ठेयः॥ -तत्र यूपा एकविंशतिसंख्याका भवेयुः । ते वेदरुत्तरकोणादारभ्य -दक्षिणकोणपर्यन्तं निखातव्याः । तत्र आहवनीयाग्नेः साक्षात् -पूर्वमागे यो निखातव्यः स मध्यमः । स च राज्जुदालवृक्षनिर्गित -एकविंशत्यरनिपरिमाणो भवेत् । स एवाग्निष्ठशब्देनोच्यते । -तत्रैवाचो नियोक्तव्यः । तस्य यूपस्य दक्षिणोत्तरयोः द्वयोः -पार्श्वयोः पौतुद्रव (देवदारु) वृक्षनिर्मिती द्वौ यूपौ भवतः । तदनन्तराः -उत्तरमागे त्रयः दक्षिणभागे च त्रयः इत्याहत्य षट् बिल्ववृक्षनिर्मिता यूपा -भवन्ति । तदनन्तराः एकस्मिन् भागे त्रयः इति कृत्वा द्वयोः पार्श्वयोः पट् -खादिरा भवन्ति । तेषामप्यनन्तरं एकैकस्य भागस्य त्रयः इति पट् -पलाशवृक्षनिर्मिता भवन्ति । एवमाहत्य एकविंशतियूपा निखातव्याः । -ततोऽश्वशरीरं समन्ततो रशनया आवेष्टय, तस्यां तत्स्थानस्थितायां रज्ज्वां -बन्धनीयाः तूपरादयः पशवस्त्रयोदश । तेऽश्वाङ्गे बध्यमानत्वात् पर्यङ्ग्या -इत्युच्यन्ते । तद्वन्धनप्रकारश्चेत्थम्-१. अश्वस्य ललाटे आग्नेयम् । -२. तस्य पश्चाद्भागे पौष्णम् । ३. अश्वस्योपरिभागे ऐन्द्रापौष्णम् । ४. बाह्रोः -दक्षिणोत्तरयोः आमेयौ कृष्णग्रीवौ । ५. वाष्ट्रौ सक्थ्योः (ऊर्वोः) । -६. बाईस्पत्यौ श्वेतपृष्ठौ पार्थे । ७. श्वेतवर्णोदरयुक्तं धातृदेवताकम- -श्वस्य अधोभागे । ८. श्वेतमजं पुच्छे । ९. सूर्यदेवताकं कृष्णवर्णम -दक्षिणपार्थे । १०. यमदेवता कृष्णवर्ण वामपार्थे । विचित्रोऽयं प्रकारो -नान्येषु यागेषु दृश्यते । अश्वमेधे सुपर्णचितिं निर्माय तदुपर्यग्निं प्रतिष्ठा- -१. चतुर्विशतिरगुलयोऽरन्निः । एवमेकावशत्यरलिपरिमितः ५०४ -अङ्गुलिपरिमितो भवेदवतायाम् । अन्य युपा: पञ्चारत्नयः। - -=============== -131.jpg.txt" -===============" + - -===================================================== - -===================================================== -अभ्रमेधः -११९ -, -प्यापि यागोऽनुष्ठातुं शक्यते । एकविंशतिसंख्याकेषु यूपेषु नियोज्य- -मानानां पशूनाम् आहत्य संख्या नवत्युत्तरं शतत्रयम् (३९०)। एते ग्राम्याः -पशव उच्यन्ते प्रामेष्वेव वसन्तीति । तत्तधूपान्तरालेषु धारयितव्याः -आरण्याः पशवः । अरण्यमात्रवासिनस्त आरण्या उच्यन्ते । संख्येयं -पशूनां तैत्तिरीयशाखानुसारेण । माध्यन्दिनशाखानुसारेण तु एकोनपञ्चाश- -दुत्तरशतत्रयं (३४९) ग्राम्याः पशवः । षष्टयत्तरं शतत्रयं (३६०) -आरण्या: पशवः । अत्र ग्राम्याः पशवः -पशवः तत्तद्गुणाकृतिविशिष्टा -अजा एवोपदिष्टा बहुलतया । जात्यन्तरस्याति कचिदत्यल्पशो -विधानमस्ति । ते यूपेष्वेव बन्धनीयाः । आरण्येषु पशुषु सिंहगजव्याघ्र- -श्वापदादयः, नेके च पक्षिविशेषाः, मीनमण्डूकसरीसृपादयश्च संगृहीताः । -ते च तैस्तैः शाकुनिकैर्मंगयुभिश्च जालवागुरादिभिग्राहयित्वा यूपान्तरा- -लेष्ववस्थाप्याः । सर्वेषु पशुषु तिष्ठत्सु प्रत्येकं तेषामुपाकरणपर्यनिकरणे -कृत्वा, आरण्यान् ततोऽपसार्य अरण्यं नीत्वा सिंहव्याघ्रादीन् तत्रोत्सृजे- -दुपायेन । ग्राम्याणां पशूनां तु संज्ञपनादि सर्व पाशुकं कर्मानुष्ठाय -तदनन्तरमेव तद्दिनीयसामिकव्यापारानुष्ठानं कर्तव्यम् ॥ -तत्र, अश्वसंज्ञपनार्थ घृतातं कम्बलं भूमौ प्रथममास्तीर्य, -तदुपरि चर्ममयमाच्छादनपटमास्तीर्य तदुपरि सुवर्णफलकमास्तीर्य -तदुपर्यश्वं प्राशिरसम् उदीच्यपादं शाययित्वा संज्ञपयेत् । संज्ञपनं -प्राणर्वियोजनम् । ततः राज्ञः पत्न्यः महिषी, वावाता, परिवृत्ती -इति तिस्रोऽपि अश्वं परियन्ति । ततो महिषी मृतस्याश्वस्य पाई -शयाना तं गर्हेतु ग्राम्यैर्वचनैः । अनन्तरं तस्य विशसनं कृत्वा -चन्द्राख्यं मेद उद्धरेत् , यतोऽश्वस्य वपा न विद्यते । ततः तूपरगोमृगयोपे -उद्धृत्य तत् त्रयमपि अपयित्वा प्रजापतये आश्रावणप्रत्याश्रावणे कृत्वा -तद्धविस्त्रयमपि युगपत् प्रजापतये जुहुयात् । ततोऽश्वलोहितं स्विष्टकदर्थ -क्वचित् पात्र निक्षिप्य, प्रजापतिदेवताकान् षड्ढोमान् हुत्वा, यजमान -व्याघ्रचर्मणि सिंहचर्मणि वा उपवेश्य ऋषभस्य चर्मणि यजमानस्योपरि -धार्यमाणे सति यजमानशिरसि सुवर्ण शतकृष्णलमितं निक्षिप्य यजमान- -मभिषिञ्चेत् । ततो यजमानो मुखं विमृज्य, अध्वर्युणा प्राजापत्यासु षट्सु -आहुतिषु क्रियमाणासु विष्णुक्रमान् कामेत् । ततो वैतसे कटे अश्वं निपात्य -प्राक्शिरसं तदङ्गान्यवद्येत् । एवमश्वस्य पुरोभागे पश्चिमशिरसं तूपरं पश्चाद्भागे - -=============== -132.jpg.txt" -===============" + - -===================================================== - -===================================================== -१२० -यज्ञतत्त्वप्रकाशे -प्राशिरसं गोमृगं च शाययित्वा तत्तदङ्गानागवदानं कुर्यात् । अश्वस्य -दक्षिणतः प्लक्षशाखा वितत्य तत्रेतरान् पशून् शाययित्वा हृदयाघङ्गाना -मुद्धरणं कृत्वा वेद्यामासाद्य, अश्वतूपरगोमृगाणां निरवशेपं होमं कृत्वा यत्र -ते शायितास्तमपि कटमग्नौ प्रक्षिपेत् । तत आहवनीये आज्येन शरीर- -होमान् हुत्वा, अश्वस्य लोहितेन स्विष्टकृतं हुत्वा, गोमृगस्य कण्ठेन -अश्वशफेन अयस्मयेन कमण्डलुगा च क्रमश आहुतित्रयं त्वा ततो -यथाप्रकृति पत्नीसंयाजान्तमनुष्ठाय तदहर्विरमयेत् ॥ -तदनन्तरदिवसे सर्वस्तोममतिरात्रसंस्थाकं सोमयागगनुतिष्ठेत् । -इदं तृतीयं सुत्यादिनम् । तस्मिन् दिने सौमिकान व्यागारान यथा- -प्रकृत्यनुष्ठाय सवनीयपशूपाकरणकाले एकादश पशुन् प्राजापत्यान -वैश्वदेवान् वा पशुयागान् अन्ते प्राजापत्यमेकं पशुयागं च कृत्वा ततो -यथाप्रकृति कर्तव्यानि सर्वाणि कर्माण्यनुष्ठाय, अवभृथेष्टयनुष्ठानपूर्वक- -मवभृथस्त्रानं विधाय, अत्रिगोत्रोद्भवं, क्लेशरहितमस्तकं, सर्वदा स्वेदनशीलं, -श्वेतकुष्ठं पिङ्गलवर्णाक्षियुत कंचन पुरुषमानीय तस्य शिरसि होमविशेष- -त्रयमनुष्ठाय तस्मै शतं सुवर्णानि अनोयुक्तानि दत्त्वा ग्रामं गच्छेत् । ग्रामीणा -अपि पुरुषाः सहैव गच्छेयुः । ततस्त्रैधातवीयेष्टिमुदवसानीयास्थाने कृत्वा -तदनन्तरम् ऋतुपशुभिः संवत्सरं यावद्यजेत । तत्तदृतावनुष्ठेयतया ये -विहिताः पशवस्ते ऋतुपशव उच्यन्ते । समाप्तोऽश्वमेधः ॥ -अश्वमेधस्य सर्वयज्ञश्रेष्ठता -अयं चाऽतिबृहन् क्रियासमूहः । अतिकुशलैः कण्ठाग्रविल- -सत्पद्धतिभिः ऋत्विग्भिरेवाऽनुष्ठापयितुं शक्यते । न सामान्यप्रज्ञैः । -यतोऽस्य प्रयोगोऽसन्तं जटिलः प्रकृतावपरिचितपदार्थशतसंकुलश्च । -किंचास्याऽनुष्ठानमनेकशतवत्सरेभ्यः पूर्वमेव विलुप्तम् । यतस्तादृशा -अधिकारिणो बहोः कालात् पूर्वमेव विलोपं गताः । परं वैक्रमीयसंवत्सर- -त्रयोदशचतुर्दशशतकपर्यन्तं भारतीय राजभिर्यथाकथंचिदनुष्ठित असीदिति -वयमितिहासमुखादवगच्छामः । परमतिप्राचीनात् वैदिककालादारभ्याऽस्म- -देशे प्रसिद्धिं गतोऽयं यागः, आस्माकीनरेव चेदम्प्रथमतया ज्ञात इति -श्रुतिपरामर्शेनावगम्यते । सति चैवं एतद्विषयकं परिज्ञानमस्माकं भारतीयानां -पाश्चात्यदेशादधिगतम् . । ग्रीप्रभृतिषु पाश्चात्यदेशेषु अतिप्राचीनादारभ्य -समयात्, प्रथेयम्-अश्वस्य हविष्यसम्पादनेन देवताभ्यो दानमित्यादिका- -1 - -=============== -133.jpg.txt" -===============" + - -===================================================== - -===================================================== -पुरुषमेधः -प्रसरं गता आसीत् । अनन्तरं भारतदेशीयैस्सा शिक्षिता तेभ्य एव इति -यत् केचन पाश्चात्याः पण्डिताः कथयन्ति तत् सर्वथा वस्तुयाथार्थ्यापलाप- -मात्रम् । यतस्सर्वेयं वैदिकी परिपाटिरास्माकीनैव अस्मद्धपज्ञैव च -देशान्तरीयाभ्यस्ताभ्योऽतिप्राचीना, अनिर्घातोत्पत्तिकाला इत्यत्र नास्ति -संशयस्य कियानप्यवकाशः। अस्मत्त एव च प्रथममरब्-देशीयैः शिक्षिता, -ततो ईजिप्ट-देशीयैः, ततो रोमकैः, तेभ्यश्चाङ्गलैः । एवमास्माकीना सभ्यता -देशान्तरं गता । आङ्गलास्सभ्यतामिमां रोम्-देशादेवाशिक्षन्त इति -कृत्वा ते तमेव देशमस्याः परमं मूलं मन्वते । तदिदं तेषामुपरिप्लवन- -मात्रम् । परं तेष्वपि केचित् तत्त्वविमर्शकाः तत्त्वं नापलपितुमीहन्ते । -अस्तु, नात्र दूरतरं गन्तुमभिलषामो विस्तराद्भीताः । अतोऽश्वमेधयागः -अनादिकालिको वैदिकानां कर्मणां मध्ये प्राधान्यं परमं गतः सार्वभौम- -कर्तृको महापुण्यप्रद इति सिद्धम् ॥ -पुरुषमेधः -एवं पुरुषमेधोऽपि वेदेषु विहितो दृश्यते । पुरुषमेधोऽपि -अश्वमेधवत् सोमयाग एव । स पञ्चसुत्यात्मकः पञ्चाहः अहीनः क्रतुः ! -अत्र श्रवणमात्रेणैवं प्रतीयते-यथा अश्वमेधे अश्वस्य संज्ञपनविशसनादिकं -कृत्वा यागः क्रियते तदीयाङ्गैः, एवमत्रापीति । कथयन्त्यपि लिखन्त्यपि च -केचनैवं तत्र । परं वस्तुगत्यां नैव तथा । पुरुषाणां चोदितानां तत्तद्देवतायै -यथाविधि उपाकृत्य तत उत्सर्ग एव ; न विशसनादिकम् , वपादीना- -मुद्धरणम् , अग्नौ प्रक्षेपणात्मको होमो वा । तैत्तिरीयवाजसनेयब्राह्मणयोरेषां -विधिकदम्बकं दृश्यते । तत्र पुरुषपशवः द्वथूनं द्विशतं (१९८) विहिताः -तत्तद्देवतोद्देशेन । अजा अपि तैस्सह विधानमुपगताः । अजानामेव यूपेषु -बन्धनसंज्ञपनविशसनवपोद्धरणादयो व्यापारा अनुष्ठेयतयोक्ताः । पुरुष- -पशूनां तत्तद्देवताभ्य उपाकरणानन्तरं तान् नारायणात्मना ध्यात्वा -तथैवोत्सृजेत् (जीवतामेव परित्यागः कार्यः) । तेषां परमपुरुषात्मना -ध्यानसमय एव पुरुषसूक्तमन्त्राः पठनीयाः । तदर्थमेव प्राधान्येन सूक्तमिदं -प्रवृत्तम् । अतश्च हिंसायाः पुरुषमेधे अवसर एव नास्ति । सत्यामेवं -वस्तुस्थितौ यत् कैश्चिदेवमुच्यते-वैदिकसभ्यतायां पूर्वकाले पुरुषमेषोऽपि -प्रथित आसीदिति, तत् पुरुषमेधशब्दश्रवणमात्रेण सजातप्रमाणां पुरुषाणां -तेषां स्वमनीषाविलासमात्रम् ; न तु तात्त्विकी स्थितिरिति विचारयामः । -। -16 - -=============== -134.jpg.txt" -===============" + - -===================================================== - -===================================================== -१२२ -यज्ञतत्त्वप्रकाशे -? -कुतः ? कस्यामपि शाखायां क्वचिदपि वा श्रौतसूत्रे पुरुषमधे पुरुषस्य -हिंसाया अश्रवणात् । किन्तु सर्वेषु वेदेषु श्रौतसूत्रेषु च तान् पुरुपपशूनकल -सङ्घीकृत्य, उपाकृत्य, भगवन्नारायणरूपेण ध्यात्वा तथैव तानुत्सृज्य, -त्यक्तरागद्वेषः स्वीयं सर्वमपि स्वं तस्मिन् यज्ञे दक्षिणात्वेन ऋत्विग्भ्यो -ब्राह्मणेभ्यश्च दत्त्वा अरण्यमुपेयात् इत्येव विधिदृश्यते । अतः पुरुषाणाम- -नित्येषु पदार्थेषु वैराग्योत्पादनायैव अयमेतावान् परिकर इत्येव प्रतीयते ॥ -यत्तु ऐतरेयब्राह्मणगतं शुनश्शेपोपाख्यानं पुरुषमेधे प्रमाणतया -प्रदर्शयन्ति, न तदपि युक्तम् । तत्र हिंसाया अविधानात् । जीवत एवं -शुनश्शेपस्य परित्यागोक्तेः । तत्र कारणकथने या कापि भङ्गी समाश्रिता -भवतु, फलतो जीवत उत्सर्गस्यैव विधानम् । अतः पुरुषमेधे पुरुषाणां -पर्यग्निकरणानन्तरमुत्सर्ग एव शास्त्रसम्मत इति फलति । एवं पुरुषानु- -त्सृज्य, अजैर्यथावत् पाशुकं कर्माऽनुष्ठाय तत्संवलितान् सौमिकानपि -व्यापारान् तदुक्तसंस्थानुसारेण यथाविध्यनुष्ठाय उदवसानीयया -समापयेत् ॥ -सर्वमेधः -एवं सर्वमेधाख्यः क्रतुरपि सोमयागविशेष एव । तत्र दश सुत्याः, -द्वादश दीक्षाः, द्वादश उपसदः । एवं चतुस्त्रिंशदिनसाध्योऽयं क्रतुः । -इष्टकाभिस्सम्पादितायाश्चितरुपरि आहवनीयाग्निस्थापनं कृत्वा तत्रैव यागः -कर्तव्यः । सुत्यासु पञ्चमी सुत्या आश्वमेधिकमध्यमसुत्यावदनुष्ठेया । -षष्ठी सुत्या पौरुषमेधिकमध्यमसुत्यावत् । षष्ठयां सुत्यायां पुरुषान् पर्यग्नि- -करणान्ते सर्वानुत्सृज्य अजादिभिः पशुभिः यागा अनुष्ठेयाः । सप्तम्यां -सुत्यायां परिशुद्धानि आर्यभोजनयोग्यानि सर्वाणि ब्रीह्यादीन्यन्नान्यानीय, -यथावत् पक्त्वा आहवनीये जुहुयात् । ओषधीः वृक्षांश्च आनीय, अल्पशो- -ऽत्पशस्तान् खण्डयित्वा आहवनीये जुहुयादिति विशेषः । अत्रापि कर्मणि -मनुष्याणां संज्ञपनादिकं किमपि न विहितम् । किं तु उपाकरणान्त उत्सर्ग -एव । अतः पुरुषमेधसर्वमेधयोः मनुष्यस्य मारणविशसनादिकमस्तीति -कथनं सर्वथा भ्रममूलकमेव ॥ -सवनिरूपणम् -एतदतिरिक्ताः सवा नाम केचन एकाहविशेषाः सोमयागाः -तैत्तिरीयब्राह्मणे विहिताः । एकदिनसाध्यास्त इति कृत्वा ते एकाहपद- -. - -=============== -135.jpg.txt" -===============" + - -===================================================== - -===================================================== -मवनिरूपणम् -१२३ -व्यपदेशभाजो भवन्ति । ते च १. बृहस्पतिसवः २.वैश्यसवः ३. ब्राह्मणसवः -४. सोमरावः ५. पृथिसवः ६. गोसवः ७. ओदनसवः ८. मरुत्स्तोमः -(पञ्चशारदीयः) ९. अग्निष्टुत् १०. इन्द्रस्तुत् ११. अप्तोर्यामः -१२. विधन इति द्वादश । सूयते ईश्वरत्वेन (यजमानः) अभिषिच्यत -एनिति सवाः इति आचार्यसायणः । तेषामनुष्ठाने विशेषाः परमत्र -लिख्यन्ते ॥ -तेपु प्रथमो बृहस्पतिसवः-तत्र सर्वे स्तोमाः विष्वपि सवनेषु त्रिवृतः -(नवसङ्ख्याकाः)। अग्निष्टोमसंस्थाकत्वं पृष्ठस्तोत्रे रथन्तरसामैव च तत्र -नियमेन भवति । न ज्योतिष्टोमवत् बृहद्रथन्तरयोर्विकल्पः । तत्र परिस्रजी -होता भवति । यस्य शिरसि स्रगाकारेण परित एव केशास्सन्ति, न तु मध्ये, -स परिस्रजी(खलतिः) इति सायणः । स च होता सन्ध्याकालवर्णसदृश- -रक्तवर्णः पुनः पुनरतिवेगेन चक्षुरुन्मीलननिमीलनयुक्तः वेदत्रये -सम्यग्ज्ञानवांश्च भवेत् । अस्मिन् यागे त्रयस्त्रिंशत्(३३)गावः दक्षिणात्वेन -ऋलिग्भ्यो देयाः । ताः समशो विभज्य एकैकस्मिन् सवने एकादश (११) -इति कृत्वा त्रिष्वपि सवनेषु दद्यात् । यागसमाप्त्यनन्तरं यजमानं कृष्णाजिने -उपवेश्य, तमृत्विजो जलेन प्रथमं तत आज्येन चाभिषिञ्चे युः । सर्वमन्यत् -प्रकृतिसोगयागवत् ॥ -द्वितीयो वैश्यसवः-तत्र १. आग्नेयोऽष्टाकपालः पुरोडाशः -२. पोष्णश्चरुः ३ सावित्रोऽष्टाकपालः पुरोडाशः ४. त्वष्टदेवताकोऽष्टा- -कपालः पुरोडाशः ५. वारुणोऽष्टाकपालः पुरोडाशः ६. द्वादशकपालो -वैश्वदेवः सः ७. एकादशकपालो मारुतः स इति सप्त हवींषि । ततः -श्वेतवर्णः चतुर्वषः स्त्रीपशुरेक इति अष्टौ यागीयद्रव्याणि । अन्तिमस्य -पशुयागस्य प्रधानहोमानन्तरं स्विष्टकृयागात् पूर्व तत्र वृषभचर्म आस्तीर्य, -तत्र यजमानमुपवेश्य, दना तमभिषिञ्चेत् इति विशेषः । सर्वमन्यत् -प्रकृतिवत् ॥ -तृतीयो ब्राह्मणसवः-तत्र १. आग्नेयोऽष्टाकपालः पुरोडाशः -२. सौम्य एकादकपालः पुरोडाशः ३. सावित्रोऽष्टाकपालः पुरोडाशः -४. बाईस्पत्योऽष्टाकपालः पुरोडाशः ५. अमीषोमीय एकादशकपालः -पुरोडाशः ६, मारस्वतोऽष्टाकपालः पुरोड़ाशः ७. वारुणोऽष्टाकपालः - -=============== -136.jpg.txt" -===============" + - -===================================================== - -===================================================== -१२४ -यज्ञतत्त्वप्रकाशे -पुरोडाशः ८. द्यावापृथिव्य एककपालः पुरोडाशः इत्यष्टौ पुरोडाशद्रव्यका -यागाः । इष्टयादिसमाप्त्यनन्तरं कृष्णाजिनमास्तीर्य तस्मिन् यजमान- -मुपवेश्य घृतेन अभिषिश्चेत् । अनैतावन्तो विशेषाः । सर्वमन्यत् यथा- -प्रकृति ॥ -चतुर्थः सोमसवः-अत्र सोमयागानुष्ठानं नास्ति । किन्तु राजसूये -ये सप्त सोमयागाः पवित्रादयोऽनुष्ठेयतयोक्ताः, तान् सर्वान् सोमयागान् -वर्जयित्वा अन्ये अनुमत्यादिसौत्रामणीयागान्ताः सर्वेऽपि यागा इष्टिपशु- -यागात्मका अनुष्ठेयाः॥ -पञ्चमः पृथिसवः-अत्र राजसूयोक्तानि-सोमयागाः, पशुबन्धः, -चातुर्मास्यानि इत्येतानि वर्जयित्वा अन्यत्सर्वमनुमत्यादिकं सौत्रामण्यन्त- -कर्मजातमनुष्ठेयम् ॥ -षष्ठो गोसवः-अन सवनत्रयगतेषु सर्वेष्वपि स्तोत्रेषु -पत्रिंशस्तोमाः । उक्थ्यसंस्था । पृष्ठस्तोत्रे बृहत्साम । पवमानस्तोत्रेषु -(बहिष्पवमानमाध्यन्दिनपवमानार्भवपवमानाख्येषु)त्रिष्वपि कण्वस्थन्तराख्यं -साम गातव्यम् । अयुतसङ्ख्याका गाः अत्र दक्षिणाः । यज्ञान्ते -अचिरदुग्धेन क्षीरेण अत्र यजमानस्य अभिपेकः कार्यः ॥ -सप्तम ओदनसवः-सुत्यादिने सूर्योदयात्पूर्वमोदनं पक्त्वा, -उदित आदित्ये तेनौदनेन आहवनीयाग्नौ आहुतिचतुष्टयं हुत्वा ततः -आज्ये, पयसि, दधनि, जले च पृथक् पृथक् पात्रावस्थापिते सक्तून -प्रक्षिप्य, आलोड्य, तत्तन्मन्थान् कृत्वा, तान् यजमानाय भक्षार्थ -प्रयच्छेदध्वर्युः । ततो यजमानहस्ते हिरण्यं बद्ध्वा तैरेव भक्षणावशिष्टमन्थैः -परस्पर संसृष्टैः यजमानमभिषिञ्चेत् । आज्यादीनि द्रव्याणि सक्तुभिः -संमिश्रितानि मन्था इत्युच्यन्ते । अत्र साक्षादवभृथो नास्ति । -किन्तु तत्स्थाने दर्भपुञ्जीलोद्धृतेन जलेन यजमानस्य प्रोक्षणमेव । -ततोऽग्रेऽवस्थापितं यजमानो रथमारोहेत् । अत्रापि सर्वमन्यत् यथाप्रकृति ॥ -अष्टमो मरुत्स्तोमः पञ्चशारदीयः--पशुयागसंवलितोऽयं सोमयागः । -अयं पञ्चभिर्वत्सरैरनुष्ठेयः । अत एवास्य पञ्चशारदीय इति व्यवहारः । -परं न सर्वाण्यपि दिनान्यमिव्याप्य अस्यानुष्ठानम् । किन्तु चातुर्मास्यवत् -तत्तत्पादिकालेष्वेव । अयं चात्रानुष्ठानप्रकारः--प्रथमवत्सरे सङ्कल्पं कृत्वा - -=============== -137.jpg.txt" -===============" + - -===================================================== - -===================================================== -द्वादशाहनिरूपणम् -१२५ -सप्तदशसंख्याकान् पञ्चवर्षीयानल्पकायान् पुंस्पशून् तावत्संख्याकान् -अस्पृष्टगीन वर्षत्रयवयस्कान् स्त्रीपशृंश्च आनीय सहैवोभयानपि उपाकृत्य, -प्रोक्ष्य, पुंपशूनुत्सृज्य, स्त्रीपशूनालभेरन् । एवं द्वितीयवर्षेऽपि पूर्वोत्सृष्टान् -पुंपशून् , अन्यांश्च स्त्रीपशूनानीय पूर्ववत् पुंपशून् पर्यग्निकरणान्ते उत्सृज्य -स्त्रीपशूनालभेरन् । एवं तृतीयचतुर्थवर्षयोरपि पुंपशवः पुराणाः नूनाश्च -स्त्रीपशव आनेयाः । पूर्ववदेव च तेषामनुष्ठानप्रकारः । एवं पञ्चसु वर्षेषु -पशुयागानेव अनुष्ठाय षष्ठे वर्षे शरदृतौ कार्तिकमासे पञ्चसु दिवसेषु -पञ्च सोमयागा अनुष्ठेयाः । तत्र ये पशवः पूर्वेषु वर्षेषु परित्यक्ताः -तानानीय, प्रथमे दिने त्रयः, द्वितीये दिने त्रयः, एवं तृतीयचतुर्थयोरपि -त्रयस्त्रयः, पञ्चमे पञ्च इति सप्तदशानामपि पशूनां सवनीयपशुत्वेन अनुष्ठान -कर्तव्यम् । तत्र पुंपशूपनाम् इन्द्रो मरुतश्च देवताः; स्त्रीपशूनां केवलमरुतः। -पञ्चमे वर्षे पञ्चरात्राय सोमयागाय दीक्षयित्वा पञ्च संस्थाः क्रमशः -एकैकस्मिन् दिनेऽनुष्ठयाः । तत्र प्रथमदिने त्रिवृत्स्तोमः सर्वेष्वपि -स्तोत्रेषु । ततो द्वितीयादिषु दिवसेषु पञ्चदशः, सप्तदशः, पञ्चदशः, -सप्तदश इति स्तोमाः । अग्निष्टोमः, उक्थ्यः, उक्थ्यः, उक्थ्यः, अतिरात्रः -इति क्रमेण संस्था भवन्ति । अत्र पशुयागानामङ्गत्वं सोमयागानां च -प्राधान्यं भवति । अतः सोमयागा एवैते ॥ -एवमग्निष्ठुदिन्द्रस्तुदप्तोर्यामविघनाख्याश्चत्वार एकाहाः तैत्तिरीय- -ब्राह्मणायुक्ताः । तत्र विघने-त्रिवृत्पञ्चदशयोः स्थाने द्वादशसस्तोमः -सप्तविंशकविंशयोः स्थाने चतुर्विंशस्स्तोमश्च कर्तव्यौ । अन्यत् -सर्वमत्र यथाप्रकृति । अप्तोर्यामस्तोत्रादिगतविशेषस्तु पूर्वमेव अभिहितः -संस्थानिरूपणप्रस्तावे । इत्येकाहनिरूपणम् ॥ -द्वादशाहक्रतुः -अथेदानी द्वादशाहकतोः स्वरूपं निरूप्यते । द्वादशाहो द्विविधः-- -अहीनात्मकः सत्रात्मकश्चेति । अहीनलक्षणस्य सत्रलक्षणस्य च सत्त्वात् । -तथा हि--एकादियजमानकता, यजिधातुना विधानम् , दक्षिणाविधिः -इत्यादीनि अहीनलक्षणानि । बहुकर्तृकत्वम् , आसते, उपयन्ति, आसीरन् , -उपेयुः इत्यासोपायिचोदनाचोदितत्वम् , सत्ररूपेण संस्तवः, उभयतोऽति- -रात्रत्वम् इत्यादीनि सत्रलक्षणानि । तदुभयान्यप्यत्र दृश्यन्ते । अतोऽय- - -=============== -138.jpg.txt" -===============" + - -===================================================== - -===================================================== -१२६ -यजनप्रकाशे -मुभयात्मकः । एकाहानामग्निष्टोमो यथा प्रकृतिभूतः एवमहीनानां सत्राणां -चायं प्रकृतिभूतः संवत्सरादाक्तनानाम् । तदुपरितनानां तु तेपां -गवामयनं प्रकृतिभूतम् ॥ -अत्र द्वादशाहे द्वादश दिनानि दीक्षाः । ततो द्वादशमु दिवसेपूरा -सदामनुष्ठानम् । अन्तिमोपमदिने आरभतश्चतुविशे दिने उपसदनुष्ठाना. -नन्तरम् अग्नीषोमीयपशुयागानुष्ठानम् । तस्मिन्नेव दिने महारारे नुध्या -सोमाभिषवार्थक्रियाकलापानुष्ठानम् , श्वोभूते यहिप्पवमानादिः तृतीय- -सवनसमाप्त्यन्तो व्यापारः, पुनर्यथावद्राली अमिषवक्रियानुबद्धकर्मकलाप -इत्यादिद्वादशदिनपर्यन्तावर्तनीयक्रियाजातरूपाः द्वादश सुन्याः ॥ -एवं षट्त्रिंशदिनानुष्ठेयोऽयं द्वादशाहाख्यः क्रतुः । सर्वान्त -एवावभृथेष्टिः, नैकैकसुत्सासमाप्तौ । तत्र द्वादशानामप्यहां संस्थाविशेषाः -विशेषेण विहिताः। ते यथा--प्रथमदिनमतिरात्रसंस्थाकम् । द्वितीयमग्निष्टोम- -संस्थाकम् । तत्र बहिष्पवमानाद्येषु द्वादशसु स्तोत्रेषु निवृदेव स्तोमः । -तृतीयदिनमुक्थ्यसंस्थाकं पञ्चदशस्तोमकम् । चतुर्थदिनमुक्थ्यसंस्थाकं -सप्तदशस्तोमकम् । पञ्चमदिनं षोडशिसंस्थाकमेकविंशस्तोमकम् । -षष्ठदिनमुक्थ्यसंस्थाकं त्रिणव(सप्तविंशति)स्तोमकम् । सप्तमदिनमप्यु- -क्थ्यसंस्थाकं त्रयस्त्रिंशस्तोमकम् । अष्टममहरुक्थ्यसंस्थाकं चतुर्विंश- -स्तोमकम् । नवममहरुक्थ्यसंस्थाकं चतुश्चत्वारिंशस्तोमकम् । दशममहरग्नि- -ष्टोमसंस्थाकं चतुर्विशस्तोमकमितरेषु स्तोत्रेषु, अग्निष्टोमस्तोत्रे परं त्रयस्त्रिं- -शस्तोमकम् । एकादशदिनमग्निष्टोमसंस्थाकमष्टाचत्वारिंशस्तोमकम् । -द्वादशमहरतिरात्रसंस्थाकम् । दशमदिनस्यातिरात्रसंस्थाकत्वं क्वचिच्छ्रुतम् । -एवं रथन्तरम् , रथन्तरम् , बृहत् , वैरूपम् , वैराजम् , शाकरम् , -रैवतम् , रथन्तरम् , बृहत् , रथन्तरम् , बृहत् , रथन्तरमिति क्रमेण होतुः -पृष्ठे सामानि । अत्र रथन्तर-बृहत्-वैरूप वैराज-शाकर-रैवताख्यानां पण्णां -सानां पृष्ठसामानीति व्यवहारः । द्वादशाहेऽस्मिन् द्वितीयादिसप्तमान्तानि -दिनानि पृथगेकसङ्घीकृत्य तस्य च सङ्घस्य “पडहः" इति संज्ञा कृता -श्रुत्यैव । तत्र षडहे पूर्वोक्तानि सामानि क्रमश एकैकस्मिन् दिने एकैकतया -पृष्ठस्तोत्रे (होतुः पृष्ठे) गीयन्ते स्तोत्रसम्पादकतया । अत एवास्य षडहस्य -"पृष्ठयः षडहः" इति संज्ञा । अत्र उक्त एव विषयः पट्टिकारूपेण -प्रदर्श्यते- - -=============== -139.jpg.txt" -===============" + - -===================================================== - -===================================================== -द्वादशाहनिरूपणम् -१२७ -(व्यूढ)हादशाहे संस्थास्तोजपृष्ठसामनिरूपणी पट्टिका- -अहः संस्था -स्तोमः -अग्रता -साम -प्रथममहः अतिरात्रसंस्था त्रिवृदादयः ऐन्द्रवायवाग्रता रथन्तरम् -पृष्ठयषडहः -द्वितीयमहः अग्निष्टोमसंस्था त्रिवृत् -रथन्तरम् -तृतीयमहः उक्थ्यसंस्था पञ्चदशः शुक्राग्रता बृहत -चतुर्थमहः उवथ्यसंस्था सदशः आग्रयणाग्रता वैरूपम् -पञ्चममहः पोडशिसंस्था एकविंशः -वैराजम -पष्ठमहः उक्थ्यसंस्था त्रिणवः(२७) ऐन्द्रवायवाग्रता शाक्करम् -सप्तममहः -त्रयस्त्रिंशः -शुक्राग्रता रैवतम् -अष्टममहः -चतुर्विशः -रथन्तरम् -नवममहः -चतुश्चत्वारिंशः आग्रयणाग्रता बृहत् -दशममहः अग्निष्टोमः,अतिरात्रः चतुर्विशः ऐन्द्रवायवाग्रता रथन्तरम् -उक्थ्या पा -" -> -एकादशमहः अग्निष्टोमसंस्था -अष्टाचत्वारिंशः -बृहत् -द्वादशमहः अतिरात्रसंस्था -त्रिवृदादयः -रथन्तरम् -अत्र द्वादशाहे प्रथमस्य अह्नः 'प्रायणीयम्' इति चरमस्य -'उदयनीयम्' इति च संज्ञा । आरम्भसमाप्तिसम्बद्ध इति तदर्थः । दशममहः -'अविवाक्यम्' इत्युच्यते । अनुष्ठानकालेऽत्र सम्भवन्तो दोषा न वक्तव्या -इति तदर्थ इति व्याख्यातारः । अतः स्तोत्रानुसारेण शस्त्राणामपि -वृद्धिविशेपादयो भवन्ति । एवं पदार्थान्तरेष्वपि सन्त्यनुष्ठाने प्रकृत्य- -पेक्षया बहूनि वैलक्षण्यानि, न तान्यत्रोल्लिखितानि ग्रन्थगौरवमिया ॥ -ग्रहाग्रता -सत्रेषु काचिद्ग्रहाग्रता विहिता । तस्याः स्वरूपं वित्रियते -किञ्चिदिव । सुत्यादिवसेपु प्रातस्सवनादिषु विष्वपि सवनेषु ग्रहाः -गृह्यन्ते हूयन्ते च । तत्र प्रातस्सवने बहुषु ग्रहेषु धारातो गृह्यमाणेषु -यस्य ग्रहस्य प्रथमं ग्रहणयां देवतामुद्दिश्य पात्रे सोमरसः प्रथमं गृह्यते -तनिष्ठा अग्रता (प्राथम्यम् ) । यथा-इन्द्रवायू उद्दिश्य प्रथमं पात्रे -सोमरसग्रहणे स ऐन्द्रवायवो ग्रहः प्रथमं गृहीत इति ग्रहाणामैन्द्रवायव- - -=============== -140.jpg.txt" -===============" + - -===================================================== - -===================================================== -१२८ -यज्ञतत्त्वप्रकाशे -महाग्रत्वम् । एवं शुक्राग्रता आग्रयणाग्रता इत्यादि बोध्यम् । तत्र -व्यूढद्वादशाहे अहस्सु अग्रताः पट्टिकायां प्रदर्शिताः । समूढाख्यः कश्चित -द्वादशाहोऽस्ति । तत्र प्रथमदशमद्वादशेष्वहस्सु ग्रहाणामैन्द्रवायवाग्रता । -द्वितीयादिष्वहस्सु पूर्वोक्ताहर्वर्जितेषु क्रमेण ग्रहाणामैन्द्रवायवाग्रता, -शुक्राग्रता, आग्रयणाग्रता, एतासामव च पुनवारद्वयमावृत्तिः । अर्थात् -द्वादशाहद्वितीयदिने प्रातस्सवने ग्रहग्रहणकाले आदावैन्द्रवायवग्रहं गृहीत्या -ततोऽन्ये ग्रहा ग्रहीतव्याः । तृतीयदिने शुक्रग्रहं प्रथमं गृहीत्वा ततोऽन्ये -ग्रहा इत्यादि । इयमेव 'व्यनीका' इति याजिकैर्व्यवह्रियते । सेयं -व्यनीका द्वादशाहादिपूपरितनेष्वेव क्रतुषु प्रवर्तते । अग्रता तु -ज्योतिष्टोमेऽपि काम्यतया (तत्तत्फलोद्देशेन अनुष्ठेयतया) विधीयते ॥ -गवामयनम् -अथ गवामयनाख्यं संवत्सरसत्रं निरूप्यते । क्रतुरयम् एकोत्तर- -षष्टयधिकशतत्रयदिनसाध्यः (३६१) । स त्रिधा विभक्तः-पूर्वपक्षः -विषुवान् उत्तरपक्ष इति । तत्र अशीत्यधिकशतदिनसाध्यं (१८०) -पूर्व पक्षः । अर्थात् तावत्सङ्ख्याकाः सुत्याः । तदनन्तरमेकमहः यस्य -विषुवानिति संज्ञा । ततोऽशीत्युत्तरशतदिन(१८०)साध्यम् उत्तरं -पक्षः (तावत्सङ्ख्याकाः) । समुदितस्यास्य गवामयनमिति संज्ञा । अर्थवादे -क्रतुरयं गोभिरनुष्ठित इति प्रशंसार्थमुक्तत्वात् गवामयनमिति नामास्य -सम्पन्नम् ॥ -तत्रैवमहाक्लप्तिः- -दिनसङ्ख्या -प्रथमदिनं प्रायणीयसंज्ञकमतिरात्रसंस्थाकम् -द्वितीयदिनं चतुर्विशस्तोमकमुक्थ्यसंस्थाकम् -ततोऽभिप्लवाख्यषडहस्य चतुरिमावृत्तिः ६:४-२४ -ततः पृष्ठयषडहः सकृत् -६ अयं एको मासः प्रथममासः ३० -एवमेव चत्वारोऽभिप्लवाः षडहाः ४४६-२४ -एक: पृष्ठयषडहः -६ द्वितीयो मासः ३० -एवं तृतीयो मासः -, चतुर्थों मासः -पञ्चमो मासः -त्रयोऽमिप्लवाः षडहाः -१८ -mr mr mr man - -=============== -141.jpg.txt" -===============" + - -===================================================== - -===================================================== -गवामयननिरूपणम् -a -W w my -8 -- -3 -एकः पृष्ठ यषडहः -६ -ततोऽभिजित्संज्ञकम् एकमहः -स्वरसामसंज्ञकानि त्रीण्यहानि -सर्व मिलित्वा १८० -ततो विपुवाख्यं मध्यममेकमहः -(अस्य चेतरापेक्षया सर्वोत्तमत्वमुक्तं श्रुतौ) -तत उत्तरं पक्षः-~-पूर्वपक्षस्युक्ताहां वैपरीत्येनानुष्ठानम् । तच्च यथा- -प्रथमतः त्रयः स्वरसामानः -ततो विश्वजित्संज्ञकमकमहः -१ -एक: पृष्ठयः पडहः -६ -प्रयोऽभिप्लवाः षडहाः -६४३% १८ -महाव्रताख्यमेकमहः (उपान्त्यदिनेऽनुष्ठे यम् ) -अतिरात्रसंस्थाकमेकमहः (अन्त्यदिनेऽनुष्ठेयम्) -एवं सप्तमो मासः -३० -अष्टमे मासि एकः पृष्ठ्यः पडहः । चत्वारोऽभिप्लवाः (मिलित्वा) ३० -एवमेव नवमो मासः -दशमो मासः -३० -एकादशो मासः -३० -द्वादशे मासि-त्रयोऽभिप्लवाः षडहाः -१८ -गोप्टोमः, आयुष्टोमश्च -२ -द्वादशाहस्य दशाहानि -१० -सर्व मिलित्वा १८० -एवमेकषष्ट यधिकशतत्रयदिनसाध्यं गवामयनाख्यं संवत्सरसत्रम् । -तदन्तर्गतौ पडहौ द्विप्रकारौ । तथा हि वेदे सोमयागसमूहविशेषाः -षडहास्त्रिविधा निरूपिताः- -षडहस्वरूपनिरूपणम् -१. पृष्ठथः षडहः, २. अभिप्लवः षडहः, ३. अभ्यासङ्गयः षडह इति । -३० -mr m m m m ar -" -17 - -=============== -142.jpg.txt" -===============" + - -===================================================== - -===================================================== -१३० -यज्ञतत्त्वप्रकाश -तत्र द्वादशाहान्तर्गतत्वेन पृष्ठ यः पडहो निरूपितः । तत्र च-- -रथन्तरादीनां षण्णां साम्नां क्रमेण पटापु दिनेषु हातृपृष्ठाङ्गतया गानम् । -अभिप्लवषडहे तु रथन्तरम् , बृहत् , रथन्तरम् , पृहत , रथन्तरम् , -बृहत् इत्येवंरूपेण गानम् । पृष्ठ यपडहे त्रिवृत् , पञ्चदशः, सरदशः, -एकविंशः, त्रिणवः, त्रयस्त्रिंश इति क्रमेण स्तोमाः सर्वेपु स्तोत्रेषु । -अभिप्लवषडहे एवं स्तोमक्लप्तिः- -प्रथमेऽहनि अग्निष्टोमवत् रथन्तरपृष्ठम् । -द्वितीयदिने गोष्टोमे प्रातस्सवने-बहिष्पवमाने पञ्चदशस्तोमः -आज्येपु विवृत् -माध्यन्दिनरावने-माध्यन्दिनपवमाने राप्तदशः -पृष्ठस्तोत्रेषु -बृहत् -तृतीयसवने--अभिवपवमाने-एकविंशः -अग्निष्टोमस्तोत्रे एकविंशः -उक्थ्यस्तोत्रेषु -गोष्टोमस्योक्थ्यसंस्थाकत्वादत्रैव समाप्तिः । -तृतीयमहरायुष्टोमसंज्ञकम् । तदप्युक्थ्यसंस्थाकम् । -तत्र प्रातस्सवने-बहिष्पवमानस्तोत्रे -त्रिवृत् स्तोमः -आज्यस्तोत्रेषु -माध्यन्दिनसवने-माध्यन्दिनपवमानस्तोत्रे -सप्तदशः -पृष्ठस्तोत्रेषु -बृहत् -तृतीयसवने सर्वेषु एकविंशः स्तोमः । -" -22 -पञ्चदशः ॥ -चतुर्थमहः पुनर्गोष्टोमात्मकम् उक्थ्यसंस्थाकम् । पञ्चममहः आयुष्टोमाख्यं -रथन्तरपृष्ठकम् उक्थ्यसंस्थाकम् । पष्ठमहः पुनज्योतिष्टोमाख्यं वृहत्पृष्ठम् -अग्निष्टोमसंस्थम् । अयमभिप्लवषडहः ॥ -इतोऽन्यः अभ्यासङ्गयः षडहः । तत्र स्तोमक्लप्तिरेवम्- -प्रथमेऽह्नि-प्रातस्सवने त्रिवृत्स्तोमः अमिष्टोमसंस्था -माध्यन्दिनसवने -तृतीयसवने पञ्चदशः - -=============== -143.jpg.txt" -===============" + - -===================================================== - -===================================================== -" -" -> -" -महाव्रतनिरूपणम् -द्वितीयेऽह्नि-प्रातर सबने पञ्चदशः -उक्थ्यसंस्था -माध्यन्दिनसक्ने -तृतीयसवने सप्तदशः -तृतीयेऽह्नि-प्रातस्सवने -माध्यन्दिनसवने -तृतीयसने -एकविंशः -चतुर्थेऽह्नि-प्रातस्सवने -माध्यन्दिनसवने -तृतीयसवने त्रिणवः -पञ्चगेऽह्नि-प्रास्सबने -अतिरात्रसंस्था -माध्यन्दिनसपने -तृतीयसबने त्रयस्त्रिंशः -षष्ठेऽहनि प्रकृत्यातेरात्रापेक्षया भिन्नातिरात्रसंस्था । अयमभ्यासमयः -षडहः । -पूर्वमहयन स्तोमेन समापितं तेनैव स्तोमेनाहरन्तरस्योपक्रमो- -ऽभ्यासङ्गः । तद्युक्तोऽभ्यासगथ इति । एवं त्रिविधा एव षडहाः प्रायेण -श्रुतावुदीरिताः ॥ -महाव्रतनिरूपणम् -इतः परं महाव्रताख्याहनिरूपणं क्रियते । इदमुपान्त्यदिनेऽनुष्ठेय- -मित्युक्तम् । अस्यापि संवत्सरसत्रे विषुवदहर्वत् मुख्यत्वमस्ति । -अत एव तद्वदत्रापि बहवो विशेषा विहिताः । इदं च पञ्चविंशस्तोमकम् । -अनेकविशेपयुक्तत्वादेवास्य महाव्रतत्वम् । स्वोत्रकाले उद्गाता औदुम्बरी- -मासन्दीगारुह्योपविश्य तत्र गायत् । सा च आसन्दी प्रादेशमात्रोन्नता -भवेत् । होता डोलामारुह्य तत्रोपविश्य शस्त्रं शंसेन्निष्केवल्याख्यम् । -तदा अध्वर्युः फलक उपविश्यौदुम्बरे प्रतिगरं कुर्यात् । मैत्रावरुणादयो -बृसीविशेषानधितिष्ठेयुः । कश्चिद्ब्राह्मणः सत्रिणः स्तुवीत । कश्चिञ्च -शूद्रस्तान् निन्देत् । एवं वेद्याः सर्वेष्वपि कोणेषु दुन्दुभीन् वादयेयुः । -आग्नीधमण्टपस्य पश्चिमभागेऽवटं कृत्वा चर्मणा तमाच्छादयेत् । सोऽयं -भूमिदुन्दुभिरित्युच्यते । तं वादयेयुः । प्रेक्षकाः सर्वेऽपि संस्कृतामसंस्कृतां -च वाचं वदेयुः । राजपुरुषा रथारूढा धनुर्धरा देवयजनं परितो - -=============== -144.jpg.txt" -===============" + - -===================================================== - -===================================================== -१३२ -यज्ञतत्त्वप्रकाशे -गच्छेयुः । मार्जालीयसमीपेऽष्टौ दासकुगार्य उदकुम्भान् गृहीत्वा -परिनृत्येयुः । एवं यजमानपन्यो वीणाविशेपैरुद्भातुरुपगानं कुर्युः । -ततः तन्त्रीशत युक्तां महावीणां वादयेयुः शङ्खांश्च । तत्र मुखवीणाः -काण्डवीणाश्च वाघेरन् । एते अन्ये च केचन विशेपा महाव्रते सन्ति । -अन्यदितराहवत् ॥ -इदमेव संवत्सरसत्रमितरेषामित उत्तरेषां सत्राणां प्रकृतिभूतम् । -विशेषाः परं ये केचित् तत्र तत्र विहितास्ते च श्रौतसूत्रादितो -विशेषजिज्ञासुभिरवगन्तव्याः ॥ -इति महामहोपाध्याय-शाखरनाकर-पण्डितसार्वभीम-श्रीचिन्नस्वामिशास्त्रि- -विरचिते यज्ञतत्त्वप्रकाशे अग्निचयनादिनिरूपणाख्यः -तृतीयो भागः -एवं अग्न्याधेयमारभ्य गवामयनाख्यसंवत्सरसत्रान्ता याज्ञिकी -प्रक्रिया आपस्तम्बश्रौतसूत्रं तैत्तिरीयसंहितां च प्राधान्येनावलम्ब्य -निरूपिता । परमियं पदार्थज्ञानायैवोपयुज्येत । अनुष्ठातृभिस्तु श्रौतसूत्र- -ग्रन्थाः पद्धतयश्च अनुष्ठानार्थमाश्रयणीयाः ॥ -ऋषीषुलोकवसुधा (१३५७) मिते वङ्गीयवत्सरे । -सप्ताधिकद्विसाहले (२००७) वैक्रमे विकृताह्वये ॥ -वर्षे कार्तिकराकायां प्रगे भार्गववासरे । -नगर्या कलिकातायां ग्रन्थोऽयं पूर्णतामगात् ॥ -रघुनाथान्नपूर्णाभ्यां जातेन विदुषां कुले । -श्रीवेङ्कटोपपदकसुब्रह्मण्याग्रजन्मना ॥ -श्रौतसूत्रब्राह्मणादिग्रन्थानालोड्य सर्वशः । -कृतोऽयं ग्रन्थसन्दर्भो भवतात् सुधियां मुदे ॥ -यस्याः प्रसादवशतः कृतिरेषा व्यरच्यत । -तस्या एनां जगन्मातुः पदद्वन्द्वेऽर्पयाम्यहम् ॥ -इति वेदवेदाङ्गपारदृश्ववैदिकसार्वभौमवाधूलवंशाम्बुधिसद्रन-श्रीरघुनाथ- -सूरितनुजन्मना श्रीमदन्नपूर्णागर्भसम्भूतेन, महामहोपाध्याय, शास्त्ररत्नाकर, -पण्डितसार्वभौम, वेदविशारदादिविविधोपाधिविभूषितेन श्रीचिन्नस्वामि- -शास्त्र्यपरनाम्ना वेङ्कटसुब्रह्मण्येन विरचितो यज्ञतत्त्वप्रकाशः -समाप्तः ॥ - -=============== -145.jpg.txt" -===============" + - -===================================================== - -===================================================== -APPENDIX -सोमलताया महिमा तदुतात्तिस्थानानि च -सुश्रुतसंहितायां वैद्यग्रन्थे चिकित्साप्रकरणे -हिमवत्यर्बुदे सह्ये महेन्द्र मलये तथा । -श्रीर्वते देवगिरौ गिरौ देवसहे तथा ॥ १ ॥ -पारियाः च विन्ध्ये च देवसुन्दे हदे तथा । -उत्तरेण वितस्तायाः प्रवृद्धा ये महीधराः ॥ २ ॥ -पञ्च तेषामघो मध्ये सिन्धुनामा महानदः । -हयवत् प्लवते तत्र चन्द्रमाः सोमसत्तमः ॥ ३॥ -तस्योद्देशेषु चाप्यस्ति मुजवानंशुमानपि । -काश्मीरेषु सरो दिव्यं नाना क्षुद्रकमानसम् ॥ ४ ॥ -गायत्रष्टुभः पाक्तो जागतः शाक्करस्तथा । -अत्र सन्त्यपरे चापि सोमाः सोमसनप्रभाः ॥ ५ ॥ -(सुश्रुतसंहिता, चिकित्साप्रकरणम् , अ. २९) -सोममहिमा सोमपानफलं च -ओपधीनां पति सोममुपयुज्य विचक्षणः । -दश वर्षसहस्राणि नवां धारयते तनुम् ॥ ६ ॥ -नाग्निन तोयं न विपं न शस्त्रं नास्त्रमेव च । -तस्यालमायुःक्षपणे समर्थाश्च भवन्ति हि ॥ ७ ॥ -भद्राणां पष्टिवर्षाणां प्रसूनानामनेकधा । -कुञ्जराणां सहस्रस्य बलं समधिगच्छति ॥ ८॥ -क्षीरोदं शक्रसदनमुत्तरांश्च कुरूनपि । -यत्रेच्छति स गन्तुं वा तत्राप्रतिहता गतिः ॥ ९ ॥ -साङ्गोपाङ्गांश्च निखिलान् वेदान् विन्दति तत्त्वतः । -चरत्यमोघसंकल्पा देववचाखिलं जगत् ॥ १० ॥ -कन्दर्प इव रूपेण कान्या चन्द्र इवापरः । -प्रह्लाद इति भूतानां मनांसि स महाद्युतिः । ११ -(सुश्रुतसंहिता, चिकित्सा० अ. २९) - -=============== -146.jpg.txt" -===============" + - -===================================================== - -===================================================== -ü -APPENDIX -सोमलतास्वरू तवृद्धिहींसश्च -श्यामलाम्ला च निष्पन्ना क्षीरिणी त्वचि मांसला । -श्लेष्मला वमनी वल्ली सोमाख्या छागमोजनम् ॥ १२ ॥ -सोमवल्ली महागुल्म। यज्ञश्रेष्ठा धनुर्लता ॥ (भावप्रकाशे) -सोमाही गुल्मवल्ली च यजवल्ली द्विजप्रिया । -सोमवल्ली कटुः शीना मधुरा पित्तदाहकृत् ॥ १३ ॥ -कृष्णा विशोपशमनी पावनी यज्ञसाधनी। -सर्वेषामेव सोमानां पत्राणि दश पञ्च च ॥ १४ ॥ -तानि शुक्ले च कृष्णणे च जायन्ते निपतन्ति च । -एकैकं जायते पत्रं सोमस्याहरहस्तदा ॥ १५ ॥ -शुक्लस्य पञ्चदश्यां तु भवेत् पञ्चदशच्छदः । -शीर्यते पत्रमे दिवसे दिवसे पुनः ॥ १६ ॥ -कृष्णपक्षक्षये चापि लता भवति केवला । -(सुश्रुतसंहिता, चिकित्सा० अ. २९) - -=============== -147.jpg.txt" -===============" + - -===================================================== - -===================================================== -1 -अमिहोत्रस्य दर्शपूर्णमासादीष्टीनां च वेदिः । -उत्तरा दिक -आनीधस्थानम् -होतु स्थानम् -उत्करः -अध्वर्युम्यानम् -अन्तःपानः -शाहवनीय: -गाईपत्यामिः -पश्चिमा दिक् -वेदिः -अङ्गुलानि -अङ्गुलानि -पूर्वी दिक -यजमानस्योपवेशनस्थानम् -O -पनीस्थानम् -ब्राह्मण उपवेशस्थानम् -i -दक्षिणाग्निः -१९ ॥ अ -दक्षिणा दिक् - -=============== -148.jpg.txt" -===============" + -===================================================== -BALNK PAGE -===================================================== - -=============== -149.jpg.txt" -===============" + - -===================================================== - -===================================================== -2 -चातुर्मास्यान्तर्गतवारुणप्रघासिकवेदिः(अत्र वेदिद्वयम्) -उत्तरा दिक् -आनीस्थानम् -स्थानम -अवयों. स्थानमा -गाईपत्यानिः -उत्तग -वेदिः -आइयनीयः -उत्तरदिः -अञ्जुलानि -पश्चिमा दिक् -दक्षिणाभिः -पूर्वी दिक् -दक्षिणा -वेदिः -आइपनीयः -0 -उत्तरवतिः -पजमानापवंशनाथानम -ब्राह्मण उपवेशस्थानम् -दक्षिणा दिक - -=============== -150.jpg.txt" -===============" + -===================================================== -BALNK PAGE -===================================================== - -=============== -151.jpg.txt" -===============" + - -===================================================== - -===================================================== -3 -एकादशकपालोपधानप्रकारः -उत्तरा दिक् -पश्चिमा दिक -पूर्वा दिक् -११ -X -दक्षिणा दिक् -अष्टाकपालोपधानप्रकारः -उत्तरा दिक् -पश्चिमा दिक -पूर्वी दिक् -दक्षिणा दिक - -=============== -152.jpg.txt" -===============" + -===================================================== -BALNK PAGE -===================================================== - -=============== -153.jpg.txt" -===============" + - -===================================================== - -===================================================== -4 -अन्य एकादशकपालोपधानप्रकारः -उत्तरा दिक् -y -06 -पश्चिमा दिक -पूर्वी दिक -६ -२ -s -x -6 -दक्षिणा दिक -अन्योऽष्टाकपालोपधानप्रकार: -उत्तरा दिक् -२ -पश्चिमा दिक -३ -पूर्वी दिक -स -दक्षिणा दिक् - -=============== -154.jpg.txt" -===============" + -===================================================== -BALNK PAGE -===================================================== - -=============== -155.jpg.txt" -===============" + - -===================================================== - -===================================================== -पूर्वा दिक् -चात्वालम -यूगावटः -ब्रह्मस्थान -आहव- -नायः -शामित्रम् . -यजमानस्थानम -आग्नीघ्रस्था. अध्वर्युस्था. -पाशुकी -उत्तरवेदिः -होतृस्थानम् -मैत्रावरूण. -प्रथमाह- -वनीयः -स्वतन्त्रपशुयागवेदिः -उत्तरा दिक् -दक्षिणा दिक् -दक्षिणाग्निः -to -गाह- -पत्यः -पश्चिमा दिक् - -=============== -156.jpg.txt" -===============" + -===================================================== -BALNK PAGE -===================================================== - -=============== -157.jpg.txt" -===============" + -===================================================== -BALNK PAGE -===================================================== - -=============== -158.jpg.txt" -===============" + - -===================================================== - -===================================================== -सुपर्ण(श्येन)चितेः द्वितीयचतुर्थप्रस्तारयोः स्वरूपम् -पूर्वा दिक् -उत्तरा दिक -पश्चिमा दिक् - -=============== -159.jpg.txt" -===============" + -===================================================== -BALNK PAGE -===================================================== - -=============== -160.jpg.txt" -===============" + - -===================================================== - -===================================================== -सुपर्ण(श्येन)चितेः प्रथमः, तृतीयः, पञ्चमश्च प्रस्तारः -पूर्वा दिक् -उत्तरा दिक -दक्षिणा दिन -पश्चिमा दिक - -=============== -161.jpg.txt" -===============" + -===================================================== -BALNK PAGE -===================================================== - -=============== -162.jpg.txt" -===============" + -===================================================== -BALNK PAGE -=====================================================